Lord Ganesha

उच्छिष्ट गणपति स्तोत्रम्

(Ucchista Ganapati Stotram)

Also known as ucchista ganapati stotra · ucchista ganapati · atha ucchista ganapati stotram

From the Rudrayamala Tantra, a conversation of Hara and Gauri, with Kankola named as its seer. Ucchishta Ganapati is one of the thirty-two forms and belongs to the left-hand tradition, and the hymn does not conceal it — the second verse sets a pair of women with chamaras beside him and the fifteenth is frankly in the erotic register. What surprises is that the body of the text is domestic and tender. He sprinkles a devotee burning in the forest fire of becoming with the water running from his own temples. He sees the moon on Shiva's crest, thinks of his own broken tusk, and draws the moon down. He wants to play with Bhagirathi in his father's matted hair and his mother stops him. He beats Kumara at a game, lifts him in his trunk and dances. He brushes the bees off his ichor with his ears.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

Reading depth
Lyrics
अथ उच्छिष्ट गणपति स्तोत्रम्
॥ विनियोगः ॥
ॐ अस्य श्रीउच्छिष्टगणपतिस्तोत्रमन्त्रस्य कङ्कोल ऋषिः, विराट् छन्दः, श्रीउच्छिष्टगणपतिर्देवता, मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
॥ ऋष्यादि न्यासः ॥
ॐ कङ्कोलऋषये नमः शिरसि ।
विराट्छन्दसे नमः मुखे ।
श्रीउच्छिष्टगणपतिदेवतायै नमः हृदि ।
विनियोगाय नमः सर्वाङ्गे ॥
॥ मूल स्तोत्रम् ॥
देव्युवाच।
नमामि देवं सकलार्थदं तं
सुवर्णवर्णं भुजगोपवीतम् ।
गजाननं भास्करमेकदन्तं
लम्बोदरं वारिभवासनं च ॥ १ ॥
केयूरिणं हारकिरीटजुष्टं
चतुर्भुजं पाशवराभयानि ।
सृणिं च हस्तं गणपं त्रिनेत्रं
सचामरस्त्रीयुगलेन युक्तम् ॥ २ ॥
षडक्षरात्मानमनल्पभूषं
मुनीश्वरैर्भार्गवपूर्वकैश्च ।
संसेवितं देवमनाथकल्पं
रूपं मनोज्ञं शरणं प्रपद्ये ॥ ३ ॥
वेदान्तवेद्यं जगतामधीशं
देवादिवन्द्यं सुकृतैकगम्यम् ।
स्तम्बेरमास्यं ननु चन्द्रचूडं
विनायकं तं शरणं प्रपद्ये ॥ ४ ॥
भवाख्यदावानलदह्यमानं
भक्तं स्वकीयं परिषिञ्चते यः ।
गण्डस्रुताम्भोभिरनन्यतुल्यं
वन्दे गणेशं च तमोऽरिनेत्रम् ॥ ५ ॥
शिवस्य मौलाववलोक्य चन्द्रं
सुशुण्डया मुग्धतया स्वकीयम् ।
भग्नं विषाणं परिभाव्य चित्ते
आकृष्टचन्द्रो गणपोऽवतान्नः ॥ ६ ॥
पितुर्जटाजूटतटे सदैव
भागीरथी तत्र कुतूहलेन ।
विहर्तुकामः स महीध्रपुत्र्या
निवारितः पातु सदा गजास्यः ॥ ७ ॥
लम्बोदरो देवकुमारसङ्घैः
क्रीडन्कुमारं जितवान्निजेन ।
करेण चोत्तोल्य ननर्त रम्यं
दन्तावलास्यो भयतः स पायात् ॥ ८ ॥
आगत्य योच्चैर्हरिनाभिपद्मं
ददर्श तत्राशु करेण तच्च ।
उद्धर्तुमिच्छन्विधिवादवाक्यं
मुमोच भूत्वा चतुरो गणेशः ॥ ९ ॥
निरन्तरं संस्कृतदानपट्‍टे
लग्नां तु गुञ्जद्भ्रमरावलीं वै ।
तं श्रोत्रतालैरपसारयन्तं
स्मरेद्गजास्यं निजहृत्सरोजे ॥ १० ॥
विश्वेश्वरमौलिस्थितजह्नुकन्या
जलं गृहीत्वा निजपुष्करेण ।
हरं सलीलं पितरं स्वकीयं
प्रपूजयन्हस्तिमुखः स पायात् ॥ ११ ॥
स्तम्बेरमास्यं घुसृणाङ्गरागं
सिन्दूरपूरारुणकान्तकुम्भम् ।
कुचन्दनाश्लिष्टकरं गणेशं
ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥ १२ ॥
स भीष्ममातुर्निजपुष्करेण
जलं समादाय कुचौ स्वमातुः ।
प्रक्षालयामास षडास्यपीतौ
स्वार्थं मुदेऽसौ कलभाननोऽस्तु ॥ १३ ॥
सिञ्चाम नागं शिशुभावमाप्तं
केनापि सत्कारणतो धरित्र्याम् ।
वक्तारमाद्यं नियमादिकानां
लोकैकवन्द्यं प्रणमामि विघ्नम् ॥ १४ ॥
आलिङ्गितं चारुरुचा मृगाक्ष्या
सम्भोगलोलं मदविह्वलाङ्गम् ।
विघ्नौघविध्वंसनसक्तमेकं
नमामि कान्तं द्विरदाननं तम् ॥ १५ ॥
हेरम्ब उद्यद्रविकोटिकान्तः
पञ्चाननेनापि विचुम्बितास्यः ।
मुनीन्सुरान्भक्तजनांश्च सर्वा-
-न्स पातु रथ्यासु सदा गजास्यः ॥ १६ ॥
द्वैपायनोक्तानि स निश्चयेन
स्वदन्तकोट्या निखिलं लिखित्वा ।
दन्तं पुराणं शुभमिन्दुमौलि-
-स्तपोभिरुग्रं मनसा स्मरामि ॥ १७ ॥
क्रीडातटान्ते जलधाविभास्ये
वेलाजले लम्बपतिः प्रभीतः ।
विचिन्त्य कस्येति सुरास्तदा तं
विश्वेश्वरं वाग्भिरभिष्टुवन्ति ॥ १८ ॥
वाचां निमित्तं स निमित्तमाद्यं
पदं त्रिलोक्यामददत्स्तुतीनाम् ।
सर्वैश्च वन्द्यं न च तस्य वन्द्यः
स्थाणोः परं रूपमसौ स पायात् ॥ १९ ॥
फलश्रुतिः ।
इमां स्तुतिं यः पठतीह भक्त्या
समाहितप्रीतिरतीव शुद्धः ।
संसेव्यते चेन्दिरया नितान्तं
दारिद्र्यसङ्घं स विदारयेन्नः ॥ २० ॥
इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवादे उच्छिष्टगणेशस्तोत्रं समाप्तम् ।

Explore More