चक्रे पञ्चारनाभित्रितयवति लसन् नेमिषङ्के निविष्टः ।
सप्तच्छन्दस्तुरङ्गाहितवहनधुरो हायनांशत्रिवर्ग
व्यक्ताक्लृप्ताखिलाङ्गः स्फुरतु मम पुरः स्यन्दनश्चण्डभानोः ॥१॥
गन्धर्वैर्वालखिल्यैः परिवृतदशमांशस्य कृत्स्नं रथस्य ।
मध्यं व्याप्याधितिष्ठन् मणिरिव नभसो मण्डलश्चण्डरश्मेः
ब्रह्मज्योतिर्विवर्तः श्रुतिनिकरघनीभावरूपः समिन्धे ॥२॥
नाड्यो वस्वादिवृन्दारकगणमधुनस्तस्य नानादिगुत्थाः ।
वर्षन्तस्तोयमुष्णं तुहिनमपि जलान्यापिबन्तः समन्तात्
पित्रादीनां स्वधौषध्यमृतरसकृतो भन्ति कान्तिप्ररोहाः॥३॥
शुभ्रांशुं तारकौघं शशितनयमुखान् पञ्च चोद्भासयन्तः ।
आरोगो भ्राजमुख्यास्त्रिभुवनदहने सप्तसूर्या भवन्तः
सर्वान् व्याधीन् सुषुम्नाप्रभृतय इह मे सूर्यपादाः क्षिपन्तु ॥४॥
मासे मासे विभक्तास्त्रिभुवनभवनं पावयन्तः स्फुरन्ति ।
येषां भुव्यप्रचारे जगदवनकृतां सप्तरश्म्युत्थितानां
संसर्पे चाधिमासे व्रतयजनमुखाः सत्क्रियाः न क्रियन्ते ॥५॥
प्रातर्मध्याह्नसायं समयविभजनादृग्यजुस्सामसेव्यम् ।
प्राप्यं च प्रापकं च प्रथितमतिपथिज्ञानिनामुत्तरस्मिन्
साक्षाद् ब्रह्मेत्युपास्यं सकलभयहराभ्युद्गमं संश्रयामि ॥६॥
आदित्यानामशेषः प्रभवति नियतः स्वस्वमासाधिकारः ।
यत् प्राधान्यं व्यनक्ति स्वयमपि भगवान् द्वादशस्तेषु भूत्वा
तं त्रैलोक्यस्य मूलं प्रणमत परमं दैवतं सप्तसप्तिम् ॥७॥
नृत्तैर्गातैरभीशुग्रहनुतिवहनैरग्रतः सेवया च ।
यस्य प्रीतिं वितन्वन्त्यमितपरिकरा द्वादश द्वादशैते
हृद्याभिर्वालखिल्याः सरणिभणितिभिस्तं भजे लोकबन्धुम् ॥८॥
ध्येयं रूपं शिरोदोश्चरणपदजुषा व्याहृतीनां त्रयेण ।
तत् सत्यं ब्रह्म पश्याम्यहरहमभिधं नित्यमादित्यरूपं
भूतानां भूनभस्स्वः प्रभृतिषु वसतां प्राणसूक्ष्मांशमेकम् ॥९॥
स्वच्छस्वर्णाभमूर्तिं विदलितनलिनोदारदृश्याक्षियुग्मम् ।
ऋक्सामोद्गानगेष्णं निरतिशयलसल्लोककामेशभावं
सर्वावद्योदितत्वादुदितसमुदितं ब्रह्म शम्भुं प्रपद्ये ॥१०॥
यस्योपास्तिः समस्तं दुरितमपनयत्वर्कबिम्बे स्थितस्य ।
यत् पूजैकप्रधानान्यघमखिलमपि प्घ्नन्ति कृच्छ्रव्रतानि
ध्यातः सर्वोपतापान् हरतु परशिवः सोऽयमाद्यो भिषङ्गः ॥११॥
न्यागोपालाङ्गनाभ्यो नयनपथजुषा ज्योतिषा दीप्यमानम्
गायत्रीमन्त्रसेव्यं निखिलजनधियां प्रेरकं विश्वरूपम् ।
नीलग्रीवं त्रिनेत्रं शिवमनिशमुमावल्लभं संश्रयामि ॥१२॥
साहस्रास्तेषु सप्त श्रुतिभिरभिहिताः किञ्चिदूनाश्च लक्षाः ।
एकैकेषां चतस्रस्तदनु दिनमणेरादिदेवस्य तिस्रः
क्लृप्ताः तत्तत्प्रभावप्रकटनमहिताः स्रग्धरा द्वादशैताः ॥१३॥
दोषान् दुःस्थानसंस्थग्रहगणजनितान् दुष्टभूतान् ग्रहादीन् ।
निर्धूनाेति स्थिरां च श्रियमिह लभते मुक्तिमभ्येति चान्ते
सङ्कीर्त्य स्तोत्ररत्नं सकृदपि मनुजः प्रत्यहं पत्युरह्वाम् ॥१४॥
