Lord Mangala (Planet Mars)

अङ्गारक अष्टोत्तर शत नाम स्तोत्रम्

(Angaraka Ashtottara Sata Nama Stotram)

From Skanda Purana

This sacred hymn invokes the one hundred and eight names of Angaraka, or the planet Mars, as described in the Skanda Purana. As a prominent Navagraha, Lord Mangala represents courage, energy, and physical strength. Chanting this stotram is believed to appease the deity, reduce the malefic influences of Mars in one's horoscope, and bestow the devotee with victory, vitality, and protection from accidents or debt. It is a powerful practice for those seeking to overcome obstacles, enhance their discipline, and invoke the warrior-like divine qualities of Mangala in their daily lives.

महीसुतो महाभागो मङ्गलो मङ्गलप्रदः ।
महावीरो महाशूरो महाबलपराक्रमः ॥ 1 ॥
महारौद्रो महाभद्रो माननीयो दयाकरः ।
मानदोऽमर्षणः क्रूरस्तापपापविवर्जितः ॥ 2 ॥
सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः ।
वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी ॥ 3 ॥
वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः ।
नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः ॥ 4 ॥
क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः ।
अक्षीणफलदः चक्षुर्गोचरः शुभलक्षणः ॥ 5 ॥
वीतरागो वीतभयो विज्वरो विश्वकारणः ।
नक्षत्रराशिसञ्चारो नानाभयनिकृन्तनः ॥ 6 ॥
कमनीयो दयासारः कनत्कनकभूषणः ।
भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥ 7 ॥
शत्रुहन्ता शमोपेतः शरणागतपोषकः ।
साहसः सद्गुणाऽध्यक्षः साधुः समरदुर्जयः ॥ 8 ॥
दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः ।
दुश्चेष्टवारको दुःखभञ्जनो दुर्धरो हरिः ॥ 9 ॥
दुःस्वप्नहन्ता दुर्धर्षो दुष्टगर्वविमोचकः ।
भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥ 10 ॥
रक्ताम्बरो रक्तवपुर्भक्तपालनतत्परः ।
चतुर्भुजो गदाधारी मेषवाहोऽमिताशनः ॥ 11 ॥
शक्तिशूलधरः शक्तः शस्त्रविद्याविशारदः ।
तार्किकस्तामसाधारस्तपस्वी ताम्रलोचनः ॥ 12 ॥
तप्तकाञ्चनसङ्काशो रक्तकिञ्जल्कसन्निभः ।
गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥ 13 ॥
असृगङ्गारकोऽवन्तीदेशाधीशो जनार्दनः ।
सूर्ययाम्यप्रदेशस्थो यौवनो याम्यदिङ्मुखः ॥ 14 ॥
त्रिकोणमण्डलगतस्त्रिदशाधिपसन्नुतः ।
शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥ 15 ॥
मेषवृश्चिकराशीशो मेधावी मितभाषणः ।
सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥ 16 ॥
इति श्री अङ्गारकाष्टोत्तरशतनाम स्तोत्रम् ।

Explore More