ह॒रिः॒ ओम् ॥
भा॒स्क॒राय॑ वि॒द्महे॑ महद्द्युतिक॒राय॑ धीमहि ।
तन्नो॑ आदित्यः प्रचो॒दया᳚त् ॥
ओ-म्भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः । भ॒द्र-म्प॑श्येमा॒क्षभि॒-र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः । भ॒द्र-म्प॑श्येमा॒क्षभि॒-र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु । आप॑मापाम॒प-स्सर्वाः᳚ । अ॒स्मा-द॒स्मा-दि॒तो-ऽमुतः॑ ॥ 1 ॥
अनुवाकः 2
स्मृतिः॑ प्र॒त्यक्ष॑-मैति॒ह्य᳚म् । अनु॑मान-श्चतुष्ट॒यम् । ए॒तैरादि॑त्य मण्डलम् । सर्वै॑रेव॒ विधा᳚स्यते । सूर्यो॒ मरी॑चि॒माद॑त्ते । सर्वस्मा᳚-द्भुव॑नाद॒धि । तस्याः पाक वि॑शेषे॒ण । स्मृ॒त-ङ्का॑ल वि॒शेष॑णम् ॥ न॒दीव॒ प्रभ॑वा-त्का॒चित् । अ॒क्षय्या᳚-थ्स्यन्द॒ते य॑था ॥ 4 ॥
अनुवाकः 3
सा॒क॒ञ्जानाग्ं॑ स॒प्तथ॑माहु-रेक॒जम् । षडु॑द्य॒मा ऋष॑यो देव॒जा इति॑ । तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः । स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः । कोनु॑ मर्या॒ अमि॑थितः । सखा॒ सखा॑यमब्रवीत् । जहा॑को अ॒स्मदी॑षते । यस्ति॒त्याज॑ सखि॒विद॒ग्ं॒ सखा॑यम् । न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीग्ं॑ शृ॒णोत्य॒लकग्ं॑ शृणोति ॥ 8 ॥
अनुवाकः 4
अक्षि॑दुः॒खोत्थि॑तस्यै॒व । वि॒प्रस॑न्ने क॒नीनि॑के । आङ्क्ते चाद्ग॑ण-न्ना॒स्ति । ऋ॒भूणा᳚-न्तन्नि॒बोध॑त । क॒न॒का॒भानि॑ वासा॒ग्ं॒सि । अ॒हता॑नि नि॒बोध॑त । अन्नमश्र्नीत॑ मृज्मी॒त । अ॒हं-वोँ॑ जीव॒नप्र॑दः । ए॒ता वा॒चः प्र॑युज्य॒न्ते । श॒रद्य॑त्रोप॒ दृश्य॑ते ॥ 12 ॥
अनुवाकम्ज् 5
अति॑ ता॒म्राणि॑ वासा॒ग्ं॒सि । अ॒ष्टिव॑ज्रि श॒तघ्नि॑ च । विश्वे देवा विप्र॑हर॒न्ति । अ॒ग्निजि॑ह्व अ॒सश्च॑त । नैव देवो॑ न म॒र्त्यः । न राजा व॑रुणो॒ विभुः । नाग्नि-र्नेन्द्रो न प॑वमा॒नः । मा॒तृक्क॑च्च न॒ विद्य॑ते । दि॒व्यस्यैका॒ धनु॑रार्त्निः । पृ॒थि॒व्यामप॑रा श्रि॒ता ॥ 15 ॥
अनुवाकः 6
अ॒त्यू॒र्ध्वा॒क्षो-ऽति॑रश्चात् । शिशि॑रः प्र॒दृश्य॑ते । नैव रूप-न्न॑ वासा॒ग्ं॒सि । न चक्षुः॑ प्रति॒दृश्य॑ते । अ॒न्योन्य॒-न्तु न॑ हिग्ग्स्रा॒तः । स॒त स्त॑-द्देव॒लक्ष॑णम् । लोहितो-ऽक्ष्णि शा॑रशी॒र्ष्णिः । सू॒र्यस्यो॑दय॒न-म्प्र॑ति । त्व-ङ्करोषि॑ न्यञ्ज॒लिकाम् । त्व॒-ङ्करो॑षि नि॒जानु॑काम् ॥ 17 ॥
अनुवाकः 7
