ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
अनुवाकं 1 - वथ्सापाकरणम्
तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् । त-ङ्गा॑य॒त्र्याह॑रत् ।
तस्य॑ प॒र्णम॑च्छिद्यत । त-त्प॒र्णो॑-ऽभवत् । त-त्प॒र्णस्य॑ पर्ण॒त्वम् । ब्रह्म॒ वै प॒र्णः । य-त्प॑र्णशा॒खया॑ व॒थ्सान॑पाक॒रोति॑ ।
ब्रह्म॑णै॒वैना॑न॒पाक॑रोति ॥ गा॒य॒त्रो वै प॒र्णः । गा॒य॒त्राः प॒शवः॑ ॥ 1 ॥
अ॒प॒शुरे॒व भ॑वति । य-ङ्का॒मये॑त पशु॒मान्-थ्स्या॒दिति॑ । ब॒हु॒प॒र्णा-न्तस्मै॑ बहुशा॒खामाह॑रेत् । प॒शु॒मन्त॑-मे॒वैन॑-ङ्करोति ॥ 2 ॥
वा॒यव॒-स्स्थेत्या॑ह । वा॒युर्वा अ॒न्तरि॑क्ष॒-स्याद्ध्य॑क्षाः ।
अ॒न्त॒रि॒क्ष॒दे॒व॒त्याः᳚ खलु॒ वै प॒शवः॑ ॥ 3 ॥
स्थेत्या॑ह । यज॑मानायै॒व प॒शूनुप॑ह्वयते ॥
दे॒वो वः॑ सवि॒ता प्रार्प॑य॒त्वित्या॑ह॒ प्रसू᳚त्यै ॥ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ इत्या॑ह ।
य॒ज्ञो हि श्रेष्ठ॑तम॒-ङ्कर्म॑ । तस्मा॑दे॒वमा॑ह ॥
आप्या॑यद्ध्वमघ्निया देवभा॒गमित्या॑ह ॥ 4 ॥
ध्रु॒वा अ॒स्मि-न्गोप॑तौ स्यात ब॒ह्वीरित्या॑ह ।
ध्रु॒वा ए॒वास्मि॑-न्ब॒ह्वीः क॑रोति ॥ 5 ॥
उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 6 ॥
अनुवाकं 2 - बर्हिराहरणम्
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्य॑श्वप॒र्॒शुमाद॑त्ते॒ प्रसू᳚त्यै ।
अ॒श्विनो᳚-र्बा॒हुभ्या॒मित्या॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् ।
पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ ॥ यो वा ओष॑धीः पर्व॒शो वेद॑ । नैना॒-स्स हि॑नस्ति । प्र॒जाप॑ति॒र्वा ओष॑धीः पर्व॒शो वे॑द । स ए॑ना॒ न हि॑नस्ति । अ॒श्व॒प॒र्श्वा ब॒र्॒हिरच्छै॑ति ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ सयोनि॒त्वाय॑ ॥ 7 ॥
य॒ज्ञस्य॑ घो॒षद॒सीत्या॑ह ।
यज॑मान ए॒व र॒यि-न्द॑धाति । प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒-मप॑हत्यै ॥ प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छेत्या॑ह । वि॒द्या वै धि॒षणा᳚ । वि॒द्ययै॒वैन॒दच्छै॑ति ॥ मनु॑ना कृ॒ता स्व॒धया॒ वित॒ष्टेत्या॑ह । मा॒न॒वी हि पर्शुः॑ स्व॒धाकृ॑ता ॥ 8 ॥
दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हिरा॒सद॒ इत्या॑ह । ब॒र्॒हिष॒-स्समृ॑द्ध्यै । कर्म॒णो-ऽन॑पराधाय ॥ दे॒वाना᳚-म्परिषू॒तम॒सीत्या॑ह ॥ 9 ॥
अथो॒ यथा॒ वस्य॑से प्रति॒ प्रोच्याहे॒द-ङ्क॑रिष्या॒मीति॑ । ए॒वमे॒व तद॑द्ध्व॒र्यु-र्दे॒वेभ्यः॑ प्रति॒ प्रोच्य॑ ब॒र्॒हिर्दा॑ति । आ॒त्मनो-ऽहिग्ं॑सायै ॥ याव॑त-स्स्त॒म्बा-न्प॑रि दि॒शेत् । यत्तेषा॑-मुच्छि॒ग्ग्॒ष्यात् । अति॒ त-द्य॒ज्ञस्य॑ रेचयेत् । एकग्ग्॑ स्त॒म्ब-म्परि॑दिशेत् ।
तग्ं सर्व॑-न्दायात् ॥ 10 ॥
व॒र्॒ष वृ॑द्धा॒ वा ओष॑धयः ॥
देव॑ बर्हि॒रित्या॑ह । दे॒वेभ्य॑ ए॒वैन॑-त्करोति ।
मा त्वा॒-ऽन्वम्मा ति॒र्यगित्या॒हा हिग्ं॑सायै ।
पर्व॑ ते राद्ध्यास॒मित्या॒-हर्ध्यै᳚ ॥
आ॒च्छे॒त्ता ते॒ मा रि॑ष॒मित्या॑ह । नास्या॒त्मनो॑ मीयते ।
य ए॒वं-वेँद॑ ॥ 11 ॥
अयु॑ङ्गायुङ्गा-न्मु॒ष्टीन् ँलु॑नोति । मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै ॥ सु॒स॒भृन्ता᳚ त्वा॒ सम्भ॑रा॒मीत्या॑ह । ब्रह्म॑णै॒वैन॒थ्- सम्भ॑रति ॥ 12 ॥
अ॒स्या ए॒वैन॒-द्रास्ना᳚-ङ्करोति ॥ इ॒न्द्रा॒ण्यै स॒नंह॑न॒मित्या॑ह । इ॒न्द्रा॒णी वा अग्रे॑ दे॒वता॑ना॒ग्ं॒ सम॑नह्यत । सा ऽऽर्ध्नो᳚त् ।
