निधिसेवितपादसरोजयुगं युगधर्मनिवर्त्तककालफलम्॥१॥
हृदयस्थितगोकुलवासिजनं जनसञ्चितपुण्यचयैकफलम्॥२॥
मणिशोभितहस्तधृताद्रिवरं वरगोपवधूचयसंवलितम्॥३॥
वरभक्तिशिरःस्थितपद्मकरं करमर्दितयादवयूथरिपुम्॥४॥
पदपद्मयुगार्चनदत्तपदं पदपद्मनखस्थितभक्तिरसम्॥५॥
भयदाधशिरोहरखङ्गधरं धरणीकृतपुण्यचयैकफलम्॥६॥
वरबर्हिशिखण्डिकयुक्तकचं कचपाशिनिवेशितपुष्पचयम्॥७॥