आरोगो भ्राजः पटरः॑ पत॒ङ्गः । स्वर्णरो ज्योतिषीमान्॑. विभा॒सः । ते अस्मै सर्वे दिवमा॑तप॒न्ति । ऊर्ज-न्दुहाना अनपस्फुर॑न्त इ॒ति । कश्य॑पो-ऽष्ट॒मः । स महामेरु-न्न॑ जहा॒ति । तस्यै॒षा भव॑ति । यत्ते॒ शिल्प॑-ङ्कश्यप रोच॒नाव॑त् । इ॒न्द्रि॒याव॑-त्पुष्क॒ल-ञ्चि॒त्रभा॑नु । यस्मि॒-न्थ्सूर्या॒ अर्पि॑ता-स्स॒प्त सा॒कम् ॥ 20 ॥
अनु न जातमष्ट रोद॑सी इ॒ति । नाना लिङ्गत्वा-दृतूना-न्नाना॑ सूर्य॒त्वम् ॥ अष्टौ तु व्यवसि॑ता इ॒ति । सूर्यमण्डला-न्यष्टा॑त ऊ॒र्ध्वम् । तेषा॑मेषा॒ भव॑ति ॥ चि॒त्र-न्दे॒वाना॒-मुद॑गा॒दनी॑कम् । चक्षु॑-र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आ-ऽप्रा॒ द्यावा॑ पृथि॒वी अ॒न्तरि॑क्षम् । सूर्य आत्मा जगतस्तस्थु॑षश्चे॒ति ॥ 25 ॥
(सा॒कं - प्ला॒क्षि - स्तप्त्रि॑तपा॒ - नाना॑सूर्याः॒ - सूर्या॒ - +नव॑ च)
क्वेदमभ्र॑-न्निवि॒शते । क्वायग्ं॑ संवँथ्स॒रो मि॑थः । क्वाहः क्वेय-न्दे॑व रा॒त्री । क्व मासा ऋ॑तव॒-श्श्रिताः ॥ अर्धमासा॑ मुहू॒र्ताः । निमेषास्तु॑टिभिः॒ (निमेषास्त्र॑टिभिः॒) सह । क्वेमा आपो नि॑विश॒न्ते । य॒दीतो॑ यान्ति॒ सम्प्र॑ति ॥ काला अफ्सु नि॑विश॒न्ते । आ॒प-स्सूर्ये॑ स॒माहि॑ताः । 26 ।
अभ्रा᳚ण्य॒पः प्र॑पद्य॒न्ते । वि॒द्युथ्सूर्ये॑ स॒माहि॑ता । अनवर्णे इ॑मे भू॒मी । इ॒यञ्चा॑सौ च॒ रोद॑सी । किग्ग् स्विदत्रान्त॑रा भू॒तम् । ये॒नेमे वि॑धृते॒ उभे । वि॒ष्णुना॑ विधृ॑ते भू॒मी । इ॒ति व॑थ्सस्य॒ वेद॑ना । इरा॑वती धेनु॒मती॒ हि भू॒तम् । सू॒य॒व॒सिनी॒ मनु॑षे दश॒स्ये᳚ । 27 ।
व्य॑ष्टभ्ना॒-द्रोद॑सी॒ विष्ण॑वे॒ते । दा॒धर्थ॑ पृथि॒वी-म॒भितो॑ म॒यूखैः᳚ । किन्त-द्विष्णो र्बल॑मा॒हुः । का॒ दीप्तिः॑ कि-म्प॒राय॑णम् । एको॑ य॒द्धा-र॑य द्दे॒वः । रे॒जती॑ रोद॒सी उ॑भे । वाताद्विष्णो-र्ब॑ल मा॒हुः । अ॒क्षरा᳚-द्दीप्ति॒ रुच्य॑ते । त्रि॒पदा॒द्धार॑य-द्दे॒वः । यद्विष्णो॑रेक॒-मुत्त॑मम् ॥ 28 ॥
आशातिकाः क्रिम॑य इ॒व । ततः पूयन्ते॑ वास॒वैः । अपै॑त-म्मृ॒त्यु-ञ्ज॑यति । य ए॒वं-वेँद॑ । स खल्वैवं॑-विँद्ब्रा॒ह्मणः । दी॒र्घश्रु॑त्तमो॒ भव॑ति । कश्य॑प॒स्याति॑थि॒-स्सिद्धग॑मन॒-स्सिद्धाग॑मनः । तस्यै॒षा भव॑ति ॥ आयस्मिन्᳚-थ्स॒प्त वा॑स॒वाः । रोह॑न्ति पू॒र्व्या॑ रुहः॑ । 32 ।
ऋषि॑र्ह दीर्घ॒श्रुत्त॑मः । इन्द्रस्य घर्मो अति॑थिरि॒ति । कश्यपः पश्य॑को भ॒वति । यथ्सर्व-म्परिपश्यती॑ति सौ॒क्ष्म्यात् । अथाग्ने॑रष्टपु॑रुष॒स्य । तस्यै॒षा भव॑ति । अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् । विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒द्ध्य॑स्म-ज्जु॑हुरा॒णमेनः॑ । भूयिष्ठान्ते नम उक्तिं-विँ॑धेमे॒ति ॥ 33 ॥