ऋद्ध्यै॒ सन्न॑ह्यति । प्र॒जा वै ब॒र्॒हिः ।
प्र॒जाना॒मप॑रावापाय ।
तस्मा॒-थ्स्नाव॑सन्तताः प्र॒जा जा॑यन्ते ॥ 13 ॥
पुष्टि॑मे॒व यज॑माने दधाति ॥ स ते॒ मा-ऽऽ स्था॒दित्या॒हाहिग्ं॑सायै ॥ प॒श्चा-त्प्राञ्च॒मुप॑गूहति ।
प॒श्चा-द्वै प्रा॒चीन॒ग्ं॒ रेतो॑ धीयते ।
प॒श्चादे॒वास्मै᳚ प्रा॒चीन॒ग्ं॒ रेतो॑ दधाति ॥
इन्द्र॑स्य त्वा बा॒हुभ्या॒-मुद्य॑च्छ॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति ॥
बृह॒स्पते᳚र्मू॒र्ध्ना ह॑रा॒मीत्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पतिः॑ ॥ 14 ॥
गर्भा॑णा॒-न्धृत्या॒ अप्र॑पादाय । तस्मा॒-द्गर्भाः᳚ प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 15 ॥
अनुवाकं 3 - दोहनम्
पू॒र्वे॒द्युरि॒द्ध्मा ब॒र्॒हिः क॑रोति । य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑वसति ॥ प्र॒जाप॑ति-र्य॒ज्ञम॑सृजत । तस्यो॒खे अ॑स्रग्ंसेताम् । य॒ज्ञो वै प्र॒जाप॑तिः ।
य-थ्सा᳚न्नाय्यो॒खे भव॑तः ।
य॒ज्ञस्यै॒व तदु॒खे उप॑दधा॒त्य-प्र॑स्रग्ंसाय ॥
शुन्ध॑द्ध्व॒-न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह । दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति ॥ मा॒त॒रिश्व॑नो घ॒र्मो॑-ऽसीत्या॑ह ॥ 16 ॥
ए॒षां-लोँ॒कानां॒-विँधृ॑त्यै ॥
द्यौर॑सि पृथि॒व्य॑सीत्या॑ह । दि॒वश्च॒ ह्ये॑षा पृ॑थि॒व्याश्च॒ सम्भृ॑ता । यदु॒खा ।
तस्मा॑दे॒वमा॑ह ॥ वि॒श्वधा॑या असि पर॒मेण॒ धाम्नेत्या॑ह । वृष्टि॒र्वै वि॒श्वधा॑याः । वृष्टि॑मे॒वाव॑रुन्धे । दृग्ंह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै᳚ ॥ 17 ॥
तेषां॒-वाँ ए॒त-द्भा॑ग॒धेय᳚म् । य-त्प॒वित्र᳚म् । तेभ्य॑ ए॒वैन॑-त्करोति ॥ श॒तधा॑रग्ं स॒हस्र॑धार॒मित्या॑ह । प्रा॒णेष्वे॒वायु॑-र्दधाति सर्व॒त्वाय॑ ॥ त्रि॒वृ-त्प॑लाशशा॒खाया᳚-न्दर्भ॒मय॑-म्भवति । त्रि॒वृद्वै प्रा॒णः । त्रि॒वृत॑मे॒व प्रा॒ण-म्म॑द्ध्य॒तो यज॑माने दधाति ॥ 18 ॥
अन्न॑-म्प्रा॒णाः । उ॒भय॑मे॒वोपै॒त्यजा॑मित्वाय ॥ 19 ॥
न हि हु॒तग्ग् स्वाहा॑कृत॒ग्ग्॒ स्कन्द॑ति ।
दि॒वि नाको॒ नामा॒ग्निः । तस्य॑ वि॒प्रुषो॑ भाग॒धेय᳚म् ।
अ॒ग्नये॑ बृह॒ते नाका॒येत्या॑ह ।
नाक॑मे॒वाग्नि-म्भा॑ग॒धेये॑न॒ सम॑र्धयति ।
स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह ।
द्यावा॑पृथि॒व्योरे॒वैन॒त्-प्रति॑ष्ठापयति ॥ 20 ॥
य॒ज्ञस्य॒ धृत्यै᳚ । धा॒रय॑न्नास्ते । धा॒रय॑न्त इव॒ हि दु॒हन्ति॑ । काम॑धुक्ष॒ इत्या॒हातृ॒तीय॑स्यै । त्रय॑ इ॒मे लो॒काः । इ॒माने॒व लो॒कान्. यज॑मानो दुहे ॥ 21 ॥
अ॒न्तरि॑क्षं-विँ॒श्वव्य॑चाः । अ॒सौ वि॒श्वक॑र्मा ।
इ॒माने॒वैताभि॑र्लो॒कान्. य॑थापू॒र्व-न्दु॑हे ।
अथो॒ यथा᳚ प्रदा॒त्रे पुण्य॑मा॒शास्ते᳚ । ए॒वमे॒वैना॑ ए॒तदुप॑स्तौति । तस्मा॒त्-प्रादा॒दित्यु॒न्नीय॒ वन्द॑माना उपस्तु॒वन्तः॑ प॒शू-न्दु॑हन्ति ॥ 22 ॥
दैव्य॑स्य च मानु॒षस्य॑ च॒ व्यावृ॑त्त्यै ।
त्रिरा॑ह । त्रिष॑त्या॒ हि दे॒वाः । अवा॑चं-यँ॒मो-ऽन॑न्वा-र॒भ्योत्त॑राः । अप॑रिमितमे॒वाव॑रुन्धे ॥
न दा॑रुपा॒त्रेण॑ दुह्यात् । अ॒ग्नि॒वद्वै दा॑रुपा॒त्रम् ।
य-द्दा॑रुपा॒त्रेण॑ दु॒ह्यात् ॥ 23 ॥
पु॒रो॒डाश॑मुखानि॒ वै ह॒वीग्ंषि॑ । नेत इ॑तः पुरो॒डाशग्ं॑ ह॒विषो॒ यामो॒-ऽस्तीति॑ ।
