ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
अनुवाकं 1 - ग्रहणा ग्रहणम्
उ॒भये॒ वा ए॒ते प्र॒जाप॑ते॒रद्ध्य॑-सृज्यन्त । दे॒वाश्चासु॑राश्च । तान्न व्य॑जानात् । इ॒मे᳚-ऽन्य इ॒मे᳚-ऽन्य इति॑ । स दे॒वान॒ग्ं॒ शून॑करोत् । तान॒भ्य॑षुणोत् । ता-न्प॒वित्रे॑णा-पुनात् । तान्-प॒रस्ता᳚त्-प॒वित्र॑स्य॒-व्य॑गृह्णात् । ते ग्रहा॑ अभवन्न् । तद्ग्रहा॑णा-ङ्ग्रह॒त्वम् ॥ 1 ॥
अनुवाकं 2 - सोत्रामणीशेषा मन्त्राः
यु॒वग्ं सु॒राम॑मश्विना । नमु॑चावा-ऽसु॒रे सचा᳚ । वि॒पि॒पा॒ना शु॑भस्पती । इन्द्र॒-ङ्कर्म॑स्वावतम् ॥ पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भा । इन्द्राव॑त॒-ङ्कर्म॑णा द॒ग्ं॒सना॑भिः । य-थ्सु॒रामं॒-व्यँपि॑ब॒-श्शची॑भिः । सर॑स्वती त्वा मघवन्नभीष्णात् ॥ अहा᳚व्यग्ने ह॒विरा॒स्ये॑ ते । स्रु॒चीव॑ घृ॒त-ञ्च॒मू इ॑व॒ सोमः॑ ॥ 7 ॥
अनुवाकं 3 - दोहप्रायश्चित्तम्, अग्निहोत्रे
उद॑स्था-द्दे॒व्यदि॑ति-र्विश्वरू॒पी । आयु॑र्य॒ज्ञप॑तावधात् । इन्द्रा॑य कृण्व॒ती भा॒गम् । मि॒त्राय॒ वरु॑णाय च ॥ इ॒यं-वाँ अ॑ग्निहो॒त्री । इ॒यं-वाँ ए॒तस्य॒ निषी॑दति । यस्या᳚ग्निहो॒त्री नि॒षीद॑ति । तामुत्था॑पयेत् । उद॑स्था-द्दे॒व्यदि॑ति॒रिति॑ । इ॒यं-वैँ दे॒व्यदि॑तिः ॥ 11 ॥
अनुवाकं 4 - अग्निप्रायश्चित्तं अग्निहोत्रे
नि वा ए॒तस्या॑हव॒नीयो॒ गार्ह॑पत्य-ङ्कामयते । नि गार्ह॑पत्य आहव॒नीय᳚म् । यस्या॒ग्निमनु॑द्धृत॒ग्ं॒ सूर्यो॒-ऽभिनि॒म्रोच॑ति । द॒र्भेण॒ हिर॑ण्य-म्प्र॒बद्ध्य॑ पु॒रस्ता᳚द्धरेत् । अथा॒ग्निम् । अथा᳚ग्निहो॒त्रम् । यद्धिर॑ण्य-म्पु॒रस्ता॒द्धर॑ति । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒वैन॒-म्पश्य॒-न्नुद्ध॑रति । यद॒ग्नि-म्पूर्व॒ग्ं॒ हर॒त्यथा᳚-ग्निहो॒त्रम् ॥ 17 ॥
(नि वै पूर्व॒-न्त्रीणि॑ नि॒म्रोच॑ति द॒र्भेण॒ यद्धिर॑ण्यमग्निहो॒त्र-म्पुन॒र्वरु॑णो
वारु॒ण-न्नि वा ए॒तस्या॒भ्यु॑देति॑ चतुर्गृही॒तमाज्यं॒ यदाज्यं॒ परा᳚च्यु॒षाः पुन॑र्मि॒त्रो मे॒त्रं-यँस्या॑हव॒नीये-ऽनु॑द्वाते॒ गार्ह॑पत्यो॒ यद्वै म॑न्थे॒दुद्ध॑रेत्)
अनुवाकं 5 - सोमातिरेकप्रायश्चित्तम्
यस्य॑ प्रातस्सव॒ने सोमो॑-ऽति॒रिच्य॑ते । माद्ध्य॑न्दिन॒ग्ं॒ सव॑न-ङ्का॒मय॑मानो॒-ऽभ्यति॑रिच्यते । गौर्ध॑यति म॒रुता॒मिति॒ धय॑द्वतीषु कुर्वन्ति । हि॒नस्ति॒ वै स॒न्ध्यधी॑तम् । स॒न्धीव॒ खलु॒ वा ए॒तत् । य-थ्सव॑न स्याति॒रिच्य॑ते । यद्धय॑द्वतीषु कु॒र्वन्ति॑ । स॒न्धे-श्शान्त्यै᳚ ॥ गा॒य॒त्रग्ं साम॑ भवति पञ्चद॒श-स्स्तोमः॑ । तेनै॒व प्रा॑तस्सव॒नान्नय॑न्ति ॥ 28 ॥
अनुवाकं 6 - सवननिमित्त-म्प्रायश्चित्तम्
एकै॑को॒ वै ज॒नता॑या॒-मिन्द्रः॑ । एकं॒-वाँ ए॒ताविन्द्र॑म॒भि सग्ंसु॑नुतः । यौ द्वौ सग्ं॑सुनु॒तः । प्र॒जाप॑ति॒र्वा ए॒ष विता॑यते । य-द्य॒ज्ञः । तस्य॒ ग्रावा॑णो॒ दन्ताः᳚ । अ॒न्य॒त॒रं-वाँ ए॒ते सग्ं॑सुन्व॒तो-र्निर्ब॑फ्सति । पूर्वे॑णोप॒सृत्या॑ दे॒वता॒ इत्या॑हुः । पू॒र्वो॒प॒सृ॒तस्य॒ वै श्रेया᳚-न्भवति । एति॑व॒न्त्याज्या॑नि भवन्त्य॒-भिजि॑त्यै ॥ 32 ॥
