धूर्तेतरसकृदुपनतसर्वेप्सितपूर्तेः॥
जीवास्तव दृष्टस्मृतवन्दितपदनलिनाः।
ते साञ्जलिना दूरान्नमिताः खलु कलिना
कालेनापि कवलिताखिलजगता बलिना॥१॥
वैकुण्ठीकृतमिह नो रमयति कं धीरं।
जडमपि कुरुषे सुपटुं वाचि यथा कीरं
शिरसि बिभर्षि घृतं ते येन चरणनीरम्॥२॥
प्रेमाश्रुप्लुतनयना भृशविस्मृतकृत्याः।
व्यक्तं मङ्ख भवन्ति प्रमुदादृतकृत्या
मुक्तिर्वृणुते तानुरुगाय! मनोवृत्त्या॥३॥
