Lord Ganesha

यम कृत गणेशाष्टोत्तरशतनाम स्तोत्र

(Yama Krta Ganesastottarasatanama Stotra)

Also known as ganesha ashtottara shatanama mudgala purana · mandaramalasamikasthaja ca yasyaiva dehe bhavati pramanam

A hundred and eight names spoken by Yama, from the twenty-sixth chapter of the Lambodara Charita in the Mudgala Purana, and they are not addressed to Ganesha at all. Every verse is an order shouted at the obstacles: let him go, get far off, wander in fear. The names are the grounds given for the order — Ganesha, Heramba, Gajanana, Mahodara, revealer of one's own experience, lover of accomplishment, lord of understanding; ender of many obstacles, curved-trunk, four-armed, lord of poets, destroyer of Devantaka — and each run of them closes on the same dismissal. The chapter around it concerns the power of touching shami and mandara, and its opening verses put that to the same use: whichever of the two is on his body is the measure, so leave, and go in fear.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

Reading depth
Lyrics
मन्दारमालाशमिकाष्ठजा च यस्यैव देहे भवति प्रमाणम् ।
पुष्पं तयोः पत्रयुतं च शूराः सन्त्यज्य दूरं चरत प्रभीताः ॥ ३३॥
दूर्वायुतं विघ्नहरस्य गाथां सङ्गायमानं यदि पापयुक्तम् ।
पूजादिकारं गणनायकस्य सन्त्यज्य दूरं चरत प्रभीताः ॥ ३४॥
ॐ गणेश हेरम्ब गजाननेति महोदर स्वानुभवप्रकाशिन् ।
वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदन्तमेवं त्यजत प्रभीताः ॥ ३५॥
अनेकविघ्नान्तक वक्रतुण्ड स्वसंज्ञवासिंश्च चतुर्भुजेति ।
कवीश देवान्तकनाशकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ३६॥
महेशसूनो गजदैत्यशत्रो वरेण्यसूनो विकट त्रिनेत्र ।
परेश धरणीधर एकदन्त वदन्तमेवं त्यजत प्रभीताः ॥ ३७॥
प्रमोदमोदेति नरान्तकारे षडूर्मिहन्तर्गजकर्ण ढुण्ढे ।
द्वन्द्वारिसिन्धौ स्थिरभावकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ३८॥
विनायक ज्ञानविघातशत्रो पराशरस्यात्मज विष्णुपुत्र ।
अनादिपूज्याखुग सर्वपूज्य वदन्तमेवं त्यजत प्रभीताः ॥ ३९॥
विधेर्ज लम्बोदर धूम्रवर्ण मयूरपालेति मयूरवाहिन् ।
सुरासुरैः सेवितपादपद्म वदन्तमेवं त्यजत प्रभीताः ॥ ४०॥
वरिन् महाखुध्वज शूर्पकर्ण शिवाज सिंहस्थ अनन्तवाह ।
दितौज विघ्नेश्वर शेषनाभे वदन्तमेवं त्यजत प्रभीताः ॥ ४१॥
अणोरणीयन् महतो महीयन् रवेर्ज योगेश वरिष्ठराज ।
निधीश मन्त्रेश च शेषपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ ४२॥
वरप्रदातर्ह्यदितेश्च सूनो पराशरज्ञानद तारवक्त्र ।
गुहाग्रज ब्रह्मप पार्श्वपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ ४३॥
सिन्धोश्च शत्रो परशुप्रपाणे शमीश पुष्पप्रिय विघ्नहारिन् ।
दूर्वाभरैरर्चित देवदेव वदन्तमेवं त्यजत प्रभीताः ॥ ४४॥
धियः प्रदातश्च शमीप्रियेति सुसिद्धिदातश्च सुशान्तिदातः ।
अमेयमायामितविक्रमेति वदन्तमेवं त्यजत प्रभीताः ॥ ४५॥
द्विधा चतुर्थीप्रिय कश्यपाज्ज धनप्रद ज्ञानप्रद प्रकाश ।
चिन्तामणे चित्तविहारकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ४६॥
यमस्य शत्रो अभिमानशत्रो विधेर्जहन्तः कपिलस्य सूनो ।
विदेह स्वानन्द अयोगयोग वदन्तमेवं त्यजत प्रभीताः ॥ ४७॥
गणस्य शत्रो कमलस्य शत्रो समस्थ भावज्ञ च भालचन्द्र ।
अनादिमध्यान्तमयप्रचारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ४८॥
विभो जगद्रूप गुणेश भूमन् पुष्टेः पते आखुगतेति बोध ।
कर्तश्च पातश्च तु संहरेति वदन्तमेवं त्यजत प्रभीताः ॥ ४९॥
इदमष्टोत्तरशतं नाम्नां तत् प्रपठन्ति ये ।
श‍ृण्वन्ति तेषु कुरुत भीता मा वै प्रवेशनम् ॥ ५०॥
भुक्तिमुक्तिप्रदं ढुण्ढेर्धनधान्यप्रवर्धनम् ।
ब्रह्मभूयकरं स्तोत्रं जपतो नित्यमादरात् ॥ ५१॥
यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः ।
धामानि तत्र कुरुत सम्भीता मा प्रवेशनम् ॥ ५२॥
तेन संस्थापिताः सर्वे स्वस्वकार्येषु सेवकाः ।
केशाद्यास्तत्र के यूयं वयं भजत तं सदा ॥ ५३॥
एवमुक्त्वा यमः सर्वान् किङ्करान् मौनमादधे ।
यामाः सर्वे गणेशानं भजते भावसंयुताः ॥ ५४॥
इदं शमीभवं पुण्यं माहात्म्यं यः श‍ृणोति चेत् ।
पठति सिद्धिदं तस्य मन्दारस्य भविष्यति ॥ ५५॥
॥ इति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शमीमन्दारस्पर्शमहिमावर्णनं नाम षड्विंशतितमाऽध्यायान्तर्गतं यमकृतं श्रीगणेशाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥

Explore More