Lord Krishna

श्रीमद्भागवतम् १०.२

(Srimad Bhagavatam Canto 10, Chapter 2 — The Gods Pray to the Lord in the Womb)

Vyasa

Also known as pralambabakacanuratrnavartamahasanai mustikaristadvividaputanakesidhenukai

The Gods Pray to the Lord in the Womb. Śrīmad Bhāgavatam Canto 10, Chapter 2 (The Life of Kṛṣṇa), 42 verses in Sanskrit with transliteration in 9 scripts.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

श्रीशुक उवाच
प्रलम्बबकचाणूरतृणावर्तमहाशनैः । मुष्टिकारिष्टद्विविदपूतनाकेशीधेनुकैः ॥ १ ॥
अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः । यदूनां कदनं चक्रे बली मागधसंश्रयः ॥ २ ॥
ते पीडिता निविविशुः कुरुपञ्चालकेकयान् । शाल्वान् विदर्भान् निषधान् विदेहान् कोशलानपि ॥ ३ ॥
एके तमनुरुन्धाना ज्ञातयः पर्युपासते । हतेषु षट्‌सु बालेषु देवक्या औग्रसेनिना ॥ ४ ॥
सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते । गर्भो बभूव देवक्या हर्षशोकविवर्धनः ॥ ५ ॥
भगवानपि विश्वात्मा विदित्वा कंसजं भयम् । यदूनां निजनाथानां योगमायां समादिशत् ॥ ६ ॥
गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्कृतम् । रोहिणी वसुदेवस्य भार्यास्ते नन्दगोकुले । अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि ॥ ७ ॥
देवक्या जठरे गभन शेषाख्यं धाम मामकम् । तत् सन्निकृष्य रोहिण्या उदरे सन्निवेशय ॥ ८ ॥
अथाहमंशभागेन देवक्याः पुत्रतां शुभे । प्राप्स्यामि त्वं यशोदायां नन्दपत्न्‍यां भविष्यसि ॥ ९ ॥
अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम् । धूपोपहारबलिभिः सर्वकामवरप्रदाम् ॥ १० ॥
नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि । दुर्गेति भद्रकालीति विजया वैष्णवीति च ॥ ११ ॥
कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च । माया नारायणीशानी शारदेत्यम्बिकेति च ॥ १२ ॥
गर्भसङ्कर्षणात् तं वै प्राहुः सङ्कर्षणं भुवि । रामेति लोकरमणाद् बलभद्रं बलोच्छ्रयात् ॥ १३ ॥
सन्दिष्टैवं भगवता तथेत्योमिति तद्वचः । प्रतिगृह्य परिक्रम्य गां गता तत् तथाकरोत् ॥ १४ ॥
गर्भे प्रणीते देवक्या रोहिणीं योगनिद्रया । अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः ॥ १५ ॥
भगवानपि विश्वात्मा भक्तानामभयङ्करः । आविवेशांशभागेन मन आनकदुन्दुभेः ॥ १६ ॥
स बिभ्रत् पौरुषं धाम भ्राजमानो यथा रविः । दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह ॥ १७ ॥
ततो जगन्मङ्गलमच्युतांशंसमाहितं शूरसुतेन देवी । दधार सर्वात्मकमात्मभूतंकाष्ठा यथानन्दकरं मनस्तः ॥ १८ ॥
सा देवकी सर्वजगन्निवास-निवासभूता नितरां न रेजे । भोजेन्द्रगेहेऽग्निशिखेव रुद्धासरस्वती ज्ञानखले यथा सती ॥ १९ ॥
तां वीक्ष्य कंसः प्रभयाजितान्तरांविरोचयन्तीं भवनं शुचिस्मिताम् । आहैष मे प्राणहरो हरिर्गुहांध्रुवं श्रितो यन्न पुरेयमीद‍ृशी ॥ २० ॥
किमद्य तस्मिन् करणीयमाशु मेयदर्थतन्त्रो न विहन्ति विक्रमम् । स्त्रियाः स्वसुर्गुरुमत्या वधोऽयंयशः श्रियं हन्त्यनुकालमायुः ॥ २१ ॥
