त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम् ॥ १ ॥
अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् ॥ २ ॥
त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया ॥ ३ ॥
स्वशाखाविहितैर्मन्त्रैरर्चन्त्यृषिगणार्चितम् ॥ ४ ॥
सिद्धचारणगन्धर्वा यक्षगुह्यकपन्नगाः ॥ ५ ॥
सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वा सिद्धिमागताः ॥ ६ ॥
न तद्भूतमहं मन्ये यदर्कादतिरिच्यते ॥ १० ॥
त्वयि सत्यं च सत्त्वं च सर्वेभावाश्च सात्त्विकाः ॥ १२ ॥
सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि ॥ १४ ॥
विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः ॥ १५ ॥
शीतवातार्दितं लोकं यथा तव मरीचयः ॥ १६ ॥
न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः ॥ १८ ॥
तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः ॥ २० ॥
संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते ॥ २२ ॥
त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्म शाश्वतम् ॥ २५ ॥
विवस्वान् मिहिरः पूषा मित्रो धर्मस्तथैव च ॥ २६ ॥
मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा ॥ २७ ॥
अनिर्विण्णोऽनहङ्कारी तं लक्ष्मीर्भजते नरम् ॥ २९ ॥
ये तवानन्यमनसः कुर्वन्त्यर्चनवन्दनम् ॥ ३० ॥
त्वद्भावभक्याः सुखिनो भवन्ति चिरजीविनः ॥ ३१ ॥
अन्नमन्नपते दातुमभितः श्रद्धयाऽर्हसि ॥ ३२ ॥
