॥ पञ्चमः सर्गः ॥
अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः ।
इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ 31 ॥
स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥
तव विरहे वनमाली सखि सीदति ॥ 1 ॥
पतति मदनविशिखे विलपति विकलतरोऽति ॥ 2 ॥
मनसि चलितविरहे निशि निशि रुजमुपयाति ॥ 3 ॥
लुठति धरणिशयने बहु विलपति तव नाम ॥ 4 ॥
हसति मनुजनिचये विरहमपलपति नेति ॥ 5 ॥
तवरतिसुखविभवे गणयति सुगुणमतीव ॥ 6 ॥
तमपि जपति सरसं युवतिषु न रतिमुपैति ॥ 7 ॥
मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ 8 ॥
ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ 32 ॥
न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥
धीरसमीरे यमुनातीरे वसति वने वनमाली ॥ 1 ॥
बहु मनुते ननु ते तनुसङ्गतपवनचलितमपि रेणुम् ॥ 2 ॥
रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ 3 ॥
चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ 4 ॥
तटिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ 5 ॥
किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ 6 ॥
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ 7 ॥
प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ 8 ॥
रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ 33 ॥
कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ 34 ॥
अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो-र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ 35 ॥
कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ 36 ॥
स्वच्छन्दं व्रजसुब्दरीजनमनस्तोषप्रदोषोदयः कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः॥ 36 + 1 ॥
