Lord Kartikeya

श्री सुब्रह्मण्य त्रिशति स्तोत्रम्

(Shri Subramanya Trishati Stotram)

Traditional

Shri Subramanya Trishati Stotram is a profound devotional composition dedicated to Lord Kartikeya, also known as Subramanya or Murugan. This sacred text consists of three hundred divine names that describe the brilliance, valor, and compassionate nature of the deity, who is the son of Lord Shiva and Goddess Parvati. By chanting this stotra with devotion, seekers aim to gain wisdom, courage, and spiritual clarity. It is believed that regular recitation removes obstacles, dispels negative influences, and grants the grace of the commander of the divine army, ultimately leading to inner peace and prosperity.

श्रीं सौं शरवणभवः शरच्चन्द्रायुतप्रभः ।
शशाङ्कशेखरसुतः शचीमाङ्गल्यरक्षकः ॥ 1 ॥
शतायुष्यप्रदाता च शतकोटिरविप्रभः ।
शचीवल्लभसुप्रीतः शचीनायकपूजितः ॥ 2 ॥
शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दितः ।
शचीशार्तिहरश्चैव शम्भुः शम्भूपदेशकः ॥ 3 ॥
शङ्करः शङ्करप्रीतः शम्याककुसुमप्रियः ।
शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दितः ॥ 4 ॥
शचीनाथसुताप्राणनायकः शक्तिपाणिमान् ।
शङ्खपाणिप्रियः शङ्खोपमषड्गलसुप्रभः ॥ 5 ॥
शङ्खघोषप्रियः शङ्खचक्रशूलादिकायुधः ।
शङ्खधाराभिषेकादिप्रियः शङ्करवल्लभः ॥ 6 ॥
शब्दब्रह्ममयश्चैव शब्दमूलान्तरात्मकः ।
शब्दप्रियः शब्दरूपः शब्दानन्दः शचीस्तुतः ॥ 7 ॥
शतकोटिप्रविस्तारयोजनायतमन्दिरः ।
शतकोटिरविप्रख्यरत्नसिंहासनान्वितः ॥ 8 ॥
शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभूः ।
शतकोटिसुरस्त्रीणां नृत्तसङ्गीतकौतुकः ॥ 9 ॥
शतकोटीन्द्रदिक्पालहस्तचामरसेवितः ।
शतकोट्यखिलाण्डादिमहाब्रह्माण्डनायकः ॥ 10 ॥
शङ्खपाणिविधिभ्यां च पार्श्वयोरुपसेवितः ।
शङ्खपद्मनिधीनां च कोटिभिः परिसेवितः ॥ 11 ॥
शशाङ्कादित्यकोटीभिः सव्यदक्षिणसेवितः ।
शङ्खपालाद्यष्टनागकोटीभिः परिसेवितः ॥ 12 ॥
शशाङ्कारपतङ्गादिग्रहनक्षत्रसेवितः ।
शशिभास्करभौमादिग्रहदोषार्तिभञ्जनः ॥ 13 ॥
शतपत्रद्वयकरः शतपत्रार्चनप्रियः ।
शतपत्रसमासीनः शतपत्रासनस्तुतः ॥ 14 ॥
शारीरब्रह्ममूलादिषडाधारनिवासकः ।
शतपत्रसमुत्पन्नब्रह्मगर्वविभेदनः ॥ 15 ॥
शशाङ्कार्धजटाजूटः शरणागतवत्सलः ।
रकाररूपो रमणो राजीवाक्षो रहोगतः ॥ 16 ॥
रतीशकोटिसौन्दर्यो रविकोट्युदयप्रभः ।
रागस्वरूपो रागघ्नो रक्ताब्जप्रिय एव च ॥ 17 ॥
राजराजेश्वरीपुत्रो राजेन्द्रविभवप्रदः ।
रत्नप्रभाकिरीटाग्रो रविचन्द्राग्निलोचनः ॥ 18 ॥
रत्नाङ्गदमहाबाहू रत्नताटङ्कभूषणः ।
रत्नकेयूरभूषाढ्यो रत्नहारविराजितः ॥ 19 ॥
रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभितः ।
रवसंयुक्तरत्नाभनूपुराङ्घ्रिसरोरुहः ॥ 20 ॥
रत्नकङ्कणचूल्यादिसर्वाभरणभूषितः ।
रत्नसिंहासनासीनो रत्नशोभितमन्दिरः ॥ 21 ॥
राकेन्दुमुखषट्कश्च रमावाण्यादिपूजितः ।
राक्षसामरगन्धर्वकोटिकोट्यभिवन्दितः ॥ 22 ॥
रणरङ्गे महादैत्यसङ्ग्रामजयकौतुकः ।
राक्षसानीकसंहारकोपाविष्टायुधान्वितः ॥ 23 ॥
राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधः ।
रवयुक्तधनुर्हस्तो रत्नकुक्कुटधारणः ॥ 24 ॥
रणरङ्गजयो रामास्तोत्रश्रवणकौतुकः ।
रम्भाघृताचीविश्वाचीमेनकाद्यभिवन्दितः ॥ 25 ॥
रक्तपीताम्बरधरो रक्तगन्धानुलेपनः ।
रक्तद्वादशपद्माक्षो रक्तमाल्यविभूषितः ॥ 26 ॥
रविप्रियो रावणेशस्तोत्रसाममनोहरः ।
राज्यप्रदो रन्ध्रगुह्यो रतिवल्लभसुप्रियः ॥ 27 ॥
रणानुबन्धनिर्मुक्तो राक्षसानीकनाशकः ।
राजीवसम्भवद्वेषी राजीवासनपूजितः ॥ 28 ॥
रमणीयमहाचित्रमयूरारूढसुन्दरः ।
रमानाथस्तुतो रामो रकाराकर्षणक्रियः ॥ 29 ॥
वकाररूपो वरदो वज्रशक्त्यभयान्वितः ।
वामदेवादिसम्पूज्यो वज्रपाणिमनोहरः ॥ 30 ॥
वाणीस्तुतो वासवेशो वल्लीकल्याणसुन्दरः ।
वल्लीवदनपद्मार्को वल्लीनेत्रोत्पलोडुपः ॥ 31 ॥
वल्लीद्विनयनानन्दो वल्लीचित्ततटामृतम् ।
वल्लीकल्पलतावृक्षो वल्लीप्रियमनोहरः ॥ 32 ॥
वल्लीकुमुदहास्येन्दुः वल्लीभाषितसुप्रियः ।
वल्लीमनोहृत्सौन्दर्यो वल्लीविद्युल्लताघनः ॥ 33 ॥
वल्लीमङ्गलवेषाढ्यो वल्लीमुखवशङ्करः ।
वल्लीकुचगिरिद्वन्द्वकुङ्कुमाङ्कितवक्षकः ॥ 34 ॥
वल्लीशो वल्लभो वायुसारथिर्वरुणस्तुतः ।
वक्रतुण्डानुजो वत्सो वत्सलो वत्सरक्षकः ॥ 35 ॥
वत्सप्रियो वत्सनाथो वत्सवीरगणावृतः ।
वारणाननदैत्यघ्नो वातापिघ्नोपदेशकः ॥ 36 ॥
वर्णगात्रमयूरस्थो वर्णरूपो वरप्रभुः ।
वर्णस्थो वारणारूढो वज्रशक्त्यायुधप्रियः ॥ 37 ॥
वामाङ्गो वामनयनो वचद्भूर्वामनप्रियः ।
वरवेषधरो वामो वाचस्पतिसमर्चितः ॥ 38 ॥
वसिष्ठादिमुनिश्रेष्ठवन्दितो वन्दनप्रियः ।
वकारनृपदेवस्त्रीचोरभूतारिमोहनः ॥ 39 ॥
णकाररूपो नादान्तो नारदादिमुनिस्तुतः ।
णकारपीठमध्यस्थो नगभेदी नगेश्वरः ॥ 40 ॥
णकारनादसन्तुष्टो नागाशनरथस्थितः ।
णकारजपसुप्रीतो नानावेषो नगप्रियः ॥ 41 ॥
णकारबिन्दुनिलयो नवग्रहसुरूपकः ।
णकारपठनानन्दो नन्दिकेश्वरवन्दितः ॥ 42 ॥
णकारघण्टानिनदो नारायणमनोहरः ।
णकारनादश्रवणो नलिनोद्भवशिक्षकः ॥ 43 ॥
णकारपङ्कजादित्यो नववीराधिनायकः ।
णकारपुष्पभ्रमरो नवरत्नविभूषणः ॥ 44 ॥
णकारानर्घशयनो नवशक्तिसमावृतः ।
णकारवृक्षकुसुमो नाट्यसङ्गीतसुप्रियः ॥ 45 ॥
णकारबिन्दुनादज्ञो नयज्ञो नयनोद्भवः ।
णकारपर्वतेन्द्राग्रसमुत्पन्नसुधारणिः ॥ 46 ॥
णकारपेटकमणिर्नागपर्वतमन्दिरः ।
णकारकरुणानन्दो नादात्मा नागभूषणः ॥ 47 ॥
णकारकिङ्किणीभूषो नयनादृश्यदर्शनः ।