अनुवाकः 9
अग्निश्च जात॑वेदा॒श्च । सहोजा अ॑जिरा॒प्रभुः । वैश्वानरो न॑र्यापा॒श्च । प॒ङ्क्तिरा॑धाश्च॒ सप्त॑मः । विसर्पेवा-ऽष्ट॑मो-ऽग्नी॒नाम् । एते-ऽष्टौ वसवः, क्षि॑ता इ॒ति । यथर्त्वे-वाग्ने-रर्चिर्वर्ण॑ विशे॒षाः । नीलार्चिश्च पीतका᳚र्चिश्चे॒ति । अथ वायो-रेकादश-पुरुषस्यैकादश॑स्त्रीक॒स्य । प्रभ्राजमाना व्य॑वदा॒ताः ॥ 34 ॥
अनुवाकः 10
स॒ह॒स्र॒वृदि॑य-म्भू॒मिः । प॒रं-व्योँ॑म स॒हस्र॑वृत् । अ॒श्विना॑ भुज्यू॑ नास॒त्या । वि॒श्वस्य॑ जग॒तस्प॑ती ॥ जाया भूमिः प॑तिर्व्यो॒म । मि॒थुन॑न्ता अ॒तुर्य॑थुः । पुत्रो बृहस्प॑ती रु॒द्रः । स॒रमा॑ इति॑ स्त्रीपु॒मम् ॥ शु॒क्रं-वाँ॑म॒न्यद्य॑ज॒तं-वाँ॑म॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑व स्थः ॥ 41 ॥
अनुवाकः 11
प॒वित्र॑वन्तः॒ परि॒वाज॒मास॑ते । पि॒तैषा᳚-म्प्र॒त्नो अ॒भिर॑क्षति व्र॒तम् । म॒हस्स॑मु॒द्रं-वँरु॑ण स्ति॒रोद॑धे । धीरा॑ इच्छेकु॒र्द्धरु॑णेष्वा॒रभ᳚म् । प॒वित्र॑-न्ते॒ वित॑त॒-म्ब्रह्म॑ण॒स्पते᳚ । प्रभु॒र्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ । अत॑प्ततनू॒-र्न तदा॒मो अ॑श्नुते । शृ॒तास॒ इद्वह॑न्-त॒स्त-थ्समा॑शत । ब्र॒ह्मा दे॒वाना᳚म् । अस॑त-स्स॒द्ये तत॑क्षुः ॥ 48 ॥
अनुवाकः 12
आत॑नुष्व॒ प्रत॑नुष्व । उ॒द्धमाध॑म॒ सन्ध॑म । आदित्ये चन्द्र॑वर्णा॒नाम् । गर्भ॒ मा धे॑हि॒ यः पुमान्॑ । इ॒त-स्सि॒क्तग्ं सूर्य॑गतम् । च॒न्द्रम॑से॒ रस॑ङ्कृधि । वाराद-ञ्जन॑या-ग्रे॒-ऽग्निम् । य एको॑ रुद्र॒ उच्य॑ते । अ॒स॒-ङ्ख्या॒ता-स्स॑हस्रा॒णि । स्म॒र्यते॑ न च॒ दृश्य॑ते ॥ 56 ॥
उक्तग्ग् स्थान-म्प्रमाणञ्च॑ पुर॒ इत । बृह॒स्पति॑श्च सवि॒ता च॑ । वि॒श्वरू॑पै-रि॒हाग॑ताम् । रथे॑नोदक॒वर्त्म॑ना । अ॒फ्सुषा॑ इति॒ तद्द्व॑योः । उक्तो वेषो॑ वासा॒ग्ं॒सि च । कालावयवाना-मितः॑ प्रती॒ज्या । वासात्या॑ इत्य॒श्विनोः । को-ऽन्तरिक्षे शब्दङ्क॑रोती॒ति । वासिष्ठ रौहिणो मीमाग्ं॑सा-ञ्च॒क्रे । तस्यै॒षा भव॑ति ॥ वा॒श्रेव॑ वि॒द्युदिति॑ ॥ ब्रह्म॑ण उ॒दर॑णमसि । ब्रह्म॑ण उदी॒रण॑मसि ।ब्रह्म॑ण आ॒स्तर॑णमसि । ब्रह्म॑ण उप॒स्तर॑णमसि ॥ 60 ॥
अनुवाकः 13 [अप॑क्रामत गर्भि॒ण्यः॑ ]
अ॒ष्टयो॑नी-म॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नी-मि॒मा-म्मही᳚म् । अ॒हं-वेँद॒ न मे॑ मृत्युः । न चामृ॑त्युर॒घाह॑रत् । अ॒ष्टयो᳚न्य॒ष्ट पु॑त्रम् । अ॒ष्टप॑दि॒द-म॒न्तरि॑क्षम् । अ॒हं-वेँद॒ न मे॑ मृत्युः । न चामृ॑त्युर॒घाह॑रत् । अ॒ष्टयो॑नी-म॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नी-म॒मून्दिव᳚म् ॥ 61 ॥
