ॐ श्री परमात्मने नमः
अथ षष्ठोऽध्यायः ।
आत्मसंयमयोगः
श्रीभगवानुवाच
आत्मसंयमयोगः
श्रीभगवानुवाच
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥ 1 ॥
स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥ 1 ॥
- श्रीभगवानुवाच (śrībhagavānuvāca)The Blessed Lord said (śrī:blessed | bhagavān:Lord | uvāca:said)
- अनाश्रितः (anāśritaḥ)without depending
- कर्मफलं (karmaphalaṃ)fruits of actions (karma:actions | phalaṃ:fruits)
- कार्यं (kāryaṃ)duty
- कर्म (karma)action
- करोति (karoti)performs
- यः (yaḥ)who
- स (sa)he
- संन्यासी (saṃnyāsī)renunciant
- च (ca)and
- योगी (yogī)yogi
- च (ca)and
- न (na)not
- निरग्निः (niragniḥ)without fire
- न (na)not
- च (ca)and
- अक्रियः (akriyaḥ)without action
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ 2 ॥
न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ 2 ॥
- यं (yaṃ)which
- संन्यासम् (saṃnyāsam)renunciation
- इति (iti)thus
- प्राहुः (prāhuḥ)they call
- योगम् (yogam)yoga
- तं (taṃ)that
- विद्धि (viddhi)know
- पाण्डव (pāṇḍava)O Pandava
- न (na)not
- हि (hi)indeed
- असंन्यस्तसङ्कल्पः (asaṃnyastasaṅkalpaḥ)one not renouncing thoughts (asaṃnyasta:not renouncing | saṅkalpaḥ:thoughts)
- योगी (yogī)yogi
- भवति (bhavati)becomes
- कश्चन (kaścana)anyone
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 3 ॥
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 3 ॥
- आरुरुक्षोः (ārurukṣoḥ)of one desiring to ascend (ā:towards | rurukṣoḥ:desiring to ascend)
- मुनेः (muneḥ)of the sage
- योगं (yogam)yoga
- कर्म (karma)action
- कारणम् (kāraṇam)means
- उच्यते (ucyate)is said
- योगारूढस्य (yogārūḍhasya)of one established in yoga (yoga:yoga | ārūḍhasya:of one established)
- तस्य (tasya)of that
- एव (eva)indeed
- शमः (śamaḥ)inaction
- कारणम् (kāraṇam)means
- उच्यते (ucyate)is said
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ 4 ॥
सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ 4 ॥
- यदा (yadā)when
- हि (hi)indeed
- न (na)not
- इन्द्रियार्थेषु (indriyārtheṣu)in sense-objects (indriya:senses | artheṣu:in objects)
- न (na)not
- कर्मसु (karmasu)in actions
- अनुषज्जते (anuṣajjate)attached
- सर्वसङ्कल्पसंन्यासी (sarvasaṅkalpasaṃnyāsī)renouncer of all thoughts (sarva:all | saṅkalpa:thoughts | saṃnyāsī:renouncer)
- योगारूढः (yogārūḍhaḥ)attained to yoga (yoga:yoga | ārūḍhaḥ:attained)
- तदा (tadā)then
- उच्यते (ucyate)is said
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ 5 ॥
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ 5 ॥
- उद्धरेत् (uddharet)should lift
- आत्मना (ātmanā)by oneself
- आत्मानम् (ātmānam)self
- न (na)not
- आत्मानम् (ātmānam)self
- अवसादयेत् (avasādayet)should degrade
- आत्मा (ātmā)self
- एव (eva)indeed
- हि (hi)for
- आत्मनः (ātmanaḥ)of oneself
- बन्धुः (bandhuḥ)friend
- आत्मा (ātmā)self
- एव (eva)indeed
- रिपुः (ripuḥ)enemy
- आत्मनः (ātmanaḥ)of oneself
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ 6 ॥
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ 6 ॥
- बन्धुः (bandhuḥ)friend
- आत्मा (ātmā)Self
- आत्मनः (ātmanaḥ)of the self
- तस्य (tasya)of him
- येन (yena)by whom
- आत्मा (ātmā)Self
- एव (eva)indeed
- आत्मना (ātmanā)by the self
- जितः (jitaḥ)conquered
- अनात्मनः (anātmanaḥ)of the unconquered self (an:not | ātmanaḥ:of the self)
- तु (tu)but
- शत्रुत्वे (śatrutve)in the position of an enemy (śatru:enemy | tve:in the position of)
- वर्तेत (varteta)stands
- आत्मा (ātmā)Self