काम॑मे॒व दा॑रुपा॒त्रेण॑ दुह्यात् ॥ शू॒द्र ए॒व न दु॑ह्यात् । अस॑तो॒ वा ए॒ष सम्भू॑तः । यच्छू॒द्रः । अह॑विरे॒व तदित्या॑हुः । यच्छू॒द्रो दोग्धीति॑ ॥ 24 ॥
सम्पृ॑च्यद्ध्व-मृतावरी॒रित्या॑ह । अ॒पा-ञ्चै॒वौष॑धीना-ञ्च॒ रस॒ग्ं॒ सग्ंसृ॑जति ।
तस्मा॑द॒पा-ञ्चौष॑धीना-ञ्च॒ रस॒मुप॑ जीवामः ।
म॒न्द्रा धन॑स्य सा॒तय॒ इत्या॑ह । पुष्टि॑मे॒व यज॑माने दधाति ॥ सोमे॑न॒ त्वा-ऽऽत॑न॒च्मीन्द्रा॑य॒ दधीत्या॑ह ॥ 25 ॥
सं॒वँ॒थ्स॒रग्ं सोम॒-न्न पिब॑ति । पु॒न॒र्भक्ष्यो᳚-ऽस्य सोमपी॒थो भ॑वति ॥
सोमः॒ खलु॒ वै सा᳚नां॒य्यम् । य ए॒वं-विँ॒द्वान्-थ्सा᳚नां॒य्य-म्पिब॑ति । अ॒पु॒न॒र्भक्ष्यो᳚-ऽस्य सोमपी॒थो भ॑वति । न मृ॒न्मये॒नापि॑दद्ध्यात् ।
य-न्मृ॒न्मये॑नापिद॒द्ध्यात् ।
पि॒तृ॒दे॒व॒त्यग्ग्॑ स्यात् ॥ 26 ॥
तद्धि सदे॑वम् ॥ उ॒द॒न्वद्- भ॑वति । आपो॒ वै र॑क्षो॒घ्नीः । रक्ष॑सा॒-मप॑हत्यै ॥
अद॑स्तमसि॒ विष्ण॑वे॒ त्वेत्या॑ह । य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञायै॒वैन॒दद॑स्त-ङ्करोति । विष्णो॑ ह॒व्यग्ं र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै᳚ ॥ अन॑ध-स्सादयति । गर्भा॑णा॒-न्धृत्या॒ अप्र॑पादाय ।
तस्मा॒-द्गर्भाः᳚ प्र॒जाना॒म प्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 27 ॥
अनुवाकं 4 - हविर्निर्वापः
कर्म॑णे वा-न्दे॒वेभ्यः॑ शकेय॒मित्या॑ह॒ शक्त्यै᳚ ।
य॒ज्ञस्य॒ वै सन्त॑ति॒मनु॑ प्र॒जाः प॒शवो॒ यज॑मानस्य॒ सन्ता॑यन्ते । य॒ज्ञस्य॒ विच्छि॑त्ति॒मनु॑ प्र॒जाः प॒शवो॒ यज॑मानस्य॒ विच्छि॑द्यन्ते ।
य॒ज्ञस्य॒ सन्त॑तिरसि य॒ज्ञस्य॑ त्वा॒ सन्त॑त्यै स्तृणामि॒ सन्त॑त्यै त्वा य॒ज्ञस्येत्याह॑व॒नीया॒-थ्सन्त॑नोति । यज॑मानस्य प्र॒जायै॑ पशू॒नाग्ं सन्त॑त्यै ॥ अ॒पः प्रण॑यति । श्र॒द्धा वा आपः॑ । श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । य॒ज्ञो वा आपः॑ ॥ 28 ॥
आपो॒ वै र॑क्षो॒घ्नीः । रक्ष॑सा॒-मप॑हत्यै । अ॒पः प्रण॑यति । आपो॒ वै दे॒वाना᳚-म्प्रि॒य-न्धाम॑ ।
दे॒वाना॑मे॒व प्रि॒य-न्धाम॑ प्र॒णीय॒ प्रच॑रति ॥ 29 ॥
दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ॥ वेषा॑य॒ त्वेत्या॑ह । वेषा॑य॒ ह्ये॑नदाद॒त्ते ॥ प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒-मप॑हत्यै ॥ धूर॒सीत्या॑ह । ए॒ष वै धुर्यो॒-ऽग्निः । तं-यँदनु॑पस्पृश्याती॒यात् ॥ 30 ॥
द्वौ वाव पुरु॑षौ । य-ञ्चै॒व धूर्व॑ति । यश्चै॑न॒-न्धूर्व॑ति । तावु॒भौ शु॒चा-ऽर्प॑यति ॥ त्व-न्दे॒वाना॑मसि॒ सस्नि॑तम॒-म्पप्रि॑तम॒-ञ्जुष्ट॑तमं॒-वँह्नि॑तम-न्देव॒हूत॑म॒मित्या॑ह । य॒था॒ य॒जुरे॒वै तत् ॥ 31 ॥
दृग्ंह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै᳚ ॥
मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्ष॒ इत्या॑ह मित्र॒त्वाय॑ ।
मा भेर्मा संविँ॑क्था॒ मा त्वा॑ हिग्ंसिष॒-मित्या॒हाहिग्ं॑सायै । यद्वै कि-ञ्च॒ वातो॒ नाभि॒वाति॑ ।
त-थ्सर्वं॑-वँरुणदेव॒त्य᳚म् ॥ उ॒रु वाता॒येत्या॑ह । अवा॑रुणमे॒वैन॑-त्करोति ॥ दे॒वस्य॑ त्वा सवि॒तुः
प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै ।
अ॒श्विनो᳚-र्बा॒हुभ्या॒मित्या॑ह ॥ 32 ॥
पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । अ॒ग्नये॒ जुष्ट॒-न्निर्व॑पा॒मीत्या॑ह । अ॒ग्नय॑ ए॒वैना॒ञ्जुष्टं॒
निर्व॑पति । त्रिर्यजु॑षा । त्रय॑ इ॒मे लो॒काः ।
ए॒षां-लोँ॒काना॒माप्त्यै᳚ । तू॒ष्णी-ञ्च॑तु॒र्थम् ।