(अ॒मू-न्दिवग्ं॑ - स॒प्तभि॑ - रे॒ते च॒त्वारि॑ च)
अनुवाकः 14
यो-ऽसौ॑ त॒पन्नु॒देति॑ । स सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णाना॒दायो॒देति॑ । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णाना॒दायोद॑गाः । अ॒सौ यो᳚ ऽस्त॒मेति॑ । स सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णाना॒दाया॒स्तमेति॑ । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णाना॒दाया स्त॑ङ्गाः । अ॒सौ य आ॒पूर्य॑ति । स सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णै रा॒पूर्य॑ति । 64 ।
मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णै-रा॒पूरि॑ष्ठाः । अ॒सौ यो॑-ऽप॒क्षीय॑ति । स सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णै-रप॑क्षीयति । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णै-रप॑क्षेष्ठाः । अ॒मूनि॒ नक्ष॑त्राणि । सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णैरप॑ प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑ प्रसृपत॒ मोथ्सृ॑पत ॥ 65 ॥
अनुवाकः 15
अथादित्यस्याष्ट पु॑रुष॒स्य । वसूना मादित्यानाग् स्थाने स्वतेज॑सा भा॒नि । रुद्राणा-मादित्यानाग् स्थाने स्वतेज॑सा भा॒नि । आदित्याना-मादित्यानाग् स्थाने स्वतेज॑सा भा॒नि । सताग्ं॑सत्या॒नाम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि । अभिधून्वता॑-मभि॒घ्नताम् । वातव॑ता-म्म॒रुताम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि । ऋभूणा-मादित्यानाग् स्थाने स्वतेज॑सा भा॒नि । विश्वेषा᳚-न्देवा॒नाम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि । संवँथ्सर॑स्य स॒वितुः । आदित्यस्य स्थाने स्वतेज॑सा भा॒नि । औ-म्भूर्भुव॒स्स्वः॑ । रश्मयो वो मिथुन-म्मा नो मिथु॑नग्ं री॒ढ्वम् ॥ 68 ॥
अनुवाकः 16
आरोगस्य स्थाने स्वतेज॑सा भा॒नि । भ्राजस्य स्थाने स्वतेज॑सा भा॒नि । पटरस्य स्थाने स्वतेज॑सा भा॒नि । पतङ्गस्य स्थाने स्वतेज॑सा भा॒नि । स्वर्णरस्य स्थाने स्वतेज॑सा भा॒नि । ज्योतिषीमतस्य स्थाने स्वतेज॑सा भा॒नि । विभासस्य स्थाने स्वतेज॑सा भा॒नि । कश्यपस्य स्थाने स्वतेज॑सा भा॒नि । औ-म्भूर्भुव॒स्स्वः॑ । आपो वो मिथुन-म्मा नो मिथु॑नग्ं री॒ढ्वम् ॥ 69 ॥
अनुवाकः 17
अथ वायो-रेकादश-पुरुषस्यैकादश॑-स्त्रीक॒स्य ।