- एव (eva)indeed
- शत्रुवत् (śatruvat)like an enemy (śatru:enemy | vat:like)
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ 7 ॥
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ 7 ॥
- जितात्मनः (jitātmanaḥ)of the self-controlled (jita:conquered | ātmanaḥ:of the self)
- प्रशान्तस्य (praśāntasya)of the peaceful
- परमात्मा (paramātmā)Supreme Self (parama:supreme | ātmā:self)
- समाहितः (samāhitaḥ)balanced
- शीतोष्णसुखदुःखेषु (śītoṣṇasukhaduḥkheṣu)in cold, heat, pleasure, pain (śīta:cold | uṣṇa:heat | sukha:pleasure | duḥkheṣu:in pain)
- तथा (tathā)as also
- मानापमानयोः (mānāpamānayoḥ)in honour and dishonour (māna:honour | apamānayoḥ:in dishonour)
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ 8 ॥
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ 8 ॥
- ज्ञानविज्ञानतृप्तात्मा (jñānavijñānatṛptātmā)satisfied with knowledge and wisdom (jñāna:knowledge | vijñāna:wisdom | tṛpta:satisfied | ātmā:self)
- कूटस्थः (kūṭasthaḥ)unshaken
- विजितेन्द्रियः (vijitendriyaḥ)conquered the senses (vijita:conquered | indriyaḥ:senses)
- युक्तः (yuktaḥ)harmonised
- इति (iti)thus
- उच्यते (ucyate)is said
- योगी (yogī)yogi
- समलोष्टाश्मकाञ्चनः (samaloṣṭāśmakāñcanaḥ)same to earth, stone, gold (sama:same | loṣṭa:earth | aśma:stone | kāñcanaḥ:gold)
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ 9 ॥
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ 9 ॥
- सुहृत् (suhṛt)good-hearted
- मित्र (mitra)friends
- अरि (ari)enemies
- उदासीन (udāsīna)indifferent
- मध्यस्थ (madhyastha)neutral
- द्वेष्य (dveṣya)hateful
- बन्धुषु (bandhuṣu)among relatives
- साधुषु (sādhuṣu)among the righteous
- अपि (api)even
- च (ca)and
- पापेषु (pāpeṣu)among the unrighteous
- समबुद्धिः (samabuddhiḥ)same-minded (sama:same | buddhiḥ:mind)
- विशिष्यते (viśiṣyate)excels
योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ 10 ॥
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ 10 ॥
- योगी (yogī)yogi
- युञ्जीत (yuñjīta)should unite
- सततम् (satatam)constantly
- आत्मानम् (ātmānam)the mind
- रहसि (rahasi)in solitude
- स्थितः (sthitaḥ)remaining
- एकाकी (ekākī)alone
- यतचित्तात्मा (yatacittātmā)with mind and body controlled (yata:controlled | citta:mind | ātmā:self/body)
- निराशीरपरिग्रहः (nirāśīraparigrahaḥ)free from hope and greed (nirāśīḥ:free from hope | aparigrahaḥ:free from greed)
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ 11 ॥
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ 11 ॥
- शुचौ (śucau)in a clean
- देशे (deśe)place
- प्रतिष्ठाप्य (pratiṣṭhāpya)having established
- स्थिरम् (sthiram)firm
- आसनम् (āsanam)seat
- आत्मनः (ātmanaḥ)of his own
- न (na)not
- अत्युच्छ्रितम् (atyucchritam)too high
- न (na)not
- अतिनीचम् (atinīcam)too low
- चैल (caila)cloth
- अजिन (ajina)skin
- कुश (kuśa)KUSHA-grass
- उत्तरम् (uttaram)one over the other
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियाः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ 12 ॥
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ 12 ॥
- तत्र (tatra)there
- एकाग्रं (ekāgram)one-pointed
- मनः (manaḥ)mind
- कृत्वा (kṛtvā)having made
- यतचित्तेन्द्रियक्रियः (yatacittendriyakriyaḥ)with mind and senses controlled (yata:controlled | citta:mind | indriya:senses | kriyaḥ:actions)
- उपविश्य (upaviśya)seated
- आसने (āsane)on the seat
- युञ्ज्यात् (yuñjyāt)let him practise
- योगम् (yogam)YOGA