णकारवृषभावासो नामपारायणप्रियः ॥ 48 ॥
णकारकमलारूढो नामानन्तसमन्वितः ।
णकारतुरगारूढो नवरत्नादिदायकः ॥ 49 ॥
णकारमकुटज्वालामणिर्नवनिधिप्रदः ।
णकारमूलमन्त्रार्थो नवसिद्धादिपूजितः ॥ 50 ॥
णकारमूलनादान्तो णकारस्तम्भनक्रियः ।
भकाररूपो भक्तार्थो भवो भर्गो भयापहः ॥ 51 ॥
भक्तप्रियो भक्तवन्द्यो भगवान्भक्तवत्सलः ।
भक्तार्तिभञ्जनो भद्रो भक्तसौभाग्यदायकः ॥ 52 ॥
भक्तमङ्गलदाता च भक्तकल्याणदर्शनः ।
भक्तदर्शनसन्तुष्टो भक्तसङ्घसुपूजितः ॥ 53 ॥
भक्तस्तोत्रप्रियानन्दो भक्ताभीष्टप्रदायकः ।
भक्तसम्पूर्णफलदो भक्तसाम्राज्यभोगदः ॥ 54 ॥
भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदः ।
भवौषधिर्भवघ्नश्च भवारण्यदवानलः ॥ 55 ॥
भवान्धकारमार्ताण्डो भववैद्यो भवायुधम् ।
भवशैलमहावज्रो भवसागरनाविकः ॥ 56 ॥
भवमृत्युभयध्वंसी भावनातीतविग्रहः ।
भवभूतपिशाचघ्नो भास्वरो भारतीप्रियः ॥ 57 ॥
[भय]
भाषितध्वनिमूलान्तो भावाभावविवर्जितः ।
भानुकोपपितृध्वंसी भारतीशोपदेशकः ॥ 58 ॥
भार्गवीनायकश्रीमद्भागिनेयो भवोद्भवः ।
भारक्रौञ्चासुरद्वेषो भार्गवीनाथवल्लभः ॥ 59 ॥
भटवीरनमस्कृत्यो भटवीरसमावृतः ।
भटतारागणोड्वीशो भटवीरगणस्तुतः ॥ 60 ॥
भागीरथेयो भाषार्थो भावनाशबरीप्रियः ।
भकारे कलिचोरारिभूताद्युच्चाटनोद्यतः ॥ 61 ॥
वकारसुकलासंस्थो वरिष्ठो वसुदायकः ।
वकारकुमुदेन्दुश्च वकाराब्धिसुधामयः ॥ 62 ॥
वकारामृतमाधुर्यो वकारामृतदायकः ।
दक्षे वज्राभीतियुतो वामे शक्तिवरान्वितः ॥ 63 ॥
वकारोदधिपूर्णेन्दुः वकारोदधिमौक्तिकम् ।
वकारमेघसलिलो वासवात्मजरक्षकः ॥ 64 ॥
वकारफलसारज्ञो वकारकलशामृतम् ।
वकारपङ्कजरसो वसुर्वंशविवर्धनः ॥ 65 ॥
वकारदिव्यकमलभ्रमरो वायुवन्दितः ।
वकारशशिसङ्काशो वज्रपाणिसुताप्रियः ॥ 66 ॥
वकारपुष्पसद्गन्धो वकारतटपङ्कजम् ।
वकारभ्रमरध्वानो वयस्तेजोबलप्रदः ॥ 67 ॥
वकारवनितानाथो वश्याद्यष्टप्रियाप्रदः ।
वकारफलसत्कारो वकाराज्यहुताशनः ॥ 68 ॥
वर्चस्वी वाङ्मनोऽतीतो वाताप्यरिकृतप्रियः ।
वकारवटमूलस्थो वकारजलधेस्तटः ॥ 69 ॥
वकारगङ्गावेगाब्धिः वज्रमाणिक्यभूषणः ।
वातरोगहरो वाणीगीतश्रवणकौतुकः ॥ 70 ॥
वकारमकरारूढो वकारजलधेः पतिः ।
वकारामलमन्त्रार्थो वकारगृहमङ्गलम् ॥ 71 ॥
वकारस्वर्गमाहेन्द्रो वकारारण्यवारणः ।
वकारपञ्जरशुको वलारितनयास्तुतः ॥ 72 ॥
वकारमन्त्रमलयसानुमन्मन्दमारुतः ।
वाद्यन्तभान्त षट्क्रम्य जपान्ते शत्रुभञ्जनः ॥ 73 ॥
वज्रहस्तसुतावल्लीवामदक्षिणसेवितः ।
वकुलोत्पलकादम्बपुष्पदामस्वलङ्कृतः ॥ 74 ॥
वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहः ।
वासनागन्धलिप्ताङ्गो वषट्कारो वशीकरः ॥ 75 ॥
वासनायुक्तताम्बूलपूरिताननसुन्दरः ।
वल्लभानाथसुप्रीतो वरपूर्णामृतोदधिः ॥ 76 ॥
इति श्री सुब्रह्मण्य त्रिशती स्तोत्रम् ।

Explore More