Lord Krishna

श्रीमद्भागवतम् १०.२५

(Srimad Bhagavatam Canto 10, Chapter 25 — Kṛṣṇa Lifts Govardhana Hill)

Vyasa

Also known as indrastadatmana pujam vijnaya vihatam nrpa gopebhya

Kṛṣṇa Lifts Govardhana Hill. Śrīmad Bhāgavatam Canto 10, Chapter 25 (The Life of Kṛṣṇa), 33 verses in Sanskrit with transliteration in 9 scripts.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

श्रीशुक उवाच
इन्द्रस्तदात्मनः पूजां विज्ञाय विहतां नृप । गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप ह ॥ १ ॥
गणं सांवर्तकं नाम मेघानां चान्तकारीणाम् । इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेशमान्युत ॥ २ ॥
अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् । कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम् ॥ ३ ॥
यथाद‍ृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः । विद्यामान्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ॥ ४ ॥
वाचालं बालिशं स्तब्धमज्ञं पण्डितमानिनम् । कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५ ॥
एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् । धुनुत श्रीमदस्तम्भं पशून् नयत सङ्‌क्षयम् ॥ ६ ॥
अहं चैरावतं नागमारुह्यानुव्रजे व्रजम् । मरुद्गणैर्महावेगैर्नन्दगोष्ठजिघांसया ॥ ७ ॥
श्रीशुक उवाच
इत्थं मघवताज्ञप्ता मेघा निर्मुक्तबन्धनाः । नन्दगोकुलमासारैः पीडयामासुरोजसा ॥ ८ ॥
विद्योतमाना विद्युद्भ‍िः स्तनन्तः स्तनयित्नुभिः । तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः ॥ ९ ॥
स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्वभीक्ष्णशः । जलौघैः प्लाव्यमाना भूर्नाद‍ृश्यत नतोन्नतम् ॥ १० ॥
अत्यासारातिवातेन पशवो जातवेपनाः । गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः ॥ ११ ॥
शिरः सुतांश्च कायेन प्रच्छाद्यासारपीडिताः । वेपमाना भगवतः पादमूलमुपाययुः ॥ १२ ॥
कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो । त्रातुमर्हसि देवान्नः कुपिताद् भक्तवत्सल ॥ १३ ॥
शिलावर्षातिवातेन हन्यमानमचेतनम् । निरीक्ष्य भगवान् मेने कुपितेन्द्रकृतं हरिः ॥ १४ ॥
अपर्त्वत्युल्बणं वर्षमतिवातं शिलामयम् । स्वयागे विहतेऽस्माभिरिन्द्रो नाशाय वर्षति ॥ १५ ॥
तत्र प्रतिविधिं सम्यगात्मयोगेन साधये । लोकेशमानिनां मौढ्याद्धनिष्ये श्रीमदं तमः ॥ १६ ॥
न हि सद्भ‍ावयुक्तानां सुराणामीशविस्मयः । मत्तोऽसतां मानभङ्गः प्रशमायोपकल्पते ॥ १७ ॥
तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् । गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ १८ ॥
इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् । दधार लीलया विष्णुश्छत्राकमिव बालकः ॥ १९ ॥
अथाह भगवान् गोपान्हेऽम्ब तात व्रजौकसः । यथोपजोषं विशत गिरिगर्तं सगोधनाः ॥ २० ॥
न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातनात् । वातवर्षभयेनालं तत्‍त्राणं विहितं हि वः ॥ २१ ॥
तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानसः । यथावकाशं सधनाः सव्रजाः सोपजीविनः ॥ २२ ॥
क्षुत्तृड्‍‌‌‌व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभिः । वीक्ष्यमाणो दधाराद्रिं सप्ताहं नाचलत् पदात् ॥ २३ ॥
कृष्णयोगानुभावं तं निशम्येन्द्रोऽतिविस्मितः । निस्तम्भो भ्रष्टसङ्कल्पः स्वान्मेघान् सन्न्यवारयत् ॥ २४ ॥
खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम् । निशम्योपरतं गोपान् गोवर्धनधरोऽब्रवीत् ॥ २५ ॥
निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः । उपारतं वातवर्षं व्युदप्रायाश्च निम्नगाः ॥ २६ ॥
ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम् । शकटोढोपकरणं स्त्रीबालस्थविराः शनैः ॥ २७ ॥
भगवानपि तं शैलं स्वस्थाने पूर्ववत् प्रभुः । पश्यतां सर्वभूतानां स्थापयामास लीलया ॥ २८ ॥
तं प्रेमवेगान्निर्भृता व्रजौकसोयथा समीयुः परिरम्भणादिभिः । गोप्यश्च सस्‍नेहमपूजयन् मुदादध्यक्षताद्भ‍िर्युयुजुः सदाशिषः ॥ २९ ॥
यशोदा रोहिणी नन्दो रामश्च बलिनां वरः । कृष्णमालिङ्‌‌ग्य युयुजुराशिषः स्‍नेहकातराः ॥ ३० ॥
दिवि देवगणाः सिद्धाः साध्या गन्धर्वचारणाः । तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव ॥ ३१ ॥
शङ्खदुन्दुभयो नेदुर्दिवि देवप्रचोदिताः । जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप ॥ ३२ ॥
ततोऽनुरक्तैः पशुपैः परिश्रितोराजन् स्वगोष्ठं सबलोऽव्रजद्धरिः । तथाविधान्यस्य कृतानि गोपिकागायन्त्य ईयुर्मुदिता हृदिस्पृशः ॥ ३३ ॥

Explore More