- आत्मविशुद्धये (ātmaviśuddhaye)for purification of the self (ātma:self | viśuddhaye:for purification)
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ 13 ॥
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ 13 ॥
- समं (samaṃ)equally
- कायशिरोग्रीवं (kāyaśirogrīvaṃ)body, head, and neck (kāya:body | śiraḥ:head | grīvaṃ:neck)
- धारयन् (dhārayan)holding
- अचलम् (acalam)still
- स्थिरः (sthiraḥ)firm
- सम्प्रेक्ष्य (samprekṣya)gazing
- नासिकाग्रं (nāsikāgram)tip of the nose (nāsikā:nose | agram:tip)
- स्वं (svaṃ)own
- दिशः (diśaḥ)directions
- च (ca)and
- अनवलोकयन् (anavalokayan)not looking around
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ 14 ॥
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ 14 ॥
- प्रशान्तात्मा (praśāntātmā)serene-minded (praśānta:serene | ātmā:mind)
- विगतभीः (vigatabhīḥ)fearless (vigata:gone away | bhīḥ:fear)
- ब्रह्मचारिव्रते (brahmacārivrate)in the vow of celibacy (brahmacāri:celibate | vrate:in the vow)
- स्थितः (sthitaḥ)firm
- मनः (manaḥ)mind
- संयम्य (saṃyamya)having controlled
- मच्चित्तः (maccittaḥ)thinking on Me (mat:Me | cittaḥ:thinking)
- युक्तः (yuktaḥ)balanced
- आसीत (āsīta)let him sit
- मत्परः (matparaḥ)having Me as the Supreme Goal (mat:Me | paraḥ:supreme goal)
युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ 15 ॥
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ 15 ॥
- युञ्जन् (yuñjan)engaging
- एवम् (evam)thus
- सदा (sadā)always
- आत्मानं (ātmānam)the self
- योगी (yogī)the yogi
- नियतमानसः (niyatamānasaḥ)with controlled mind (niyata:controlled | mānasaḥ:mind)
- शान्तिं (śāntim)peace
- निर्वाणपरमां (nirvāṇaparamām)supreme liberation (nirvāṇa:liberation | paramām:supreme)
- मत्संस्थाम् (matsaṃsthām)abiding in Me (mat:in Me | saṃsthām:abiding)
- अधिगच्छति (adhigacchati)attains
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ 16 ॥
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ 16 ॥
- न (na)not
- अत्यश्नतः (atyaśnataḥ)of one who eats excessively (ati:excessively | aśnataḥ:of one who eats)
- तु (tu)but
- योगः (yogaḥ)yoga
- अस्ति (asti)is
- न (na)not
- च (ca)and
- एकान्तम् (ekāntam)completely
- अनश्नतः (anaśnataḥ)of one who does not eat (an:not | aśnataḥ:of one who eats)
- न (na)not
- च (ca)and
- अति (ati)excessively
- स्वप्नशीलस्य (svapnaśīlasya)of one who sleeps excessively (svapna:sleep | śīlasya:of one who has the habit)
- जाग्रतः (jāgrataḥ)of one who is awake
- न (na)not
- एव (eva)indeed
- च (ca)and
- अर्जुन (arjuna)O Arjuna
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ 17 ॥
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ 17 ॥
- युक्ताहारविहारस्य (yuktāhāravihārasya)of moderate eating and recreation (yukta:moderate | āhāra:eating | vihāra:recreation | asya:of)
- युक्तचेष्टस्य (yuktaceṣṭasya)of moderate exertion (yukta:moderate | ceṣṭa:exertion | asya:of)
- कर्मसु (karmasu)in actions
- युक्तस्वप्नावबोधस्य (yuktasvapnāvabodhasya)of moderate sleep and wakefulness (yukta:moderate | svapna:sleep | avabodha:wakefulness | asya:of)
- योगः (yogaḥ)Yoga
- भवति (bhavati)becomes
- दुःखहा (duḥkhahā)destroyer of pain (duḥkha:pain | hā:destroyer)
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ 18 ॥
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ 18 ॥
- यदा (yadā)when
- विनियतं (viniyatam)perfectly controlled
- चित्तम् (cittam)mind
- आत्मनि (ātmani)in the Self