अप॑रिमितमे॒वाव॑रुन्धे । स ए॒वमे॒वानु॑पू॒र्वग्ं ह॒वीग्ंषि॒ निर्व॑पति ॥ 33 ॥
स्फा॒त्यै त्वा॒ नारा᳚त्या॒ इत्या॑ह॒ गुप्त्यै᳚ । तम॑सीव॒ वा ए॒षो᳚-ऽन्तश्च॑रति । यः प॑री॒णहि॑ ॥ सुव॑र॒भि विख्ये॑षं-वैँश्वान॒र-ञ्ज्योति॒रित्या॑ह ।
सुव॑रे॒वाभि वि प॑श्यति वैश्वान॒र-ञ्ज्योतिः॑ ।
द्यावा॑पृथि॒वी ह॒विषि॑ गृही॒त उद॑वेपेताम् ॥
दृग्ंह॑न्ता॒-न्दुर्या॒ द्यावा॑पृथि॒व्योरित्या॑ह ।
गृ॒हाणा॒-न्द्यावा॑पृथि॒व्यो-र्धृत्यै᳚ ॥
उ॒र्व॑न्तरि॑क्ष॒-मन्वि॒हीत्या॑ह॒ गत्यै᳚ ॥
अदि॑त्यास्त्वो॒पस्थे॑ सादया॒मीत्या॑ह । इ॒यं-वाँ अदि॑तिः । अ॒स्या ए॒वैन॑दु॒पस्थे॑ सादयति ॥
अग्ने॑ ह॒व्यग्ं र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै᳚ ॥ 34 ॥
अनुवाकं 5 - व्रीह्यवघातः
इन्द्रो॑ वृ॒त्रम॑हन्न् । सो॑-ऽपः । अ॒भ्य॑म्रियत ।
तासां॒-यँन्मेद्ध्यं॑-यँ॒ज्ञिय॒ग्ं॒ सदे॑व॒मासी᳚त् । तदपोद॑क्रामत् । ते द॒र्भा अ॑भवन्न् । य-द्द॒र्भैर॒प उ॑त्पु॒नाति॑ । या ए॒व मेद्ध्या॑ य॒ज्ञिया॒-स्सदे॑वा॒ आपः॑ । ताभि॑रे॒वैना॒ उत्पु॑नाति । द्वाभ्या॒मुत्पु॑नाति ॥ 35 ॥
स॒वि॒तृप्र॑सूत-म्मे॒ कर्मा॑स॒दिति॑ ।
स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति ।
प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑ ॥
आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह ।
रू॒प-मे॒वासा॑मे॒त-न्म॑हि॒मानं॒-व्याँच॑ष्टे ।
अग्र॑ इ॒मं-यँ॒ज्ञ-न्न॑य॒ताग्रे॑
य॒ज्ञप॑ति॒मित्या॑ह । अग्र॑ ए॒व य॒ज्ञ-न्न॑यन्ति ।
अग्रे॑ य॒ज्ञप॑तिम् ॥ 37 ॥
वृ॒त्रग्ं ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे ।
आपो॒ हेन्द्रं॑-वँव्रिरे । स॒ज्ञां-मे॒वासा॑मे॒त-थ्सामा॑नं॒-व्याँच॑ष्टे ॥ प्रोक्षि॑ता॒-स्स्थेत्या॑ह । तेनापः॒ प्रोक्षि॑ताः ॥ अ॒ग्नये॑ वो॒ जुष्ट॒-म्प्रोक्षा᳚-म्य॒ग्नीषोमा᳚भ्या॒-मित्या॑ह ।
य॒था॒ दे॒व॒तमे॒वैना॒-न्प्रोक्ष॑ति । त्रिः प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः ॥ 38 ॥
दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह ।
दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति । त्रिः प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेद्ध्य॒त्वाय॑ । अव॑धूत॒ग्ं॒ रक्षो-ऽव॑धूता॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒-मप॑हत्यै । अदि॑त्या॒स्त्वग॒सीत्या॑ह । इ॒यं-वाँ अदि॑तिः ॥ 39 ॥
तस्मा᳚-त्पु॒रस्ता᳚-त्प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते । तस्मा᳚-त्प्र॒जा मृ॒ग-ङ्ग्राहु॑काः । य॒ज्ञो दे॒वेभ्यो॒ निला॑यत ।
कृष्णो॑ रू॒प-ङ्कृ॒त्वा । य-त्कृ॑ष्णाजि॒ने ह॒विर॑द्ध्यव॒हन्ति॑ । य॒ज्ञादे॒व-त-द्य॒ज्ञ-म्प्रयु॑ङ्क्ते । ह॒विषो-ऽस्क॑न्दाय ॥ 40 ॥
अ॒ग्नेस्त॒नू-र॒सीत्या॑ह । अ॒ग्नेर्वा ए॒षा त॒नूः ।
यदोष॑धयः । वा॒चो वि॒सर्ज॑न॒मित्या॑ह ।
य॒दा हि प्र॒जा ओष॑धीना-म॒श्नन्ति॑ । अथ॒ वाचं॒-विँसृ॑जन्ते । दे॒ववी॑तये त्वा गृह्णा॒मीत्या॑ह ॥ 41 ॥
अद्रि॑रसि वानस्प॒त्य इत्या॑ह । ग्रावा॑ण-मे॒वैन॑-त्करोति ।
स इ॒द-न्दे॒वेभ्यो॑ ह॒व्यग्ं सु॒शमि॑ शमि॒ष्वेत्या॑ह॒ शान्त्यै᳚ ॥ हवि॑ष्कृ॒देहीत्या॑ह ।
य ए॒व दे॒वानाग्ं॑ हवि॒ष्कृतः॑ । तान्. ह्व॑यति ।
त्रिर्ह्व॑यति । त्रिष॑त्या॒ हि दे॒वाः ॥ इष॒मा व॒दोर्ज॒मा व॒देत्या॑ह ॥ 42 ॥
