Lord Kartikeya

सुब्रह्मण्यष्टोत्तरशत नामस्तोत्रम्

(Subrahmanya Ashtottara Shata Nama Stotram)

From Rudrayamala Tantra

The Subrahmanya Ashtottara Shata Nama Stotram is a sacred hymn dedicated to Lord Kartikeya, the divine commander-in-chief of the celestial armies. Originating from the Rudrayamala Tantra, this stotra lists the one hundred and eight auspicious names of the deity, each highlighting his divine attributes, valor, and protective nature. Devotees chant this powerful stotra to invoke the blessings of Lord Murugan for overcoming obstacles, conquering internal and external foes, and gaining spiritual wisdom. Regular recitation is believed to grant mental clarity, physical health, and the courage required to navigate life's challenges with grace and strength.

शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननम् ।
दारुणं रिपुरोगघ्नं भावये कुक्कुटध्वजम् ॥
इति ध्यानम्
स्कन्दो गुहः षण्मुखश्च फालनेत्रसुतः प्रभुः ।
पिङ्गलः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥ 1 ॥
द्विषण्णेत्र-श्शक्तिधरः पिशिताश प्रभञ्जनः ।
तारकासुरसंहारी रक्षोबलविमर्दनः ॥ 2 ॥
मत्तः प्रमत्त उन्मत्तः सुरसैन्यसुरक्षकः ।
देवसेनापतिः प्राज्ञः कृपालु र्भक्तवत्सलः ॥ 3 ॥
उमासुत-श्शक्तिधरः कुमारः क्रौञ्चधारणः ।
सेनानी-रग्निजन्मा च विशाखः शङ्करात्मजः ॥ 4 ॥
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः ।
अनन्तमूर्ति रक्षोभ्यः पार्वतीप्रियनन्दनः ॥ 5 ॥
गङ्गासुत-श्शरोद्भूत आहूतः पावकात्मजः ।
जृम्भः प्रजृम्भ उज्जृम्भः कमलासनसंस्तुतः ॥ 6 ॥
एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः ।
चतुर्वर्णः पञ्चवर्णः प्रजापति-रहस्पतिः ॥ 7 ॥
अग्निगर्भ-श्शमीगर्भो विश्वरेता-स्सुरारिहा ।
हरिद्वर्ण-श्शुभकरो पटुश्च वटुवेषभृत् ॥ 8 ॥
पूषा गभस्ति-र्गहन श्चन्द्रवर्णः कलाधरः ।
मायाधरो महामायी कैवल्य-श्शङ्करात्मजः ॥ 9 ॥
विश्वयोनि-रमेयात्मा तेजोनिधि-रनामयः ।
परमेष्ठी परम्ब्रह्म वेदगर्भो विराट्सुतः ॥ 10 ॥
पुलिन्दकन्याभर्ता च महासारस्वतावृतः ।
अश्रितोखिलदाता च चोरघ्नो रोगनाशनः ॥ 11 ॥
अनन्तमूर्ति-रानन्द-श्शिखण्डीकृतकेतनः ।
डम्भः परमडम्भश्च महाडम्भो वृषाकपिः ॥ 12 ॥
कारणोपात्तदेहश्च कारणातीतविग्रहः ।
अनीश्वरोऽमृतः प्राणः प्राणायामपरायणः ॥ 13 ॥
विरुद्धहन्ता वीरघ्नो रक्तश्यामगलोऽपि च ।
सुब्रह्मण्यो गुहः प्रीतो ब्रह्मण्यो ब्राह्मणप्रियः ॥ 14 ॥
वंशवृद्धिकरो वेदो वेद्योऽक्षयफलप्रदः ॥ 15 ॥
इति श्री सुब्रह्मण्याष्टोत्तर शतनामस्तोत्रं सम्पूर्णम् ।

Explore More