- एव (eva)only
- अवस्थितः (avatiṣṭhate)rests
- निःस्पृहः (niḥspṛhaḥ)free from longing
- सर्वकामेभ्यः (sarvakāmebhyaḥ)for all desires (sarva:all | kāmebhyaḥ:for desires)
- युक्तः (yuktaḥ)united
- इति (iti)thus
- उच्यते (ucyate)is said
- तदा (tadā)then
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ 19 ॥
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ 19 ॥
- यथा (yathā)just as
- दीपः (dīpaḥ)lamp
- निवातस्थः (nivātasthaḥ)placed in windless place (nivāta:windless | sthaḥ:placed)
- न (na)not
- इङ्गते (iṅgate)flickers
- सा (sā)that
- उपमा (upamā)simile
- स्मृता (smṛtā)is considered
- योगिनः (yoginaḥ)of the yogi
- यतचित्तस्य (yatacittasya)of controlled mind (yata:controlled | cittasya:of mind)
- युञ्जतः (yuñjataḥ)practicing
- योगम् (yogam)yoga
- आत्मनः (ātmanaḥ)of the self
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ 20 ॥
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ 20 ॥
- यत्र (yatra)where
- उपरमते (uparamate)ceases
- चित्तं (cittaṃ)mind
- निरुद्धं (niruddhaṃ)restrained
- योगसेवया (yogasevayā)by the practice of yoga (yoga:yoga | sevayā:by the practice)
- यत्र (yatra)where
- च (ca)and
- एव (eva)indeed
- आत्मना (ātmanā)by the self
- आत्मानं (ātmānam)the self
- पश्यन् (paśyan)seeing
- आत्मनि (ātmani)in the self
- तुष्यति (tuṣyati)is satisfied
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ 21 ॥
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ 21 ॥
- सुखम् (sukham)happiness
- आत्यन्तिकम् (ātyantikam)eternal
- यत् (yat)which
- तत् (tad)that
- बुद्धिग्राह्यम् (buddhigrāhyam)grasped by intellect (buddhi:intellect | grāhyam:grasped)
- अतीन्द्रियम् (atīndriyam)beyond senses (ati:beyond | indriyam:senses)
- वेत्ति (vetti)knows
- यत्र (yatra)where
- न (na)not
- च (ca)and
- एव (eva)indeed
- अयम् (ayam)this
- स्थितः (sthitaḥ)established
- चलति (calati)moves
- तत्त्वतः (tattvataḥ)from reality (tattva:reality | taḥ:from)
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ 22 ॥
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ 22 ॥
- यं (yaṃ)which
- लब्ध्वा (labdhvā)having obtained
- च (ca)and
- अपरं (aparaṃ)other
- लाभं (lābhaṃ)gain
- मन्यते (manyate)thinks
- न (na)not
- अधिकं (adhikaṃ)superior
- ततः (tataḥ)than that
- यस्मिन् (yasmin)wherein
- स्थितः (sthitaḥ)established
- न (na)not
- दुःखेन (duḥkhena)by sorrow
- गुरुणा (guruṇā)heavy
- अपि (api)even
- विचाल्यते (vicālyate)is moved
तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ 23 ॥
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ 23 ॥
- तं (taṃ)that
- विद्याद् (vidyād)should be known
- दुःखसंयोगवियोगं (duḥkhasaṃyogaviyogaṃ)severance from union-with-pain (duḥkha:pain | saṃyoga:union | viyogaṃ:severance)
- योगसंज्ञितम् (yogasaṃjñitam)known as yoga (yoga:yoga | saṃjñitam:known as)
- स (sa)that
- निश्चयेन (niścayena)with determination
- योक्तव्यः (yoktavyaḥ)should be practiced
- योगः (yogaḥ)yoga
- अनिर्विण्णचेतसा (anirviṇṇacetasā)with undespairing mind (anirviṇṇa:undespairing | cetasā:with mind)
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ 24 ॥
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ 24 ॥
- सङ्कल्पप्रभवान् (saṅkalpaprabhavān)born of resolve (saṅkalpa:resolve | prabhavān:born of)
- कामान् (kāmān)desires
- त्यक्त्वा (tyaktvā)abandoning
- सर्वान् (sarvān)all
- अशेषतः (aśeṣataḥ)without reserve
- मनसा (manasā)by the mind