द्यु॒मद्व॑दत व॒यग्ं स॑घा॒न्त-ञ्जे॒ष्मेत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै ॥ मनो᳚-श्श्र॒द्धादे॑वस्य॒ यज॑मानस्यासुर॒घ्नी वाक् । य॒ज्ञा॒यु॒धेषु॒ प्रवि॑ष्टा-ऽऽसीत् । ते-ऽसु॑रा॒ याव॑न्तो यज्ञायु॒धाना॑मु॒द्वद॑ता-मु॒पाशृ॑ण्वन्न् ।
ते परा॑-ऽभवन्न् । तस्मा॒-थ्स्वाना॒-म्मद्ध्ये॑-ऽव॒साय॑ यजेत । याव॑न्तो-ऽस्य॒ भ्रातृ॑व्या यज्ञायु॒धाना॑-मु॒द्वद॑ता-मुपशृ॒ण्वन्ति॑ । ते परा॑ भवन्ति ।
उ॒च्चै-स्स॒माह॑न्त॒वा आ॑ह॒ विजि॑त्यै ॥ 43 ॥
व॒र्॒षवृ॑द्धा॒ वा ओष॑धयः ।
व॒र्॒षवृ॑द्धा इ॒षीका॒-स्समृ॑द्ध्यै ।
य॒ज्ञग्ं रक्षा॒ग्॒स्यनु॒ प्रावि॑शन्न् ।
तान्य॒स्ना प॒शुभ्यो॑ नि॒रवा॑दयन्त ।
तुषै॒रोष॑धीभ्यः ॥ परा॑पूत॒ग्ं॒ रक्षः॒ परा॑पूता॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ॥ 44 ॥
ह॒विषो-ऽस्क॑न्दाय । त्रिष्फ॒लीक॑र्त॒वा आ॑ह । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेद्ध्य॒त्वाय॑ ॥ 45 ॥
अनुवाकं 6 - तण्डुलपेषणम्
अव॑धूत॒ग्ं॒ रक्षो-ऽव॑धूता॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अदि॑त्या॒स्त्वग॒सीत्या॑ह । इ॒यं-वाँ अदि॑तिः । अ॒स्या ए॒वैन॒-त्त्वच॑-ङ्करोति । प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै ।
पु॒रस्ता᳚-त्प्रती॒चीन॑ग्रीव॒-मुत्त॑रलो॒मोप॑स्तृणाति मेद्ध्य॒त्वाय॑ । तस्मा᳚-त्पु॒रस्ता᳚-त्प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते । तस्मा᳚-त्प्र॒जा मृ॒ग-ङ्ग्राहु॑काः । य॒ज्ञो दे॒वेभ्यो॒ निला॑यत ॥ 46 ॥
द्यावा॑पृथि॒व्यो-र्वीत्यै᳚ । धि॒षणा॑-ऽसि पर्व॒त्या
प्रति॑ त्वा दि॒व-स्स्क॑म्भ॒निर्वे॒त्त्वित्या॑ह ।
द्यावा॑पृथि॒व्यो-र्विधृ॑त्यै ॥ 47 ॥
अधि॑वपा॒मीत्या॑ह । य॒था॒दे॒व॒त-मे॒वैना॒नधि॑ वपति ॥ धा॒न्य॑मसि धिनु॒हि दे॒वानित्या॑ह । ए॒तस्य॒ यजु॑षो वी॒र्ये॑ण ॥ 48 ॥
अ॒न्तरि॑क्षादिव॒ वा ए॒तानि॒ प्रस्क॑न्दन्ति । यानि॑ दृ॒षदः॑ । दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषो-ऽस्क॑न्दाय ॥
असं॑वँपन्ती पिग्ंषा॒णूनि॑ कुरुता॒दित्या॑ह मेद्ध्य॒त्वाय॑ ॥ 49 ॥
अनुवाकं 7 - कपालोपधानम्
धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छेत्या॑ह॒ धृत्यै᳚ ॥
अपा᳚ग्ने॒ ऽग्निमा॒माद॑-ञ्जहि॒ निष्क्र॒व्यादग्ं॑
से॒धा दे॑व॒यजं॑-वँ॒हेत्या॑ह ।
य ए॒वामात्क्र॒व्यात् । तम॑प॒हत्य॑ । मेद्ध्ये॒-ऽग्नौ क॒पाल॒मुप॑दधाति ॥ निर्द॑ग्ध॒ग्ं॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तय॒ इत्या॑ह । रक्षाग्॑स्ये॒व
निर्द॑हति । अ॒ग्नि॒वत्युप॑दधाति । अ॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्ते । अङ्गा॑र॒मधि॑-वर्तयति ॥ 50 ॥
आ॒दि॒त्यमे॒वामुष्मि॑न् ँलो॒के ज्योति॑र्धत्ते ।
ज्योति॑ष्मन्तो-ऽस्मा इ॒मे लो॒का भ॑वन्ति ।
य ए॒वं-वेँद॑ ॥ ध्रु॒वम॑सि पृथि॒वी-न्दृ॒ग्ं॒हेत्या॑ह । पृ॒थि॒वीमे॒वैतेन॑ दृग्ंहति ।
ध॒र्त्रम॑स्य॒न्तरि॑क्ष-न्दृ॒ग्ं॒हेत्या॑ह । अ॒न्तरि॑क्षमे॒वैतेन॑ दृग्ंहति ।
ध॒रुण॑मसि॒ दिव॑-न्दृ॒ग्ं॒हेत्या॑ह । दिव॑मे॒वैतेन॑ दृग्ंहति ॥ 51 ॥
दिश॑ ए॒वैतेन॑ दृग्ंहति । इ॒माने॒वैतै-र्लो॒का-न्दृग्ं॑हति । दृग्ं ह॑न्ते-ऽस्मा इ॒मे लो॒काः प्र॒जया॑ प॒शुभिः॑ । य ए॒वं-वेँद॑ ॥ त्रीण्यग्रे॑ क॒पाला॒न्युप॑दधाति । त्रय॑ इ॒मे लो॒काः ।
ए॒षां-लोँ॒काना॒माप्त्यै᳚ ।
एक॒मग्रे॑ क॒पाल॒मुप॑दधाति ।
एकं॒-वाँ अग्रे॑ क॒पाल॒-म्पुरु॑षस्य स॒भंवँ॑ति ॥ 52 ॥
तस्मा॑द॒ष्टाक॑पाल॒-म्पुरु॑षस्य॒ शिरः॑ ।
