Puja

कलश पूजा श्लोक

(Shodashopachara Puja — the Slokas of the Sixteen Offerings)

Also known as shodashopachara · shodashopachara puja · puja slokas

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

कलश पूजा श्लोक — Kalasha Puja

कला कला हि देवानां दानवानां कला कला । संगृह्य निर्मितो यस्मात्कलशस्तेन कथ्यते ॥१॥
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥२॥
कुक्षौ तु सागराः सप्त सप्तद्वीपा च मेदिनी । अर्जुनी गोमती चैव चन्द्रभागा सरस्वती ॥३॥
कावेरी कृष्णः वेणा च गङ्गा चैव महानदी । तापी गोदावरी चैव माहेन्द्री नर्मदा तथा ॥४॥
नदाश्च विविधा जाता नद्यः सर्वास्तथापराः । पृथिव्यां यानि तीर्थानि कलशस्थानि तानि वै ॥५॥
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः ॥६॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः । अङ्गैश्च सहिताः सर्वे कलशाम्बुं समाश्रिताः ॥७॥
अत्र गायत्री सवित्री शान्तिः पुष्टिकरी तथा । आयान्तु देवपूजार्थं दुरितक्षयकारकाः ॥८॥

शङ्ख पूजा श्लोक — Shankha Puja

शङ्खं चन्द्रार्क दैवत्यं मध्ये वरुण दैवतम् । पृष्ठे प्रजापति विद्यात् अग्रे गङ्गा सरस्वती ॥
त्वं पुरा सागरोत्पन्नः विष्णुना विधृतः करे । पूजितः सर्व देवैश्च पाञ्चजन्य नमोऽस्तु ते ॥
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य च आज्ञया । शङ्खे तिष्ठन्ति विप्रेन्द्र तस्माच्छङ्खं प्रपूजयेत् ॥
पाञ्चजन्याय विद्महे पवमानाय धीमहि । तन्नः शङ्खः प्रचोदयात् ॥

आसनं श्लोक — Asanam

विचित्ररत्नखचितं दिव्यास्तरणसंयुतम् ॥ स्वर्णसिंहासनं चारु गृह्णीष्व सुरपूजित ॥

पाद्यं श्लोक — Padyam

सर्वतीर्थसमुद्भूतं पाद्यं गन्धादिभिर्युतम् । विघ्नराज गृहाणेदं भगवान् भक्तवत्सल ॥

अर्घ्यं श्लोक — Arghyam

गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणाकर । अर्घ्यञ्च फलसंयुक्तं गन्धमाल्याक्षतैर्युतम् ॥

आचमनीयं श्लोक — Achamaniyam

विनायकं नमस्तुभ्यं त्रिदशैरभिवन्दित । गङ्गोदकेन देवेश कुरुष्वाचमनं प्रभो ॥

मधुपर्कं श्लोक — Madhuparkam

दध्याज्यमधु संयुक्तं मधुपर्कं मयाऽऽहृतम् । गृहाण सर्वलोकेश गजवक्त्र नमोऽस्तु ते ॥

वस्त्रं श्लोक — Vastram

शीतवातोष्णसन्त्राणं लज्जाया रक्षणं परम् । देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥

पुष्पाञ्जलि श्लोक — Pushpanjali

नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च । पुष्पाञ्जलिर्मयादत्त गृहाण परमेश्वर ॥

नैवेद्यं श्लोक — Naivedyam

नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु । ईप्सितं मे वरं देहि परत्र च परां गतिम् ॥ शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च । आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥

ताम्बूलं श्लोक — Tambulam

पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

नीऱाजनं श्लोक — Neerajanam

कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् । आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥

Explore More