- एव (eva)indeed
- इन्द्रियग्रामं (indriyagrāmam)group of senses (indriya:senses | grāmam:group)
- विनियम्य (viniyamya)restraining
- समन्ततः (samantataḥ)from all sides
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ 25 ॥
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ 25 ॥
- शनैः (śanaiḥ)gradually
- शनैः (śanaiḥ)slowly
- उपरमेत् (uparamet)let him attain quietude
- बुद्ध्या (buddhyā)by intellect
- धृतिगृहीतया (dhṛtigṛhītayā)held firm (dhṛti:firmness | gṛhītayā:held by)
- आत्मसंस्थं (ātmasaṃstham)established in the Self (ātma:Self | saṃstham:established in)
- मनः (manaḥ)mind
- कृत्वा (kṛtvā)having made
- न (na)not
- किञ्चित् (kiñcit)anything
- अपि (api)even
- चिन्तयेत् (cintayet)let him think
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ 26 ॥
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ 26 ॥
- यतः (yataḥ)from whatever
- यतः (yataḥ)from whatever
- निश्चरति (niścarati)wanders away
- मनः (manaḥ)mind
- चञ्चलम् (cañcalam)restless
- अस्थिरम् (asthiram)unsteady
- ततः (tataḥ)from that
- ततः (tataḥ)from that
- नियम्य (niyamya)restraining
- एतत् (etat)this
- आत्मनि (ātmani)in the Self
- एव (eva)alone
- वशं (vaśam)control
- नयेत् (nayet)should bring
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ 27 ॥
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ 27 ॥
- प्रशान्तमनसं (praśāntamanasaṃ)with peaceful mind (praśānta:peaceful | manasaṃ:mind)
- हि (hi)indeed
- एनं (enaṃ)this
- योगिनं (yoginaṃ)yogi
- सुखम् (sukham)bliss
- उत्तमम् (uttamam)supreme
- उपैति (upaiti)comes
- शान्तरजसं (śāntarajasaṃ)whose passion is quietened (śānta:quietened | rajasaṃ:passion)
- ब्रह्मभूतम् (brahmabhūtam)become Brahman (brahma:Brahman | bhūtam:become)
- अकल्मषम् (akalmaṣam)free from sin
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ 28 ॥
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ 28 ॥
- युञ्जन् (yuñjan)engaging
- एवम् (evam)thus
- सदा (sadā)always
- आत्मानं (ātmānam)the self
- योगी (yogī)the yogi
- विगतकल्मषः (vigatakalmaṣaḥ)freed from sins (vigata:freed from | kalmaṣaḥ:sins)
- सुखेन (sukhena)easily
- ब्रह्मसंस्पर्शम् (brahmasaṃsparśam)Brahman-contact (brahma:Brahman | saṃsparśam:contact)
- अत्यन्तं (atyantam)infinite
- सुखम् (sukham)bliss
- अश्नुते (aśnute)enjoys
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ 29 ॥
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ 29 ॥
- सर्वभूतस्थमात्मानं (sarvabhūtasthamātmānam)Self abiding in all beings (sarva:all | bhūta:beings | stham:abiding | ātmānam:Self)
- सर्वभूतानि (sarvabhūtāni)all beings (sarva:all | bhūtāni:beings)
- च (ca)and
- आत्मनि (ātmani)in the Self
- ईक्षते (īkṣate)sees
- योगयुक्तात्मा (yogayuktātmā)mind harmonised by YOGA (yoga:YOGA | yukta:harmonised | ātmā:mind)
- सर्वत्र (sarvatra)everywhere
- समदर्शनः (samadarśanaḥ)seeing the same (sama:same | darśanaḥ:seeing)
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ 30 ॥
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ 30 ॥
- यः (yaḥ)who
- माम् (mām)me
- पश्यति (paśyati)sees
- सर्वत्र (sarvatra)everywhere
- सर्वम् (sarvam)everything
- च (ca)and
- मयि (mayi)in me
- पश्यति (paśyati)sees
- तस्य (tasya)his
- अहम् (aham)I
- न (na)not
- प्रणश्यामि (praṇaśyāmi)perish
- सः (saḥ)he
- च (ca)and
- मे (me)from me
- न (na)not
- प्रणश्यति (praṇaśyati)perishes
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ 31 ॥
