Lord Ganesha

गणपति गकार अष्टोत्तर शतनाम स्तोत्रम्

(Ganapati Gakara Ashtottara Shatanama Stotram)

From Skanda Purana

This unique stotra is dedicated to Lord Ganesha, where each of the 108 divine names begins with the sacred letter Ga. Sourced from the Skanda Purana, this powerful hymn emphasizes the multifaceted nature of the Remover of Obstacles, describing him as the creator of the elements and the beloved of Lord Shiva. Chanting this hymn with devotion is believed to sharpen the intellect, clear mental blocks, and bestow divine wisdom. It serves as a meditative tool for devotees seeking to align their consciousness with the primordial sound and energy of Ganapati.

गकाररूपो गम्बीजो गणेशो गणवन्दितः ।
गणनीयो गणोगण्यो गणनातीत सद्गुणः ॥ 1 ॥
गगनादिकसृद्गङ्गासुतोगङ्गासुतार्चितः ।
गङ्गाधरप्रीतिकरोगवीशेड्योगदापहः ॥ 2 ॥
गदाधरनुतो गद्यपद्यात्मककवित्वदः ।
गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ 3 ॥
गञ्जानिरत शिक्षाकृद्गणितज्ञो गणोत्तमः ।
गण्डदानाञ्चितोगन्ता गण्डोपल समाकृतिः ॥ 4 ॥
गगन व्यापको गम्यो गमानादि विवर्जितः ।
गण्डदोषहरो गण्ड भ्रमद्भ्रमर कुण्डलः ॥ 5 ॥
गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः ।
गन्धप्रियो गन्धवाहो गन्धसिन्धुरबृन्दगः ॥ 6 ॥
गन्धादि पूजितो गव्यभोक्ता गर्गादि सन्नुतः ।
गरिष्ठोगरभिद्गर्वहरो गरलिभूषणः ॥ 7 ॥
गविष्ठोगर्जितारावो गभीरहृदयो गदी ।
गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ॥ 8 ॥
गर्भाधारो गर्भवासि शिशुज्ञान प्रदायकः ।
गरुत्मत्तुल्यजवनो गरुडध्वजवन्दितः ॥ 9 ॥
गयेडितो गयाश्राद्धफलदश्च गयाकृतिः ।
गदाधरावतारीच गन्धर्वनगरार्चितः ॥ 10 ॥
गन्धर्वगानसन्तुष्टो गरुडाग्रजवन्दितः ।
गणरात्र समाराध्यो गर्हणस्तुति साम्यधीः ॥ 11 ॥
गर्ताभनाभिर्गव्यूतिः दीर्घतुण्डो गभस्तिमान् ।
गर्हिताचार दूरश्च गरुडोपलभूषितः ॥ 12 ॥
गजारि विक्रमो गन्धमूषवाजी गतश्रमः ।
गवेषणीयो गमनो गहनस्थ मुनिस्तुतः ॥ 13 ॥
गवयच्छिद्गण्डकभिद्गह्वरापथवारणः ।
गजदन्तायुधो गर्जद्रिपुघ्नो गजकर्णिकः ॥ 14 ॥
गजचर्मामयच्छेत्ता गणाध्यक्षोगणार्चितः ।
गणिकानर्तनप्रीतोगच्छन् गन्धफली प्रियः ॥ 15 ॥
गन्धकादि रसाधीशो गणकानन्ददायकः ।
गरभादिजनुर्हर्ता गण्डकीगाहनोत्सुकः ॥ 16 ॥
गण्डूषीकृतवाराशिः गरिमालघिमादिदः ।
गवाक्षवत्सौधवासीगर्भितो गर्भिणीनुतः ॥ 17 ॥
गन्धमादनशैलाभो गण्डभेरुण्डविक्रमः ।
गदितो गद्गदाराव संस्तुतो गह्वरीपतिः ॥ 18 ॥
गजेशाय गरीयसे गद्येड्योगतभीर्गदितागमः ।
गर्हणीय गुणाभावो गङ्गादिक शुचिप्रदः ॥ 19 ॥
गणनातीत विद्याश्री बलायुष्यादिदायकः ।
एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ॥ 20 ॥
पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् ।
पूजान्ते यः पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट् ॥ 21 ॥
यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति ।
दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ॥ 22 ॥
एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि ।
तस्य प्रसन्नो विघ्नेशस्सर्वान् कामान् प्रयच्छति ॥ 23 ॥
॥ इति श्री गणपति गकार अष्टोत्तर शतनामस्तोत्रम् ॥

Explore More