प्रभ्राजमानानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
व्यवदातानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
वासुकिवैद्युतानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
रजतानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
परुषाणाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
श्यामानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
कपिलानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
अतिलोहितानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
ऊर्ध्वानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ॥ 70 ॥
वैद्युतानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
प्रभ्राजमानीनाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
व्यवदातीनाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
वासुकिवैद्युतीनाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
रजतानाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
परुषाणाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
श्यामानाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
कपिलानाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
अतिलोहितीनाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
ऊर्ध्वानाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
अवपतन्तीनाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
वैद्युतीनाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
औ-म्भूर्भुव॒स्स्वः॑ ।
रूपाणि वो मिथुन-म्मा नो मिथु॑नग्ं री॒ढ्वम् ॥ 71 ॥
अनुवाकः 18
अथाग्ने॑रष्ट पु॑रुष॒स्य ॥ अग्नेः पूर्व-दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
जातवेदस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
सहोजसो दक्षिण-दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
अजिराप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
नर्यापस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
पङ्क्तिराधस उदग्दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
विसर्पिण उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
औ-म्भूर्भुव॒स्स्वः॑ ।
दिशो वो मिथुन-म्मा नो मिथु॑नग्ं री॒ढ्वम् ॥ 72 ॥
अनुवाकः 19
दक्षिणपूर्व-स्यान्दिशि विस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि । दक्षिणा-परस्या-न्दिश्य विस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि । उत्तर-पूर्वस्या-न्दिशि विषा॑दी न॒रकः । तस्मान्नः प॑रिपा॒हि । उत्तरा-परस्या-न्दिश्य विषा॑दी न॒रकः । तस्मान्नः प॑रिपा॒हि । आ यस्मिन्थ्सप्त वासवा इन्द्रियाणि शतक्रत॑ वित्ये॒ते ॥ 73 ॥
अनुवाकः 20
इ॒न्द्र॒ घो॒षा वो॒ वसु॑भिः पु॒रस्ता॒-दुप॑दधताम् ।
मनो॑जवसो वः पि॒तृभि॑-र्दक्षिण॒त उप॑दधताम् ।
प्रचे॑ता वो रु॒द्रैः प॒श्चा-दुप॑दधताम् ।
वि॒श्वक॑र्मा व आदि॒त्यै-रु॑त्तर॒त उप॑दधताम् ।
त्वष्टा॑ वो रू॒पै-रु॒परि॑ष्टा॒-दुप॑दधताम् । स्
अञ्ज्ञानं-वः ँप॑श्चादि॒ति । आ॒दि॒त्य-स्सर्वो॒-ऽग्निः पृ॑थि॒व्याम् । वा॒युर॒न्तरि॑क्षे । सूर्यो॑ दि॒वि । च॒न्द्रमा॑ दि॒क्षु । नक्ष॑त्राणि॒ स्वलो॒के । ए॒वा ह्ये॑व । ए॒वा ह्य॑ग्ने । ए॒वा हि वा॑यो । ए॒वा ही᳚न्द्र । ए॒वा हि पू॑षन्न् । ए॒वा हि दे॑वाः ॥ 74 ॥
अनुवाकः 21
आप॑मापाम॒प-स्सर्वाः᳚ । अ॒स्मा-द॒स्मादि॒तो-ऽमुतः॑ । अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह स॑ञ्चस्क॒रर्धि॑या । वा॒य्वश्वा॑ रश्मि॒ पत॑यः । मरी᳚च्यात्मानो॒ अद्रु॑हः । दे॒वी र्भु॑वन॒ सूव॑रीः । पु॒त्र॒व॒वाय॑ मे सुत । महानाम्नी-र्म॑हामा॒नाः । म॒ह॒सो म॑हस॒स्स्वः॑ ॥ 75 ॥
अनुवाकः 22
यो॑-ऽपा-म्पुष्पं॒-वेँद॑ । पुष्प॑वा-न्प्र॒जावा᳚-न्पशु॒मा-न्भ॑वति । च॒न्द्रमा॒ वा अ॒पा-म्पुष्प᳚म् । पुष्प॑वा-न्प्र॒जावा᳚-न्पशु॒मा-न्भ॑वति । य ए॒वं-वेँद॑ ॥ यो॑-ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवा-न्भवति । अ॒ग्निर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवा-न्भवति । यो᳚-ऽग्नेरा॒यत॑नं॒-वेँद॑ ॥ 78 ॥
इ॒मे वै लो॒का अ॒फ्सु प्रति॑ष्ठिताः । तदे॒षा-ऽभ्यनू᳚क्ता ।
अ॒पाग्ं रस॒मुद॑यग्ंसन्न् । सूर्ये॑ शु॒क्रग्ं स॒माभृ॑तम् । अ॒पाग्ं रस॑स्य॒ यो रसः॑ । तं-वोँ॑ गृह्णा-म्युत्त॒ममिति॑ । इ॒मे वै लो॒का अ॒पाग्ं रसः॑ । ते॑-ऽमुष्मि॑-न्नादि॒त्ये स॒माभ॑ताः । जा॒नु॒द॒घ्नी-मु॑त्तर-वे॒दीङ्खा॒त्वा । अ॒पा-म्पू॑रयि॒त्वा गु॑ल्फद॒घ्नम् ॥ 85 ।
अनुवाकः 23
आपो॒ वा इ॒दमा॑सन्-थ्सलि॒लमे॒व । स प्र॒जाप॑ति॒रेकः॑ पुष्करप॒र्णे सम॑भवत् । तस्यान्त॒-र्मन॑सि काम॒-स्सम॑वर्तत । इ॒दग्ं सृ॑जेय॒मिति॑ । तस्मा॒द्य-त्पुरु॑षो॒ मन॑सा-ऽभि॒गच्छ॑ति । तद्वा॒चा व॑दति । तत्कर्म॑णा करोति । तदे॒षा ऽभ्यनू᳚क्ता । काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं-यँदासी᳚त् ॥ 90 ॥