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ 31 ॥
- सर्वभूतस्थितं (sarvabhūtasthitam)present in all beings (sarva:all | bhūta:beings | sthitam:present)
- यः (yaḥ)who
- माम् (mām)me
- भजति (bhajati)worships
- एकत्वम् (ekatvam)unity
- आस्थितः (āsthitaḥ)established
- सर्वथा (sarvathā)in all ways
- वर्तमानः (vartamānaḥ)living
- अपि (api)even
- सः (saḥ)he
- योगी (yogī)yogi
- मयि (mayi)in me
- वर्तते (vartate)abides
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ 32 ॥
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ 32 ॥
- आत्मौपम्येन (ātmaupamyena)by the likeness of the Self (ātma:Self | aupamyena:by the likeness)
- सर्वत्र (sarvatra)everywhere
- समं (samaṃ)equality
- पश्यति (paśyati)sees
- यः (yaḥ)who
- अर्जुन (arjuna)O Arjuna
- सुखं (sukhaṃ)pleasure
- वा (vā)or
- यदि (yadi)if
- वा (vā)or
- दुःखं (duḥkhaṃ)pain
- स (sa)he
- योगी (yogī)Yogi
- परमः (paramaḥ)highest
- मतः (mataḥ)regarded
अर्जुन उवाच
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ 33 ॥
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ 33 ॥
- अर्जुन (arjuna)Arjuna
- उवाच (uvāca)said
- यः (yaḥ)which
- अयम् (ayam)this
- योगः (yogaḥ)yoga
- त्वया (tvayā)by you
- प्रोक्तः (proktaḥ)taught
- साम्येन (sāmyena)with equanimity
- मधुसूदन (madhusūdana)O slayer of Madhu (madhu:Madhu | sūdana:slayer)
- एतस्य (etasya)of this
- अहम् (aham)I
- न (na)not
- पश्यामि (paśyāmi)see
- चञ्चलत्वात् (cañcalatvāt)due to restlessness
- स्थितिं (sthitiṃ)continuity
- स्थिराम् (sthirām)enduring
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ 34 ॥
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ 34 ॥
- चञ्चलम् (cañcalam)restless
- हि (hi)indeed
- मनः (manaḥ)mind
- कृष्ण (kṛṣṇa)O Krishna
- प्रमाथि (pramāthi)turbulent
- बलवत् (balavat)strong
- दृढम् (dṛḍham)unyielding
- तस्य (tasya)its
- अहम् (aham)I
- निग्रहम् (nigraham)control
- मन्ये (manye)consider
- वायोः (vāyoḥ)of the wind
- इव (iva)like
- सुदुष्करम् (suduṣkaram)very difficult
श्रीभगवानुवाच
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ 35 ॥
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ 35 ॥
- श्रीभगवानुवाच (śrībhagavānuvāca)The Blessed Lord said (śrī:blessed | bhagavān:Lord | uvāca:said)
- असंशयं (asaṃśayaṃ)undoubtedly
- महाबाहो (mahābāho)O mighty-armed one (mahā:great | bāho:armed one)
- मनः (manaḥ)mind
- दुर्निग्रहम् (durnigraham)difficult to control (dus:difficult | nigraham:to control)
- चलम् (calam)restless
- अभ्यासेन (abhyāsena)by practice
- तु (tu)but
- कौन्तेय (kaunteya)O Son of Kunti (kunti:Kunti | eya:son of)
- वैराग्येण (vairāgyeṇa)by dispassion
- च (ca)and
- गृह्यते (gṛhyate)it is restrained
असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ 36 ॥
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ 36 ॥
- असंयतात्मना (asaṃyatātmanā)by uncontrolled self (asaṃyata:uncontrolled | ātmanā:by self)
- योगः (yogaḥ)yoga
- दुष्प्रापः (duṣprāpaḥ)hard to attain
- इति (iti)thus
- मे (me)my
- मतिः (matiḥ)opinion
- वश्यात्मना (vaśyātmanā)by controlled self (vaśya:controlled | ātmanā:by self)
- तु (tu)but
- यतता (yatatā)by striving
- शक्यः (śakyaḥ)possible
- अवाप्तुम् (avāptum)to obtain
- उपायतः (upāyataḥ)by means
अर्जुन उवाच
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ 37 ॥
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ 37 ॥
- अर्जुन (arjuna)Arjuna
- उवाच (uvāca)said
