Lord Krishna

श्री कृष्ण स्तोत्रम् (दानव कृतम्)

(Sri Krishna Stotram (Danava Krutam))

Also known as shri krishna stotram (danava krutam) · shree krishna stotram (danava krutam) · krishna stotram (danava krutam)

A hymn spoken by a demon in the body of an ass — Brahmavaivarta Purana, Krishna-janma-khanda, chapter twenty-two — and it never lets you forget the speaker. He names himself a son of the Bali at whose sacrifice Vamana came begging, says a curse of Durvasas gave him this contemptible birth and that the same sage foretold his death would come from Krishna, then asks for it outright: slay me with the sixteen-spoked discus. Between those lies a full Dashavatara litany, closing on Krishna as the seed-form of them all. The nineteenth verse gives the piece its edge — the Vedas and Brahma cannot praise him, so what can I, a daitya once and an ass now? The twenty-first turns that into an argument: Brahma is a praiser and an ass is a praiser, do not laugh at me; for one who is lord and knows, grace falls the same on the fit and the unfit.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री कृष्ण स्तोत्रम् (दानव कृतम्) ॥
वामनोऽसि त्वमंशेन मत्पितुर्यज्ञभिक्षुकः ।
राज्यहर्ता च श्रीहर्ता सुतलस्थलदायकः ॥ १ ॥
बलिभक्तिवशो वीरः सर्वेशो भक्तवत्सलः ।
शीघ्रं त्वं हिन्धि मां पापं शापाद्गर्दभरूपिणम् ॥ २ ॥
मुनेर्दुर्वाससः शापादीदृशं जन्म कुत्सितम् ।
मृत्युरुक्तश्च मुनिना त्वत्तो मम जगत्पते ॥ ३ ॥
षोडशारेण चक्रेण सुतीक्ष्णेनातितेजसा ।
जहि मां जगतां नाथ सद्भक्तिं कुरु मोक्षद ॥ ४ ॥
त्वमंशेन वराहश्च समुद्धर्तुं वसुन्धराम् ।
वेदानां रक्षिता नाथ हिरण्याक्षनिषूदनः ॥ ५ ॥
त्वं नृसिंहः स्वयं पूर्णो हिरण्यकशिपोर्वधे ।
प्रह्लादानुग्रहार्थाय देवानां रक्षणाय च ॥ ६ ॥
त्वं च वेदोद्धारकर्ता मीनांशेन दयानिधे ।
नृपस्य ज्ञानदानाय रक्षायै सुरविप्रयोः ॥ ७ ॥
शेषाधारश्च कूर्मस्त्वमंशेन सृष्टिहेतवे ।
विश्वाधारश्च विश्वस्त्वमंशेनापि सहस्रधृत् ॥ ८ ॥
रामो दाशरथिस्त्वं च जानक्युद्धारहेतवे ।
दशकन्धरहन्ता च सिन्धौ सेतुविधायकः ॥ ९ ॥
कलया परशुरामश्च जमदग्निसुतो महान् ।
त्रिःसप्तकृत्वो भूपानां निहन्ता जगतीपते ॥ १० ॥
अंशेन कपिलस्त्वं च सिद्धानां च गुरोर्गुरुः ।
मातृज्ञानप्रदाता च योगशास्त्रविधायकः ॥ ११ ॥
अंशेन ज्ञानिनां श्रेष्ठौ नरनारायणावृषी ।
त्वं च धर्मसुतो भूत्वा लोकविस्तारकारकः ॥ १२ ॥
अधुना कृष्णरूपस्त्वं परिपूर्णतमः स्वयम् ।
सर्वेषामवताराणां बीजरूपः सनातनः ॥ १३ ॥
यशोदाजीवनो नित्यो नन्दैकानन्दवर्धनः ।
प्राणाधिदेवो गोपीनां राधाप्राणाधिकप्रियः ॥ १४ ॥
वसुदेवसुतः शान्तो देवकीदुःखभञ्जनः ।
अयोनिसम्भवः श्रीमान् पृथिवीभारहारकः ॥ १५ ॥
पूतनायै मातृगतिं प्रदाता च कृपानिधिः ।
बककेशिप्रलम्बानां ममापि मोक्षकारकः ॥ १६ ॥
स्वेच्छामय गुणातीत भक्तानां भयभञजन ।
प्रसीद राधिकानाथ प्रसीद कुरु मोक्षणम् ॥ १७ ॥
हे नाथ गार्दभीयोनेः समुद्धर भवार्णवात् ।
मूर्खस्त्वद्भक्तपुत्रोऽहं मामुद्धर्तुं त्वमर्हसि ॥ १८ ॥
वेदा ब्रह्मादयो यं च मुनीन्द्राः स्तोतुमक्षमाः ।
किं स्तौमि तं गुणातीतं पुरा दैत्योऽधुना खरः ॥ १९ ॥
एवं कुरु कृपासिन्धो येन मे न भवेज्जनुः ।
दृष्ट्वा पादारविन्दं ते कः पुनर्भवनं व्रजेत् ॥ २० ॥
ब्रह्मा स्तोता खरः स्तोता नोपहासितुमर्हसि ।
सदीश्वरस्य विज्ञस्य योग्यायोग्ये समा कृपा ॥ २१ ॥
इत्येवमुक्त्वा दैत्येन्द्रस्तस्थौ च पुरतो हरेः ।
प्रसन्नवदनः श्रीमानतितुष्टो बभूव ह ॥ २२ ॥
॥ फलश्रुति ॥
इदं दैत्यकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ।
सालोक्यसार्ष्टिसामीप्यं लीलया लभते हरेः ॥ २३ ॥
इह लोके हरेर्भक्तिमन्ते दास्यं सुदुर्लभम् ।
विद्यां श्रियं सुकवितां पुत्रपौत्रान् यशो लभेत् ॥ २४ ॥
॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे द्वाविंशोऽध्याये दानवकृत श्री कृष्ण स्तोत्रम् ॥

Explore More