अनुवाकं 7 - यूपविरोहणादिप्रायश्चित्तम्
अ॒सु॒र्यं॑-वाँ ए॒तस्मा॒-द्वर्ण॑-ङ्कृ॒त्वा । प॒शवो॑ वी॒र्य॑-मप॑क्रामन्ति । यस्य॒ यूपो॑ वि॒रोह॑ति । त्वा॒ष्ट्र-म्ब॑हुरू॒प-माल॑भेत । त्वष्टा॒ वै रू॒पाणा॑मीशे । य ए॒व रू॒पाणा॒मीशे᳚ । सो᳚-ऽस्मि-न्प॒शून्. वी॒र्यं॑-यँच्छति । नास्मा᳚त्-प॒शवो॑ वी॒र्य॑-मप॑क्रामन्ति ॥ आर्तिं॒-वाँ ए॒ते निय॑न्ति । येषा᳚-न्दीक्षि॒ताना॑-म॒ग्नि-रु॒द्वाय॑ति ॥ 39 ॥
अनुवाकं 8 - पावमानीमन्त्राः (स्मार्ते श्ञानादौ मार्जनार्थाश्च)
पव॑मान॒-स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्षणिः । यः पोता॒ स पु॑नातु मा ॥ पु॒नन्तु॑ मा देवज॒नाः । पु॒नन्तु॒ मन॑ वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ ॥ जात॑वेदः प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा । शु॒क्रेण॑ देव॒ दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतू॒ग्ं॒ रनु॑ ॥ 46 ॥
अनुवाकं 9 - राजसूयगतचातुर्मास्यशेषः
प्र॒जा वै स॒त्रमा॑सत॒ तप॒स्तप्य॑माना॒ अजु॑ह्वतीः । दे॒वा अ॑पश्य-ञ्चम॒स-ङ्घृ॒तस्य॑ पू॒र्णग्ग् स्व॒धाम् । तमुपोद॑तिष्ठ॒न्त-म॑जुहवुः । तेना᳚र्धमा॒स ऊर्ज॒मवा॑रुन्धत । तस्मा॑दर्धमा॒से दे॒वा इ॑ज्यन्ते ॥ पि॒तरो॑-ऽपश्य-ञ्चम॒स-ङ्घृ॒तस्य॑ पू॒र्णग्ग् स्व॒धाम् । तमुपोद॑तिष्ठ॒न्त- म॑जुहवुः । तेन॑ मा॒स्यूर्ज॒मवा॑रुन्धत । तस्मा᳚-न्मा॒सि पि॒तृभ्यः॑ क्रियते । म॒नु॒ष्या॑ अपश्य-ञ्चम॒स-ङ्घृ॒तस्य॑ पू॒र्णग्ग् स्व॒धाम् ॥ 52 ॥
अनुवाकं 10 - चातुर्मास्यप्रशंसनम्
अ॒ग्निर्वाव सं॑वँथ्स॒रः । आ॒दि॒त्यः प॑रिवथ्स॒रः । च॒न्द्रमा॑ इदावथ्स॒रः । वा॒यु-र॑नुवथ्स॒रः ॥ य-द्वै᳚श्वदे॒वेन॒ यज॑ते । अ॒ग्निमे॒व त-थ्सं॑वँथ्स॒र-मा᳚प्नोति । तस्मा᳚-द्वैश्वदे॒वेन॒ यज॑मानः । सं॒वँ॒थ्स॒रीणाग्॑ स्व॒स्ति-माशा᳚स्त॒ इत्याशा॑सीत ॥ य-द्व॑रुण प्रघा॒सै-र्यज॑ते । आ॒दि॒त्यमे॒व त-त्प॑रिवथ्स॒र-मा᳚प्नोति ॥ 57 ॥
(प॒रि॒व॒थ्स॒रमा᳚प्नोति - शुनासी॒रीये॑ण॒ यज॑ते - ऽजयन्थ् - सहस्रया॒जिन॑मा॒प्नोति॑ - वैश्वदेव॒त्वग्ं - सा॑कमे॒धैर॑यजत - स॒मैध॑न्त - पितृयज्ञ॒त्वं - ज॑यति॒ यस्मि॑न् वा॒यु--र् हे॑म॒न्त स्त्रीणी॑ च) (अ. 10)
(उ॒भये॑ - यु॒वग्ं सु॒राम॒ - मुद॑स्था॒न् - नि वै - यस्य॑ प्रातस्सव॒न - एकै॑को - ऽसु॒र्यम् - पव॑मानः - प्र॒जा वै स॒त्रमा॑स - ता॒ग्निर्वाव सं॑वँथ्स॒रो दश॑ )
(उ॒भये॒ वा - उद॑स्था॒थ् - सर्वा॑भि--र् मद्ध्य॒तो - ऽत्र॒ वाव - ब्रा᳚ह्म॒णेष्व - थ॑ गृहमे॒धिन॒ग्ं॒ षट्-थ्ष॑ष्टिः)
(उ॒भये॒ - वावैषः)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके चतुर्थः प्रपाठक-स्समाप्तः ॥
1 कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टकं