- अयतिः (ayatiḥ)undisciplined
- श्रद्धया (śraddhayā)with faith
- उपेतः (upetaḥ)endowed with
- योगात् (yogāt)from yoga
- चलितमानसः (calitamānasaḥ)whose mind is unsteady (calita:unsteady | mānasaḥ:mind)
- अप्राप्य (aprāpya)not attaining
- योगसंसिद्धिम् (yogasaṃsiddhim)perfection in yoga (yoga:yoga | saṃsiddhim:perfection)
- कां (kāṃ)what
- गतिं (gatiṃ)path
- कृष्ण (kṛṣṇa)Krishna
- गच्छति (gacchati)goes
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ 38 ॥
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ 38 ॥
- कच्चित् (kaccit)whether
- नो (no)not
- उभयविभ्रष्टः (ubhayavibhraṣṭaḥ)fallen from both (ubhaya:both | vibhraṣṭaḥ:fallen)
- छिन्नाभ्रम् (chinnābhram)rent cloud (chinna:rent | abhram:cloud)
- इव (iva)like
- नश्यति (naśyati)perishes
- अप्रतिष्ठः (apratiṣṭhaḥ)supportless
- महाबाहो (mahābāho)O mighty-armed (mahā:great | bāho:armed)
- विमूढः (vimūḍhaḥ)deluded
- ब्रह्मणः (brahmaṇaḥ)of BRAHMAN
- पथि (pathi)in the path
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ 39 ॥
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ 39 ॥
- एतत् (etat)this
- मे (me)my
- संशयम् (saṃśayam)doubt
- कृष्ण (kṛṣṇa)O Krishna
- छेत्तुम् (chettum)to dispel
- अर्हसि (arhasi)you should
- अशेषतः (aśeṣataḥ)completely
- त्वत् (tvad)than you
- अन्यः (anyaḥ)another
- संशयस्य (saṃśayasya)of the doubt
- अस्य (asya)this
- छेत्ता (chettā)dispel
- न (na)not
- हि (hi)indeed
- उपपद्यते (upapadyate)is possible
श्रीभगवानुवाच
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ 40 ॥
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ 40 ॥
- श्रीभगवानुवाच (śrībhagavānuvāca)The Blessed Lord said (śrī:blessed | bhagavān:Lord | uvāca:said)
- पार्थ (pārtha)O Partha
- न (na)not
- एव (eva)indeed
- इह (iha)in this world
- न (na)not
- अमुत्र (amutra)in the next world
- विनाशः (vināśaḥ)destruction
- तस्य (tasya)for him
- विद्यते (vidyate)exists
- न (na)not
- हि (hi)indeed
- कल्याणकृत् (kalyāṇakṛt)doer of good (kalyāṇa:good | kṛt:doer)
- कश्चित् (kaścit)anyone
- दुर्गतिं (durgatim)misfortune
- तात (tāta)O My son
- गच्छति (gacchati)goes
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ 41 ॥
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ 41 ॥
- प्राप्य (prāpya)having attained
- पुण्यकृताम् (puṇyakṛtām)of the righteous (puṇya:righteous | kṛtām:of those who do)
- लोकान् (lokān)worlds
- उषित्वा (uṣitvā)having dwelt
- शाश्वतीः (śāśvatīḥ)everlasting
- समाः (samāḥ)years
- शुचीनाम् (śucīnām)of the pure
- श्रीमताम् (śrīmatām)of the wealthy
- गेहे (gehe)in the house
- योगभ्रष्टः (yogabhraṣṭaḥ)fallen from yoga (yoga:yoga | bhraṣṭaḥ:fallen)
- अभिजायते (abhijāyate)is born again
अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ 42 ॥
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ 42 ॥
- अथवा (athavā)or
- योगिनाम् (yoginām)of the yogis
- एव (eva)indeed
- कुले (kule)in the family
- भवति (bhavati)is born
- धीमताम् (dhīmatām)of the wise
- एतत् (etat)this
- हि (hi)indeed
- दुर्लभतरम् (durlabhataram)very difficult to obtain (durlabha:difficult to obtain | taram:very)
- लोके (loke)in the world
- जन्म (janma)birth
- यत् (yat)which
- ईदृशम् (īdṛśam)like this
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ 43 ॥
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ 43 ॥
- तत्र (tatra)there
- तम् (tam)him
- बुद्धिसंयोगम् (buddhisaṃyogam)union with knowledge (buddhi:knowledge | saṃyogam:union)
