तराणिस्त्वमसि तमसि जनिमृतिभवभयतरणे!॥
किं च ददास्यन्धानामिव जगतां दृष्टिं॥
पास्यनलस एव परिभ्रमणपरः सृष्टिं।
मन्ये लोकं वरसं त्वां भगवन्! गृष्टिम्॥१॥
दुःसहविरहमहार्तेरङ्गदः कोकानां॥
हेतुर्मन्देहासुरसेनाशोकानां।
तव भाम्बुरुहां सुखदारणिरिव तोकानाम्॥२॥
कुरुते पुरतस्तेंऽजलिमजयद्यो मारं॥
त्वं खलु सद्गतिभाजामार्याणां द्वारं।
मुदिर इव मयूरकुलं सुखयसि सेद्वारम्॥३॥