यदे॒व-ङ्क॒पाला᳚न्युप॒ दधा॑ति । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञमे॒व प्र॒जाप॑ति॒ग्ं॒ सग्ग्स्क॑रोति ।
आ॒त्मान॑मे॒व त-थ्सग्ग्स्क॑रोति । तग्ं सग्ग्स्कृ॑तमा॒त्मान᳚म् ॥ 53 ॥
चित॒-स्स्थेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् ॥
भृगू॑णा॒मङ्गि॑रसा॒-न्तप॑सा तप्यद्ध्व॒मित्या॑ह ।
दे॒वता॑ना-मे॒वैना॑नि॒ तप॑सा तपति । तानि॒ तत॒-स्सग्ग्स्थि॑ते । यानि॑ घ॒र्मे क॒पाला᳚न् युपचि॒न्वन्ति॑ वे॒धस॒ इति॒ चतु॑ष्पदय॒र्चा विमु॑ञ्चति । चतु॑ष्पादः प॒शवः॑ । प॒शुष्वे॒वोपरि॑ष्टा॒-त्प्रति॑तिष्ठति ॥ 55 ॥
अनुवाकं 8 - पुरोडाशानिष्पादनम्
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै । अ॒श्विनो᳚-र्बा॒हुभ्या॒मित्या॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् ।
पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ ।
संवँ॑पा॒मीत्या॑ह । य॒था॒ दे॒व॒तमे॒वैना॑नि॒ संवँ॑पति ॥ समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॒नेत्या॑ह । आपो॒ वा ओष॑धी-र्जिन्वन्ति । ओष॑धयो॒-ऽपो जि॑न्वन्ति ।
अ॒न्या वा ए॒तासा॑म॒न्या जि॑न्वन्ति ॥ 56 ॥
आपो॒ वै रे॒वतीः᳚ । प॒शवो॒ जग॑तीः । ओष॑धयो॒ मधु॑मतीः । आप॒ ओष॑धीः प॒शून् । ताने॒वास्मा॑ एक॒धा स॒ग्ं॒सृज्य॑ । मधु॑मतः करोति ।
अ॒द्भ्यः परि॒ प्रजा॑ता-स्स्थ॒ सम॒द्भिः पृ॑च्यद्ध्व॒मिति॑ प॒र्याप्ला॑वयति ।
यथा॒ सुवृ॑ष्ट इ॒माम॑नु वि॒सृत्य॑ ॥ 57 ॥
जन॑यत्यै त्वा॒ संयौँ॒मीत्या॑ह । प्र॒जा ए॒वैतेन॑ दाधार । अ॒ग्नये᳚ त्वा॒-ऽग्नीषोमा᳚भ्या॒मित्या॑ह॒ व्यावृ॑त्त्यै । म॒खस्य॒ शिरो॒-ऽसीत्या॑ह ।
य॒ज्ञो वै म॒खः । तस्यै॒तच्छिरः॑ । य-त्पु॑रो॒डाशः॑ । तस्मा॑दे॒वमा॑ह ॥ 58 ॥
सर्व॑मे॒वैन॒ग्ं॒ सत॑नु-ङ्करोति । अथा॒प आ॒नीय॒ परि॑ मार्ष्टि । मा॒ग्ं॒स ए॒व त-त्त्वच॑-न्दधाति । तस्मा᳚-त्त्व॒चा मा॒ग्ं॒स-ञ्छ॒न्नम् ॥
घ॒र्मो वा ए॒षो-ऽशा᳚न्तः ॥ 59 ॥
त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॒ रक्ष॑सा॒मप॑हत्यै ॥
अ॒न्तरि॑त॒ग्ं॒ रक्षो॒-ऽन्तरि॑ता॒ अरा॑तय॒ इत्या॑ह ॥ 60 ॥
दि॒वि नाको॒ नामा॒ग्नी र॑क्षो॒हा । स ए॒वास्मा॒-द्रक्षा॒ग्॒स्यपा॑हन्न् । दे॒वस्त्वा॑ सवि॒ता श्र॑पय॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैनग्ग्॑ श्रपयति । वर्षि॑ष्ठे॒ अधि॒ नाक॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अ॒ग्निस्ते॑ त॒नुव॒-म्मा-ऽति॑ धा॒गित्या॒हान॑तिदाहाय । अग्ने॑ ह॒व्यग्ं र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै᳚ ॥ 61 ॥
य॒ज्ञमे॒व ह॒वीग्ष्य॑भि-व्या॒हृत्य॒ प्रत॑नुते ।
पु॒रो॒रुच॒मवि॑दाहाय॒ शृत्यै॑ करोति ॥ म॒स्तिष्को॒ वै पु॑रो॒डाशः॑ । तं-यँन्नाभि॑वा॒सये᳚त् । आ॒विर्म॒स्तिष्कः॑ स्यात् । अ॒भिवा॑सयति ।
तस्मा॒-द्गुहा॑ म॒स्तिष्कः॑ । भस्म॑ना॒-ऽभि वा॑सयति ।
तस्मा᳚-न्मा॒ग्ं॒सेनास्थि॑ छ॒न्नम् ॥ 62 ॥
अख॑लतिभावुको भवति । य ए॒वं-वेँद॑ ॥ प॒शोर्वै प्र॑ति॒मा पु॑रो॒डाशः॑ । स नाय॒जुष्क॑-मभि॒वास्यः॑ । वृथे॑व स्यात् । ई॒श्व॒रा यज॑मानस्य प॒शवः॒ प्रमे॑तोः ॥ स-म्ब्रह्म॑णा पृच्य॒स्वेत्या॑ह । प्रा॒णा वै ब्रह्म॑ ॥ 63 ॥
सम्पृ॑णक्ति । न प्र॒मायु॑का भवन्ति । यज॑मानो॒ वै पु॑रो॒डाशः॑ । प्र॒जा प॒शवः॒ पुरी॑षम् ।
यदे॒वम॑भि वा॒सय॑ति । यज॑मानमे॒व प्र॒जया॑ प॒शुभि॒-स्सम॑र्धयति ॥ दे॒वा वै ह॒वि-र्भृ॒त्वा-ऽब्रु॑वन्न् । कस्मि॑न्नि॒द-म्म्र॑क्ष्यामह॒ इति॑ ।