- लभते (labhate)obtains
- पौर्वदेहिकम् (paurvadehikam)from previous body (paurva:previous | dehikam:body)
- यतते (yatate)strives
- च (ca)and
- ततः (tataḥ)then
- भूयः (bhūyaḥ)again
- संसिद्धौ (saṃsiddhau)for perfection
- कुरुनन्दन (kurunandana)O son of the Kurus (kuru:Kurus | nandana:son)
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ 44 ॥
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ 44 ॥
- पूर्वाभ्यासेन (pūrvābhyāsena)by former practice (pūrva:former | abhyāsena:by practice)
- तेनैव (tenaiva)by that very (tena:by that | eva:very)
- ह्रियते (hriyate)is borne
- हि (hi)indeed
- अवशः (avaśaḥ)involuntarily
- अपि (api)even
- सः (saḥ)he
- जिज्ञासुः (jijñāsuḥ)desirous to know
- अपि (api)even
- योगस्य (yogasya)of yoga
- शब्दब्रह्म (śabdabrahma)sound Brahman (śabda:sound | brahma:Brahman)
- अतिवर्तते (ativartate)goes beyond
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ 45 ॥
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ 45 ॥
- प्रयत्नात् (prayatnāt)by effort
- यतमानः (yatamānaḥ)striving
- तु (tu)but
- योगी (yogī)the yogi
- संशुद्धकिल्बिषः (saṃśuddhakilbiṣaḥ)purified from sins (saṃśuddha:purified | kilbiṣaḥ:from sins)
- अनेकजन्मसंसिद्धः (anekajanmasaṃsiddhaḥ)perfected through many births (aneka:many | janma:births | saṃsiddhaḥ:perfected)
- ततः (tataḥ)then
- याति (yāti)attains
- पराम् (parām)highest
- गतिम् (gatim)goal
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ 46 ॥
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ 46 ॥
- तपस्विभ्यः (tapasvibhyaḥ)than ascetics
- अधिकः (adhikaḥ)superior
- योगी (yogī)yogi
- ज्ञानिभ्यः (jñānibhyaḥ)than men-of-knowledge
- अपि (api)also
- मतः (mataḥ)thought
- अधिकः (adhikaḥ)superior
- कर्मिभ्यः (karmibhyaḥ)than men-of-action
- च (ca)and
- अधिकः (adhikaḥ)superior
- योगी (yogī)yogi
- तस्मात् (tasmāt)therefore
- योगी (yogī)yogi
- भव (bhava)be
- अर्जुन (arjuna)Arjuna
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ 47 ॥
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ 47 ॥
- योगिनामपि (yogināmapi)even among yogis (yoginām:of yogis | api:even)
- सर्वेषां (sarveṣāṃ)of all
- मद्गतेन (madgatena)with mind absorbed in Me (mad:in Me | gatena:absorbed)
- अन्तरात्मना (antarātmanā)with inner-self
- श्रद्धावान् (śraddhāvān)full of faith
- भजते (bhajate)worships
- यः (yaḥ)who
- मां (māṃ)Me
- स (sa)he
- मे (me)according to Me
- युक्ततमः (yuktatamaḥ)most devout
- मतः (mataḥ)considered
- ॐ (oṃ)Om
- तत्सदिति (tatsaditi)thus the truth (tat:that | sat:truth | iti:thus)
- श्रीमद्भगवद्गीतासूपनिषत्सु (śrīmadbhagavadgītāsūpaniṣatsu)in the Upanishads of the Bhagavad Gita (śrīmat:glorious | bhagavad:of the Lord | gītāsu:in the Gita | upaniṣatsu:in the Upanishads)
- ब्रह्मविद्यायां (brahmavidyāyāṃ)in the knowledge of Brahman (brahma:Brahman | vidyāyāṃ:in the knowledge)
- योगशास्त्रे (yogaśāstre)in the science of Yoga (yoga:Yoga | śāstre:in the science)
- श्रीकृष्णार्जुनसंवादे (śrīkṛṣṇārjunasaṃvāde)in the dialogue of Krishna and Arjuna (śrī:glorious | kṛṣṇa:Krishna | arjuna:Arjuna | saṃvāde:in the dialogue)
- आत्मसंयमयोगः (ātmasaṃyamayogaḥ)the Yoga of self-control (ātma:self | saṃyama:control | yogaḥ:Yoga)
- नाम (nāma)named
- षष्ठः (ṣaṣṭhaḥ)sixth
- अध्यायः (adhyāyaḥ)chapter
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥6 ॥
श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥6 ॥
