शरीरशुद्धिः
आचमनम्
भूतोच्चाटनम्
आसन संस्कारम्
प्राणायामम्
सङ्कल्पम् (देशकाल सङ्कीर्तन)
मार्जनम्
ॐ आपो॒ हिष्ठा म॑यो॒भुवः॑ ।
मन्त्राचमनम्
ॐ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑ कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्रिया पाप॑मका॒र्षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना । रात्रि॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒त-म्मयि॑ । इदमह-म्माममृ॑त यो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ।
(मध्याह्न काले)
ॐ आपः॑ पुनन्तु पृथि॒वी-म्पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् ।
(साय-ङ्काले)
ॐ अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑ कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यदह्ना पाप॑मका॒र्षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना । अह॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒त-म्मयि॑ । इ॒दम॒ह-म्माममृ॑त यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।
आचम्य ॥
पुनर्मार्जनम्
ॐ आपो॒ हिष्ठा म॑यो॒भुवः॑ ।
ॐ श-न्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।
पापपुरुष विसर्जनम्
ॐ ऋ॒त-ञ्च॑ स॒त्य-ञ्चा॒भी॑द्धा॒त्तप॒सो-ऽध्य॑जायत ।
आचम्य ॥
प्राणायामम् ॥
अर्घ्यप्रदानम्
(प्रातः काले)
ओ-म्भूर्भुव॒-स्स्वः॑ । तत्स॑वि॒तुर्वरे॑ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
[ प्रात-स्सन्ध्याङ्ग मुख्यकालातिक्रमण दोषपरिहारार्थ-म्प्रायश्चित्तर्घ्य प्रदान-ङ्करिष्ये ।
(मध्याह्न काले)
ॐ हं॒सश्शु॑चि॒षद्वसु॑रन्तरिक्ष॒ सद्धो॑ तावेदि॒षदति॑थिर्दुरोण॒ सत् । नृ॒षद्व॑र॒ सदृ॑त॒ सद्व्यो॑म॒ सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒त-म्बृ॒हत् । इति प्रथमार्घ्यम् ॥
आकृष्णेनेत्यस्य मन्त्रस्य । हिरण्य स्तूप ऋषिः । सविता देवता । त्रिष्टुप्छन्दः । माध्याह्निक सन्ध्यार्घ्य प्रदाने विनियोगः ॥
ॐ आकृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृत॒-म्मर्त्य॑ञ्च ।
तत्सवितुरित्यस्य मन्त्रस्य । विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः । माध्याह्निक सन्ध्यार्घ्यप्रदाने विनियोगः ॥
ओ-म्भूर्भुव॒-स्स्वः॑ । तत्स॑वि॒तुर्वरे॑ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
[ माध्याह्निक सन्ध्याङ्ग मुख्यकालातिक्रमण दोषपरिहारार्थ-म्प्रायश्चित्तर्घ्य प्रदान-ङ्करिष्ये ।
(साय-ङ्काले)
ओ-म्भूर्भुव॒-स्स्वः॑ । तत्स॑वि॒तुर्वरे॑ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
[ सायं सन्ध्याङ्ग मुख्यकालातिक्रमण दोषपरिहारार्थ-म्प्रायश्चित्तर्घ्य प्रदान-ङ्करिष्ये ।
आत्मप्रदक्षिण
आचम्य ॥
प्राणायामम् ॥
[ तर्पणं –
गायत्री आवाहनम्
गायत्रीमावा॑हया॒मि॒ ।
गायत्र्या गायत्री छन्दो विश्वामित्र ऋषि-स्सविता देवता अग्निर्मुख-म्ब्रह्मा शिरो विष्णुर् हृदयं रुद्र-श्शिखा पृथिवी योनिः प्राणापानव्यानोदान समाना स प्राणा श्वेतवर्णा साङ्ख्यायन सगोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा॑ षट्कु॒क्षिः॒ पञ्चशीर्षोपनयने वि॑नियो॒गः ॥
पूर्वोक्त एव-ङ्गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण प्रीत्यर्थ-म्प्रातः/माध्याह्निक/सायं सन्ध्याङ्ग यथाशक्ति गायत्री महामन्त्रजप-ङ्करिष्ये ॥
करन्यासम्
अङ्गन्यासम्
ध्यानम्
ध्येयस्सदा सवितृमण्डलमध्यवर्ती
[मुद्राप्रदर्शनम्
गायत्री मन्त्रम्
करन्यासम्
अङ्गन्यासम्
[उत्तरमुद्रा प्रदर्शनम्
सूर्योपस्थानम्
त्र्यम्बकमिति मन्त्रस्य । मैत्रा वरुणिर्वसिष्ठ ऋषिः । रुद्रो देवता । अनुष्टु-प्छन्दः । उपस्थाने विनियोगः ।
[तच्छंयोँरित्यस्य मन्त्रस्य । शम्युर ऋषिः । विश्वेदेवाः देवता । शक्वरी छन्दः । शान्त्यर्थे उपस्थाने विनियोगः ।
नमो ब्रह्मणे इत्यस्य मन्त्रस्य प्रजापति ऋषिः विश्वेदेवाः देवता । जगती-श्छन्दः प्रदक्षिणे विनियोगः ।
दिग्देवता नमस्कारः
ऋषि देवतादि नमस्कारः
ॐ सन्ध्या॑यै नमः । सावि॑त्र्यै नमः । गाय॑त्र्यै नमः । सर॑स्वत्यै नमः । सर्वा᳚भ्यो दे॒वता᳚भ्यो॒ नमः । दे॒वेभ्यो॒ नमः । ऋषि॑भ्यो॒ नमः । मुनि॑भ्यो॒ नमः । गुरु॑भ्यो॒ नमः । मातृ॑भ्यो॒ नमः । पितृ॑भ्यो॒ नमः । कामो-ऽकारिषी᳚न्नमो॒ नमः । मन्युरकारिषी᳚न्नमो॒ नमः ।
यां॒ सदा॑ सर्व॑भूता॒नि॒ च॒रा॑णि स्था॒वरा॑णि च ।
देवता स्मरणम्
गायत्री प्रस्थान प्रार्थना
स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने᳚ द्विजा॒ता ।
नारायण नमस्कृति
भूम्याकाशाभिवन्दनम्
आकाशात्पतित-न्तोयं-यँथा गच्छति सागरम् ।
सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
अभिवादनम्
आचम्य ॥
समर्पणम्
अनेन प्रातः/माध्याह्निक/सायं सन्ध्यावन्दनेन भगवान् सर्वात्मक-श्श्री लक्ष्मीनारायणः प्रीयताम् । सुप्रीतो वरदो भवतु ।
आब्रह्मलोकादाशेषादालोकालोक पर्वतात् ।
सर्वं श्रीमन्नारायणार्पणमस्तु ॥