सो᳚-ऽग्निर॑ब्रवीत् ॥ 64 ॥
अ॒ग्नि-स्सर्वा॑ दे॒वता॒ इति॑ । सो-ऽङ्गा॑रेणा॒पः ।
अ॒भ्य॑पातयत् । तत॑ एक॒तो॑-ऽजायत ।
स द्वि॒तीय॑म॒भ्य॑पातयत् ॥ 65 ॥
तत॑-स्त्रि॒तो॑-ऽजायत । यद॒द्भ्यो-ऽजा॑यन्त । तदा॒प्याना॑माप्य॒त्वम् । यदा॒त्मभ्यो ऽजा॑यन्त ।
तदा॒त्म्याना॑-मात्म्य॒त्वम् ॥ ते दे॒वा आ॒प्येष्व॑मृजत । आ॒प्या अ॑मृजत॒ सूर्या᳚भ्युदिते । सूर्या᳚भ्युदित॒-स्सूर्या॑भिनिम्रुक्ते ॥ 66 ॥
तद्ब्र॑ह्म॒हण॒-न्नात्य॑च्यवत । अ॒न्त॒र्वे॒दि निन॑य॒त्यव॑रुद्ध्यै । उल्मु॑केना॒भि गृ॑ह्णाति शृत॒त्वाय॑ । शृ॒तका॑मा इव॒ हि दे॒वाः ॥ 67 ॥
अनुवाकं 9 - वेदिकरणम्
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ स्फ्यमाद॑त्ते॒ प्रसू᳚त्यै । अ॒श्विनो᳚-र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ ॥ आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । स॒हस्र॑भृष्टि-श्श॒तते॑जा॒ इत्या॑ह ।
रू॒पमे॒वास्यै॒त-न्म॑हि॒मानं॒-व्याँच॑ष्टे ॥
वा॒युर॑सि ति॒ग्मते॑जा॒ इत्या॑ह । तेजो॒ वै वा॒युः ॥ 68 ॥
पृथि॑वि देवयज॒नीत्या॑ह ॥ 69 ॥
ओष॑द्ध्यास्ते॒ मूल॒-म्मा हिग्ं॑सिष॒मित्या॑ह । ओष॑धीना॒-महिग्ं॑सायै ॥ व्र॒ज-ङ्ग॑च्छ गो॒स्थान॒मित्या॑ह । छन्दाग्ं॑सि॒ वै व्र॒जो गो॒स्थानः॑ । छन्दाग्॑स्ये॒वास्मै᳚ व्र॒ज-ङ्गो॒स्थान॑-ङ्करोति ॥ वर्ष॑तु ते॒ द्यौरित्या॑ह ।
वृष्टि॒र्वै द्यौः । वृष्टि॑मे॒वाव॑रुन्धे ॥
ब॒धा॒न दे॑व सवितः पर॒मस्या᳚-म्परा॒वतीत्या॑ह ॥ 70 ॥
अ॒ररु॒र्वै नामा॑सु॒र आ॑सीत् ।
स पृ॑थि॒व्यामुप॑म्लुप्तो-ऽशयत् ।
त-न्दे॒वा अप॑हतो॒-ऽररुः॑ पृथि॒व्या इति॑ पृथि॒व्या अपा᳚घ्नन्न् । भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अप॑हतो॒-ऽररुः॑ पृथि॒व्या इति॒ यदाह॑ ॥ 71 ॥
दिवं॒-वाँ अ॒यमि॒तः प॑तिष्य॒तीति॑ ।
तम॒ररु॑स्ते॒ दिव॒-म्मा स्का॒निति॑ दि॒वः पर्य॑बाधन्त । भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अ॒ररु॑स्ते॒ दिव॒-म्मा स्का॒निति॒ यदाह॑ । भ्रातृ॑व्यमे॒व दि॒वः परि॑बाधते ।
स्त॒म्ब॒ य॒जुर्-ह॑रति । पृ॒थि॒व्या ए॒व भ्रातृ॑व्य॒-मप॑हन्ति । द्वि॒तीयग्ं॑ हरति ॥ 72 ॥
ताव॑-द्दे॒वाना᳚म् । ते दे॒वा अ॑ब्रुवन्न् ।
अस्त्वे॒व नो॒-ऽस्यामपीति॑ ॥ 73 ॥
ते वस॑व॒स्त्वेति॑ दक्षिण॒तः पर्य॑गृह्णन्न् । रु॒द्रास्त्वेति॑ प॒श्चात् । आ॒दि॒त्या-स्त्वेत्यु॑त्तर॒तः । ते᳚-ऽग्निना॒ प्राञ्चो॑-ऽजयन्न् । वसु॑भि-र्दक्षि॒णा ।
रु॒द्रैः प्र॒त्यञ्चः॑ । आ॒दि॒त्यैरुद॑ञ्चः ।
यस्यै॒वं-विँ॒दुषो॒ वेदि॑-म्परि गृ॒ह्णन्ति॑ ॥ 74 ॥
दे॒वस्य॑ सवि॒तु-स्स॒व इत्या॑ह॒ प्रसू᳚त्यै ।
कर्म॑ कृण्वन्ति वे॒धस॒ इत्या॑ह । इ॒षि॒तग्ं हि कर्म॑ क्रि॒यते᳚ । पृ॒थि॒व्यै मेद्ध्य॑-ञ्चामे॒द्ध्य-ञ्च॒ व्युद॑क्रामताम् । प्रा॒चीन॑-मुदी॒चीन॒-म्मेद्ध्य᳚म् । प्र॒ती॒चीन॑-न्दक्षि॒णा ऽमे॒द्ध्यम् ।
प्राची॒मुदी॑ची-म्प्रव॒णा-ङ्क॑रोति ।
मेद्ध्या॑मे॒वैना᳚-न्देव॒यज॑नी-ङ्करोति ॥ 75 ॥
तस्मा॒दोष॑धयः॒ परा॑भवन्ति ॥ 76 ॥
मूलं॒-वाँ अ॑ति॒तिष्ठ॒-द्रक्षा॒ग्॒स्यनू-त्पि॑पते । यद्धस्ते॑न छि॒न्द्यात् । कु॒न॒खिनीः᳚ प्र॒जा-स्स्युः॑ । स्फ्येन॑ छिनत्ति । वज्रो॒ वै स्फ्यः ।
वज्रे॑णै॒व य॒ज्ञा-द्रक्षा॒ग्॒स्यप॑हन्ति । पि॒तृ॒दे॒व॒त्या ऽति॑खाता । इय॑ती-ङ्खनति ॥ 77 ॥
च॒तु॒र॒ङ्गु॒ल-ङ्ख॑नति । च॒तु॒र॒ङ्गु॒ले ह्योष॑धयः प्रति॒तिष्ठ॑न्ति ।
