Lord Ganesha

ऋणहर्ता गणेश स्तोत्रम्

(Rinahara Ganesha Stotram)

Traditional

Rinahara Ganesha Stotram is a Sanskrit hymn specifically dedicated to invoking Lord Ganesha in his aspect as the remover of debts. The stotra praises Ganesha's power to eliminate financial burdens, liabilities, and karmic debts. It describes his divine form and attributes while seeking his grace to free the devotee from both material and spiritual bondages. This is a particularly popular prayer among those facing financial difficulties or seeking debt relief.

ऋणहरगणेशस्तोत्रम्
कैलासपर्वते रम्ये शम्भुं चन्द्रार्धशेखरम् ।
षडाम्नायसमायुक्तं पप्रच्छ नगकन्यका ॥ १॥
पार्वत्युवाच-
देवेश परमेशान सर्वशास्त्रार्थपारग ।
उपायं ऋणनाशस्य कृपया वद साम्प्रतम् ॥ २॥
श्रीशिवः -
सम्यक्पृष्टं त्वया भद्रे लोकानां हितकाम्यया ।
तत्सर्वं सम्प्रवक्ष्यामि सावधानावधारय ॥ ३॥
ॐ अस्य श्रीऋणहरमहागणपतिस्तोत्रस्य सदाशिव ऋषिः-
अनुष्टुप्छन्दः- श्रीऋणहर महागणपतिर्देवता ।
ग्लौं बीजम् । गः शक्तिः । गों कीलकम् । मम ऋणनाशने जपे
विनियोगः- ॐ गणेश अङ्गुष्ठाभ्यां नमः । ऋणं छिन्धि तर्जनीभ्यां
नमः । वरेण्यं मध्यमाभ्यां नमः । हुं अनामिकाभ्यां नमः । नमः
कनिष्ठिकाभ्यां नमः । फट् करतलकरपृष्ठाभ्यां नमः । एवं
हृदयादिन्यासाः ।
ध्यानं -
सिन्दूरवर्णं द्विभुजं गणेशं
लम्बोदरं पद्मदले निविष्टम् ।
ब्रह्मादिदेवैः परिसेव्यमानं
सिद्धैर्युतं तं प्रणमामि देवम् ॥
पञ्चपूजाः ।
सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फलसिद्धये ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ १॥
त्रिपुरस्यवधात् पूर्वं शम्भुना सम्यगर्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ २॥
हिरण्यकशिप्वादीनां वधार्ते विष्णुनार्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ३॥
महिषस्य वधे देव्या गणनाथः प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ४॥
तारकस्य वधात् पूर्वं कुमारेण प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ५॥
भास्करेण गणेशो हि पूजितश्च स्वसिद्धये।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ६॥
शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ७॥
पालनाय च तपसां विश्वामित्रेण पूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ८॥
इदं ऋणहरं स्तोत्रं तीव्रदारिद्र्यनाशनम् ।
एकवारं पठेन्नित्यं वर्षमेकं समाहितः ॥ ९॥
दारिद्र्यं दारुणं त्यक्त्वा कुबेरसमतां व्रजेत् ।
फडन्तोऽयं महामन्त्रः सार्धपञ्चदशाक्षरः ॥ १०॥
मन्त्रो यथा-
ॐ गणेश ऋणं छिन्धि वरेण्यं हुं नमः फट् ।
इमं मन्त्रं पठेदन्ते ततश्च शुचिभावनः ॥ ११॥
एकविंशति सङ्ख्याभिः पुरश्चरणमीरितम् ।
सहस्रावर्तनात्सम्यक् षण्मासं प्रियतां व्रजेत् ॥ १२॥
बृहस्पतिसमो ज्ञाने धने धनपतिर्भवेत् ।
अस्यैवायुतसङ्ख्याभिः पुरश्चरणमीरितम् ॥ १३॥
लक्षमावर्तनात्सम्यग्वाञ्छितं फलमाप्नुयात् ।
भूतप्रेतपिशाचानां नाशनं स्मृतिमात्रतः ॥ १४॥
इति श्रीकृष्णयामलतन्त्रान्तर्गतं ऋणहरगणपतिस्तोत्रं सम्पूर्णम् ।

Also Chanted For

Wealth & ProsperityRemoving Obstacles

Explore More