अथा॑रु॒णः के॒तुरु॒परि॑ष्टा-दु॒पाद॑धात् । ए॒वा हि देवा॒ इति॑ । ततो॑ देव मनु॒ष्याः पि॒तरः॑ । ग॒न्ध॒र्वा॒-फ्स॒रस॒ श्चोद॑-तिष्ठन्न् । सोर्ध्वा दिक् । या वि॒प्रुषो॑ वि॒परा॑पतन्न् । ताभ्यो-ऽसु॑रा॒ रक्षाग्ं॑सि पिशा॒चाश्चो-द॑तिष्ठन्न् । तस्मा॒त्ते परा॑भवन्न् । वि॒प्रुड्भ्यो॒ हि ते सम॑भवन्न् । तदे॒षा-ऽभ्यनू᳚क्ता ॥ 96 ॥
अनुवाकः 24
चतु॑ष्टय्य॒ आपो॑ गृह्णाति । च॒त्वारि॒ वा अ॒पाग्ं रू॒पाणि॑ । मेघो॑ वि॒द्युत् । स्त॒न॒यि॒त्नु-र्वृ॒ष्टिः । तान्ये॒वा व॑रुन्धे । आ॒तप॑ति॒ वर्ष्या॑ गृह्णाति । ताः पु॒रस्ता॒-दुप॑दधाति । ए॒ता वै ब्र॑ह्मवर्च॒स्या आपः॑ । मु॒ख॒त ए॒व ब्र॑ह्मवर्च॒स-मव॑रुन्धे । तस्मा᳚-न्मुख॒तो ब्र॑ह्मवर्च॒सित॑रः ॥ 99 ॥
अनुवाकः 25
जा॒नु॒द॒घ्नी-मु॑त्तरवे॒दीङ्खा॒त्वा । अ॒पा-म्पू॑रयति । अ॒पाग्ं स॑र्व॒त्वाय॑ । पु॒ष्क॒र॒प॒र्णग्ं रु॒क्म-म्पुरु॑ष॒-मित्युप॑दधाति । तपो॒ वै पु॑ष्करप॒र्णम् । स॒त्यग्ं रु॒क्मः । अ॒मृत॒-म्पुरु॑षः । ए॒ताव॒द्वा वा᳚स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑ ॥ 103 ॥
अनुवाकः 26
अ॒ग्नि-म्प्र॒णीयो॑प-समा॒धाय॑ । तम॒भित॑ ए॒ता अ॒भीष्ट॑का॒ उप॑दधाति । अ॒ग्नि॒हो॒त्रे द॑र्शपूर्ण-मा॒सयोः᳚ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ । अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ । अथ॑ हस्मा हारु॒ण-स्स्वा॑य॒म्भुवः॑ । सा॒वि॒त्र-स्सर्वो॒-ऽग्नि-रित्यन॑नुषङ्ग-म्मन्यामहे । नाना॒ वा ए॒तेषां᳚-वीँ॒र्या॑णि ॥ कम॒ग्निञ्चि॑नुते ॥ 106 ॥
प्रा॒जा॒प॒त्यो वा ए॒षो᳚-ऽग्निः । प्रा॒जा॒प॒त्याः प्र॒जाः । प्र॒जावा᳚-न्भवति । य ए॒वं-वेँद॑ । प॒शुका॑मश्चिन्वीत । स॒ञ्ज्ञानं॒-वाँ ए॒त-त्प॑शू॒नाम् । यदापः॑ । प॒शू॒नामे॒व स॒ज्ञान्ने॒ ऽग्निञ्चि॑नुते । प॒शु॒मा-न्भ॑वति । य ए॒वं-वेँद॑ ॥ 109 ॥
अनुवाकः 27
इ॒मा नु॑क॒-म्भुव॑ना सीषधेम । इन्द्र॑श्च॒ विश्वे॑च दे॒वाः । य॒ज्ञञ्च॑ नस्त॒न्वञ्च॑ प्र॒जाञ्च॑ । आ॒दि॒त्यैरिन्दः॑ स॒ह सी॑षधातु । आ॒दि॒त्यैरिन्द्र॒-स्सग॑णो-म॒रुद्भिः॑ । अ॒स्माक॑-म्भूत्ववि॒ता त॒नूना᳚म् ॥ आप्ल॑वस्व॒ प्रप्ल॑वस्व । आ॒ण्डी भ॑व ज॒ मा मु॒हुः । सुखादीन्दुः॑ खनि॒धनाम् । प्रति॑मुञ्चस्व॒ स्वा-म्पु॒रम् ॥ 113 ॥
अनुवाकः 28
विशी᳚र्ष्णी॒-ङ्गृद्ध्र॑-शीर्ष्णीञ्च । अपेतो॑ निर्-ऋ॒तिग्ं ह॑थः । परिबाधग्ग् श्वे॑तकु॒क्षम् । नि॒जङ्घग्ं॑ शब॒लोद॑रम् । स॒ तान्. वा॒च्याय॑या स॒ह । अग्ने॒ नाश॑य स॒न्दृशः॑ । ई॒र्ष्या॒सू॒ये बु॑भु॒क्षाम् । म॒न्यु-ङ्कृ॒त्या-ञ्च॑ दीधिरे । रथे॑न किग्ंशु॒काव॑ता । अग्ने॒ नाश॑य स॒न्दृशः॑ ॥ 119 ॥
