Lord Budha (Mercury)

बुध अष्टोत्तर शत नाम स्तोत्रम्

(Budha Ashtottara Shatanama Stotram)

From Puranas

The Budha Ashtottara Shatanama Stotram is a sacred hymn comprising one hundred and eight names of Lord Budha, the planet Mercury in Vedic astrology. Found within various Puranic texts, this stotra praises the intellect, wisdom, and communication skills associated with the deity. Devotees chant these names to mitigate the negative influences of a poorly placed Mercury in their horoscopes. Regular recitation is believed to sharpen the mind, improve speech, enhance academic success, and bestow clarity of thought. It serves as a powerful meditative tool to invoke the blessings of the Lord of Wisdom for overall prosperity and intellectual growth.

बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः ।
दृढव्रतो दृढफलः श्रुतिजालप्रबोधकः ॥ 1 ॥
सत्यवासः सत्यवचाः श्रेयसां पतिरव्ययः ।
सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥ 2 ॥
वेदविद्वेदतत्त्वज्ञो वेदान्तज्ञानभास्वरः ।
विद्याविचक्षण विभुर्विद्वत्प्रीतिकरो ऋजः ॥ 3 ॥
विश्वानुकूलसञ्चारो विशेषविनयान्वितः ।
विविधागमसारज्ञो वीर्यवान् विगतज्वरः ॥ 4 ॥
त्रिवर्गफलदोऽनन्तः त्रिदशाधिपपूजितः ।
बुद्धिमान् बहुशास्त्रज्ञो बली बन्धविमोचकः ॥ 5 ॥
वक्रातिवक्रगमनो वासवो वसुधाधिपः ।
प्रसन्नवदनो वन्द्यो वरेण्यो वाग्विलक्षणः ॥ 6 ॥
सत्यवान् सत्यसङ्कल्पः सत्यबन्धुः सदादरः ।
सर्वरोगप्रशमनः सर्वमृत्युनिवारकः ॥ 7 ॥
वाणिज्यनिपुणो वश्यो वाताङ्गो वातरोगहृत् ।
स्थूलः स्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः ॥ 8 ॥
अप्रकाशः प्रकाशात्मा घनो गगनभूषणः ।
विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥ 9 ॥
चारुशीलः स्वप्रकाशः चपलश्च जितेन्द्रियः ।
उदङ्मुखो मखासक्तो मगधाधिपतिर्हरः ॥ 10 ॥
सौम्यवत्सरसञ्जातः सोमप्रियकरः सुखी ।
सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवङ्करः ॥ 11 ॥
पीताम्बरो पीतवपुः पीतच्छत्रध्वजाङ्कितः ।
खड्गचर्मधरः कार्यकर्ता कलुषहारकः ॥ 12 ॥
आत्रेयगोत्रजोऽत्यन्तविनयो विश्वपावनः ।
चाम्पेयपुष्पसङ्काशः चारणः चारुभूषणः ॥ 13 ॥
वीतरागो वीतभयो विशुद्धकनकप्रभः ।
बन्धुप्रियो बन्धमुक्तो बाणमण्डलसंश्रितः ॥ 14 ॥
अर्केशानप्रदेशस्थः तर्कशास्त्रविशारदः ।
प्रशान्तः प्रीतिसंयुक्तः प्रियकृत् प्रियभाषणः ॥ 15 ॥
मेधावी माधवासक्तो मिथुनाधिपतिः सुधीः ।
कन्याराशिप्रियः कामप्रदो घनफलाश्रयः ॥ 16 ॥
बुधस्यैवं प्रकारेण नाम्नामष्टोत्तरं शतम् ।
सम्पूज्य विधिवत्कर्ता सर्वान्कामानवाप्नुयात् ॥ 17 ॥
इति श्री बुध अष्टोत्तरशतनाम स्तोत्रम् ।

Explore More