आप्र॑ति॒ष्ठायै॑ खनति । यज॑मानमे॒व प्र॑ति॒ष्ठा-ङ्ग॑मयति । द॒क्षि॒ण॒तो वर्षी॑यसी-ङ्करोति ।
दे॒व॒यज॑नस्यै॒व रू॒पम॑कः ॥ 78 ॥
प्र॒जयै॒वैन॑-म्प॒शुभिः॒ पुरी॑षवन्त-ङ्करोति । उत्त॑र-म्परिग्रा॒ह-म्परि॑गृह्णाति । ए॒ताव॑ती॒ वै पृ॑थि॒वी । याव॑ती॒ वेदिः॑ । तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्य-न्नि॒र्भज्य॑ । आ॒त्मन॒ उत्त॑र-म्परिग्रा॒ह-म्परि॑गृह्णाति ।
ऋ॒त-म॑स्यृत॒सद॑न-मस्यृत॒श्रीर॒सीत्या॑ह । य॒था॒ य॒जुरे॒वै तत् ॥ 79 ॥
धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै᳚ ।
उ॒र्वी चासि॒ वस्वी॑ चा॒सीत्या॑ह ।
उ॒र्वीमे॒वैनां॒-वँस्वी᳚-ङ्करोति ।
पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शि॒न्नित्या॑ह मेद्ध्य॒त्वाय॑ । उ॒दा॒दाय॑ पृथि॒वी-ञ्जी॒रदा॑नु॒र्यामैर॑य-ञ्च॒न्द्रम॑सि स्व॒धाभि॒रित्या॑ह ।
यदे॒वास्या॑ अमे॒द्ध्यम् । तद॑प॒हत्य॑ ।
मेद्ध्या᳚-न्देव॒यज॑नी-ङ्कृ॒त्वा ॥ 80 ॥
ता-न्धीरा॑सो अनु॒दृश्य॑ यजन्त॒ इत्या॒हानु॑ख्यात्यै ॥ प्रोक्ष॑णी॒रासा॑दय । इ॒द्ध्माब॒र्॒हि-रुप॑सादय । स्रु॒व-ञ्च॒ स्रुच॑श्च॒ सम्मृ॑ड्ढि । पत्नी॒ग्ं॒ सन्न॑ह्य । आज्ये॑नो॒देहीत्या॑हानुपू॒र्वता॑यै । प्रोक्ष॑णी॒रासा॑दयति । आपो॒ वै र॑क्षो॒घ्नीः ॥ 81 ॥
याव॑तीः॒ प्रोक्ष॑णी॒रिति॑ । तस्मा᳚-द्ब॒ह्वीरा॒साद्याः᳚ । स्फ्यमु॒दस्यन्न्॑ । य-न्द्वि॒ष्यात्त-न्ध्या॑येत् । शु॒चैवैन॑-मर्पयति ॥ 82 ॥
अनुवाकं 10 - इध्माबर्हि-स्सादनम्
वज्रो॒ वै स्फ्यः । यद॒न्वञ्च॑-न्धा॒रये᳚त् । वज्रे᳚-ऽद्ध्व॒र्युः, क्ष॑ण्वीत । पु॒रस्ता᳚-त्ति॒र्यञ्च॑-न्धारयति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षा॒ग्॒स्यप॑हन्ति ।
अ॒ग्निभ्या॒-म्प्राच॑श्च प्र॒तीच॑श्च । स्फ्येनोदी॑चश्चा-ध॒राच॑श्च । स्फ्येन॒ वा ए॒ष वज्रे॑णा॒स्यै पा॒प्मान॒-म्भ्रातृ॑व्य-मप॒हत्य॑ ।
उ॒त्क॒रे-ऽधि॒ प्रवृ॑श्चति ॥ 83 ॥
अथो॑ पुरो॒रुच॑मे॒वैता-न्द॑धाति ।
उत्त॑रस्य॒ कर्म॒णो-ऽनु॑ख्यात्यै ।
न पु॒रस्ता᳚-त्प्र॒त्यगुप॑सादयेत् ॥ 84 ॥
अ॒न्यत्रा॑हुतिप॒थादि॒द्ध्म-म्प्रति॑पादयेत् । प्र॒जा वै ब॒र्॒हिः । अप॑राद्ध्नुया-द्ब॒र्॒हिषा᳚ प्र॒जाना᳚-म्प्र॒जन॑नम् । प॒श्चात्-प्रागुप॑सादयति । आ॒हु॒ति॒प॒थेने॒द्ध्म-म्प्रति॑पादयति ।
स॒प्र॒न्त्ये॑व ब॒र्॒हिषा᳚ प्र॒जाना᳚-म्प्र॒जन॑न॒मुपै॑ति । दक्षि॑णमि॒द्ध्मम् ।
उत्त॑र-म्ब॒र॒ःइः । आ॒त्मा वा इ॒द्ध्मः ।
प्र॒जा ब॒र्॒हिः । प्र॒जा ह्या᳚त्मन॒ उत्त॑रतरा ती॒र्थे ।
ततो॒ मेध॑मुप॒नीय॑ । य॒था॒ दे॒व॒तमे॒वैन॒त्-प्रति॑ष्ठापयति । प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒-र्यज॑मानः ॥ 85 ॥
(वृ॒श्च॒ति॒ - सा॒द॒ये॒ - दि॒द्ध्मः पञ्च॑ च) (अ. 10)
(तृतीय॑स्यां - दे॒वस्या᳚श्वप॒र्॒शुं-योँ वै - पू᳚र्वे॒द्युः - कर्म॑णे वा॒ - मिन्द्रो॑ वृ॒त्रम॑ह॒न्-थ्सो॑-ऽपो - ऽव॑धूतं॒ - धृष्टि॑--र् दे॒वस्येत्या॑ह॒ संवँ॑पामि - दे॒वस्य॒ स्फ्यमाद॑दे॒ - वज्रो॒ वै स्फ्यो दश॑)
(तृ॒तीय॑स्यां - ँय॒ज्ञस्यान॑तिरेकाय - प॒वित्र॑वत्य - ध्व॒र्यु-ञ्चा॑ - धि॒षव॑णमस्य॒ - न्तरि॑क्ष ए॒व - रक्ष॑साम॒न्तर्हि॑त्यै॒ - द्वौ वाव पुरु॑षो॒ - यद॒दश्च॒न्द्रम॑सि॒ मेद्ध्य॒-म्पञ्चाशी॑तिः)
(तृ॒तीय॑स्यां॒ - ँयज॑मानः)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके द्वितीयः प्रपाठक-स्समाप्तः ॥