अनुवाकः 29
प॒र्जन्या॑य॒ प्रगा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे᳚ । स नो॑ य॒वस॑मिच्छतु । इ॒दं-वँचः॑ प॒र्जन्या॑य स्व॒राजे᳚ । हृ॒दो अ॒स्त्वन्त॑र॒न्त-द्यु॑योत । म॒यो॒भूर्वातो॑ वि॒श्वकृ॑ष्टय-स्सन्त्व॒स्मे । सु॒पि॒प्प॒ला ओष॑धी-र्दे॒वगो॑पाः । यो गर्भ॒-मोष॑धीनाम् । गवा᳚ङ्कृ॒णोत्यर्व॑ताम् । प॒र्जन्यः॑ पुरु॒षीणा᳚म् ॥ 120 ॥
अनुवाकः 30
पुन॑र्मामैत्विन्द्रि॒यम् । पुन॒रायुः॒ पुन॒र्भगः॑ । पुन॒-र्ब्राह्म॑ण-मैतु मा । पुन॒-र्द्रवि॑ण मैतु मा । यन्मे॒-ऽद्य रेतः॑ पृथि॒वीमस्कान्॑ । यदोष॑धीर॒प्यस॑र॒-द्यदापः॑ । इ॒दन्त-त्पुन॒राद॑दे । दी॒र्घा॒यु॒त्वाय॒ वर्च॑से । यन्मे॒ रेतः॒ प्रसि॑च्यते । यन्म॒ आजा॑यते॒ पुनः॑ । तेन॑ माम॒मृत॑-ङ्कुरु । तेन॑ सुप्र॒जस॑ङ्कुरु ॥ 121 ॥
अनुवाकः 31
अ॒द्भय-स्तिरो॒धा जा॑यत । तव॑ वैश्रव॒ण-स्स॑दा । तिरो॑ धेहि सप॒त्नान्नः॑ । ये अपो॒-ऽश्नन्ति॑ केच॒न । त्वा॒ष्ट्री-म्मा॒यां-वँ᳚श्रव॒णः । रथग्ं॑ सहस्र॒ वन्धु॑रम् । पु॒रु॒श्च॒क्रग्ं सह॑स्राश्वम् । आस्था॒ याया॑हि नो ब॒लिम् । यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति । धन॒ङ्गावो॒ हस्ति॒ हिर॑ण्य॒मश्वान्॑ ॥ 122 ॥
अनुवाकः 32
संवँथ्सरमेत॑-द्व्रत॒ञ्चरेत् । द्वौ॑ वा मा॒सौ । नियम-स्स॑मासे॒न । तस्मि-न्नियम॑ विशे॒षाः । त्रिषवण-मुदको॑पस्प॒र्॒शी । चतुर्थ कालपान॑भक्त॒-स्स्यात् । अहरहर्वा भैक्ष॑मश्न॒यात् । औदुम्बरीभि-स्समिद्भि-रग्नि॑-म्परि॒चरेत् । पुनर्मा मैत्विन्द्रिय-मित्येतेना-ऽनु॑वाके॒न । उद्धृत परिपूताभिरद्भिः कार्य॑-ङ्कुर्वी॒त ॥ 128 ॥
(कु॒र्वी॒त - ज॑पि॒त्वा - स्वाद्ध्याय॑धर्मे॒ण द्वे च॑)
अनुवाकानि
(भ॒द्रग्ग् - स्मृतिः॑ - साक॒जान्ना॒ - मक्ष्य- ति॑ता॒म्रा - ण्य॑त्युर्ध्वा॒क्ष - आरोगः - क्वेद - मग्निश्च - स॑हस्र॒वृत् - प॒वित्र॑वन्त॒ -आत॑नुष्वा॒ -ष्टयो॑नीं॒ - ँयो-ऽसा॒ - वथादित्य - स्यारोग-स्याथ वायो- रथाग्ने॒--र् दक्षिणपूर्वस्या - मि॑न्द्रघो॒षा व॒-आप॑मापां॒योँ॑-ऽपा - मापो॒ वै - चतु॑ष्टय्यो - जानुद॒घ्नी - म॒ग्नि-म्प्र॒णीये॒ - मा नु॑ कं॒ - ँविशी᳚र्ष्णीं - प॒र्जन्या॑य॒ - पुन॑ - र॒द्भ्यः -संवँथ्सर-न्द्वात्रिग्ं॑शत्)
(भद्रं - तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके प्रथमः प्रपाठकः (अरुणप्रश्नः)
