Sarada Devi

प्रकृतिं परमामभयां वरदां

(Prakritim Paramam — Sri Sarada Devi Aratrikam)

Swami Abhedananda

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

प्रकृतिं परमामभयां वरदां नररूपधरां जनतापहराम् । शरणागत सेवक तोषकरीं प्रणमामि परां जननीं जगताम् ॥१॥
गुणहीनसुतानपराधयुतान् कृपयाऽद्य समुद्धर मोहगतान् । तरणीं भवसागरपारकरीं प्रणमामि परां जननीं जगताम् ॥२॥
विषयं कुसुमं परिहृत्य सदा चरणाम्बुरुहामृतशान्तिसुधाम् । पिब भृंगमनो भवरोगहरां प्रणमामि परां जननीं जगताम् ॥३॥
कृपां कुरु महादेवि सुतेषु प्रणतेषु च । चरणाश्रयदानेन कृपामयि नमोऽस्तु ते ॥४॥
लज्जापटावृते नित्यं सारदे ज्ञानदायिके । पापेभ्यो नः सदा रक्ष कृपामयि नमोऽस्तु ते ॥५॥
रामकृष्णगतप्राणां तन्नामश्रवणप्रियाम् । तद्भावरञ्जिताकारां प्रणमामि मुहुर्मुहुः ॥६॥
पवित्रं चरितं यस्याः पवित्रं जीवनं तथा । पवित्रतास्वरूपिण्यै तस्यै कुर्मो नमो नमः ॥७॥
देवीं प्रसन्नां प्रणतार्तिहन्त्रीं योगीन्द्रपूज्यां युगधर्मपात्रीम् । तां सारदां भक्तिविज्ञानदात्रीं दयास्वरूपां प्रणमामि नित्यम् ॥८॥
स्नेहेन बध्नासि मनोऽस्मदीयं दोषानशेषान् सगुणीकरोषि । अहेतुना नो दयसे सदोषान् स्वाङ्के गृहीत्वा यदिदं विचित्रम् ॥९॥
प्रसीद मातर्विनयेन याचे नित्यं भव स्नेहवती सुतेषु । प्रेमैकबिन्दुं चिरदग्धचित्ते विषिञ्च चित्तं कुरु नः सुशान्तम् ॥१०॥
जननीं सारदां देवीं रामकृष्णं जगद्गुरुम् । पादपद्मे तयोः श्रित्वा प्रणमामि मुहुर्मुहुः ॥११॥

Explore More