Lord Shiva

श्रीशिवनीराजनस्तोत्रम्

(Shiva Nirajana Stotram)

Also known as shiva neerajana stotram · sanskrit shiva aarti · tvam mam palaya shambho

A nirajana — the hymn sung while the lamp is waved — in Sanskrit rather than a spoken language, with the refrain set at the head where the singers will return to it: protect me, Shambhu, of your kindness, lord of the world. What follows the refrain is a garden rather than a doctrine, which is what makes this one memorable: with the parijata and the harichandana and the thickets of wishing trees, with canopies of flowering creepers full of humming bees. The verses build the setting first and only then bring the god into it, so that the lamp is being circled in a place the singer has been made to see. Twenty-six verses, and the refrain returns often enough that a room can hold it after one hearing.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

जय गङ्गाधर हर शिव जय गिरिजाधीश, शिव जय गौरीनाथ त्वं मां पालय नित्यं।
त्वं मां पालय शम्भो कृपया जगदीश॥
पारिजातहरिचन्दनकल्पद्रुमनिचयैः, कुसुमितलतावितानैर्गुञ्जद्भमरमयैः।
उन्मदकोकिलकूजितशिखिकेकारुचिरैः, सहकारैश्च कदम्बे भृङ्गवधूमुखरैः॥१॥
मुदितहंसयुगखेलत्सारसपरिवारैः, भ्रमरयुवतिमुखराम्बुज सुभगैः कासारैः।
हारिणि कलधौताद्रेर्देशे मणिरचिते, भवने सुखमासीनं चिन्तामणिनिचिते॥२॥
पीठे गिरिजासहितं चन्द्रकलाधवलं, विशरणशरणं देवं विपत्क्षयप्रबलम्।
सम्पद्विधानरसिकं जगदङ्कुरकन्दं, प्रणमामो वयमीशं चित्परमानन्दम्॥३॥
यस्याग्रेस्मरवध्वो विबुधाधिपसहिताः, मुदितमनोहरवेषा लास्यकलामहिताः।
ताथै ताथै तथेति विविधं नृत्यन्ति, किङ्किणिनूपुरशिञ्जित रुचिरं वल्गन्ति॥४॥
तान्धिक धिनकित्थथेति विविधं वादयते, मृदङ्गममरी काचित् रुचिरं नादयते।
वीणां काचिद्रमणी गानविदाभरणा, गायति कलमपराचित् चिन्तितहरचरणा॥५॥
रमया सहितो विष्णुर्ब्रह्मा सावित्र्या, जिष्णुर्नृत्यति भक्त्या मुदितमनाः शच्या।
तुम्बुरुरुचितं मुरजं विविधं वादयते, नारदमुनिरपि वीणां महतीं नादयते॥६॥
तं प्रसन्नवदनं प्रभुमिन्दुकलाभरणं, प्रणमामः करुणाब्धिं तापत्रयहरणम्।
देवासुरमणिमुकुटैर्नीराजितचरणं, भक्ताभीष्टदकल्पं कातरजनशरणम्॥७॥
जटाकिरीटे गङ्गां चन्द्रकलां भाले, नेत्रेष्विन्दुशिखीना नधरे स्मितममले।
कण्ठे गरलं पाणौ वरमभयं शूलं, पीयूषं कटिदेशे कृत्तिं च दुकूलम्॥८॥
श्रीगिरिराजकिशोरीमङ्के निदधानं, निखिलसुरासुरमौलीन् चरणेऽमितदानम्।
शम्भु तडिदभिगौरं कृतनागाभरणं, भजति स गच्छति मुक्तिं तिमिरापाकरणम्॥९॥
निरुपधिकरुणासिन्धुर्भीतत्राणपरः, दुःखक्षतये भूयात् कातरबन्धुवरः।
यः श्वेतं यमभीतं स्मृतमात्रोऽरक्षत्, मा भैषीरिति वादी कालं समतक्षत्॥१०॥
आनन्दाय महेशो युष्माकं भवतात्, जन्मजरामृतिशोकात् करुणानिधिरवतात्।
येन सुरासुरनिवहस्त्रातो विषभीतो, नीलकण्ठ इति भूयो निगमगणैर्गीतः॥११॥
यः सृष्ट्यादिविधानं ब्रह्माच्युतरुद्रैः, निजरूपैस्तनुते यो दुज्ञेयः क्षुद्रैः।
तं प्रकाशसुखमच्छं बाधावधिमीशं, तनुभेदैरिव भिन्नं श्रयत धियामीशम्॥१२॥
॥ इति शिवनीराजनस्तोत्रं सम्पूर्णम् ॥

Explore More