स एष जीवन् खलु सम्परेतोवर्तेत योऽत्यन्तनृशंसितेन । देहे मृते तं मनुजाः शपन्तिगन्ता तमोऽन्धं तनुमानिनो ध्रुवम् ॥ २२ ॥
इति घोरतमाद् भावात् सन्निवृत्तः स्वयं प्रभुः । आस्ते प्रतीक्षंस्तज्जन्म हरेर्वैरानुबन्धकृत् ॥ २३ ॥
आसीनः संविशंस्तिष्ठन् भुञ्जानः पर्यटन् महीम् । चिन्तयानो हृषीकेशमपश्यत् तन्मयं जगत् ॥ २४ ॥
ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः । देवैः सानुचरैः साकं गीर्भिर्वृषणमैडयन् ॥ २५ ॥
सत्यव्रतं सत्यपरं त्रिसत्यंसत्यस्य योनिं निहितं च सत्ये । सत्यस्य सत्यमृतसत्यनेत्रंसत्यात्मकं त्वां शरणं प्रपन्नाः ॥ २६ ॥
एकायनोऽसौ द्विफलस्त्रिमूल-श्चतूरसः पञ्चविधः षडात्मा । सप्तत्वगष्टविटपो नवाक्षोदशच्छदी द्विखगो ह्यादिवृक्षः ॥ २७ ॥
त्वमेक एवास्य सतः प्रसूति-स्त्वं सन्निधानं त्वमनुग्रहश्च । त्वन्मायया संवृतचेतसस्त्वांपश्यन्ति नाना न विपश्चितो ये ॥ २८ ॥
बिभर्षि रूपाण्यवबोध आत्माक्षेमाय लोकस्य चराचरस्य । सत्त्वोपपन्नानि सुखावहानिसतामभद्राणि मुहुः खलानाम् ॥ २९ ॥
त्वय्यम्बुजाक्षाखिलसत्त्वधाम्निसमाधिनावेशितचेतसैके । त्वत्पादपोतेन महत्कृतेनकुर्वन्ति गोवत्सपदं भवाब्धिम् ॥ ३० ॥
स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
भवार्णवं भीममदभ्रसौहृदाः ।
भवत्पदाम्भोरुहनावमत्र ते
निधाय याताः सदनुग्रहो भवान् ॥ ३१ ॥
येऽन्येऽरविन्दाक्ष विमुक्तमानिन-
स्त्वय्यस्तभावादविशुद्धबुद्धयः ।
आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्यधोऽनाद‍ृतयुष्मदङ्‌घ्रयः ॥ ३२ ॥
तथा न ते माधव तावकाः क्‍वचिद्
भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः ।
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकपमूर्धसु प्रभो ॥ ३३ ॥
सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेयउपायनं वपुः ।
वेदक्रियायोगतपःसमाधिभि-
स्तवार्हणं येन जनः समीहते ॥ ३४ ॥
सत्त्वं न चेद्धातरिदं निजं भवेद्
विज्ञानमज्ञानभिदापमार्जनम् ।
गुणप्रकाशैरनुमीयते भवान्
प्रकाशते यस्य च येन वा गुणः ॥ ३५ ॥
न नामरूपे गुणजन्मकर्मभि-
र्निरूपितव्ये तव तस्य साक्षिणः ।
मनोवचोभ्यामनुमेयवर्त्मनो
देव क्रियायां प्रतियन्त्यथापि हि ॥ ३६ ॥
श‍ृण्वन् गृणन् संस्मरयंश्च चिन्तयन्
नामानि रूपाणि च मङ्गलानि ते ।
क्रियासु यस्त्वच्चरणारविन्दयो-
राविष्टचेता न भवाय कल्पते ॥ ३७ ॥
दिष्टय‍ा हरेऽस्या भवतः पदो भुवो
भारोऽपनीतस्तव जन्मनेशितुः ।
दिष्टय‍ाङ्कितां त्वत्पदकैः सुशोभनै-
र्द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ ३८ ॥
न तेऽभवस्येश भवस्य कारणं
विना विनोदं बत तर्कयामहे ।
भवो निरोधः स्थितिरप्यविद्यया
कृता यतस्त्वय्यभयाश्रयात्मनि ॥ ३९ ॥
मत्स्याश्वकच्छपनृसिंहवराहहंस-
राजन्यविप्रविबुधेषु कृतावतारः ।
त्वं पासि नस्त्रिभुवनं च यथाधुनेश
भारं भुवो हर यदूत्तम वन्दनं ते ॥ ४० ॥
दिष्टय‍ाम्ब ते कुक्षिगतः परः पुमा-
नंशेन साक्षाद् भगवान् भवाय नः ।
माभूद् भयं भोजपतेर्मुमूर्षो-
र्गोप्ता यदूनां भविता तवात्मजः ॥ ४१ ॥
श्रीशुक उवाच
इत्यभिष्टूय पुरुषं यद्रूपमनिदं यथा ।
ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर्दिवम् ॥ ४२ ॥

Explore More