Lord Ganesha

महा गणपति मूल मन्त्राः (पाद माला स्तोत्रम्)

(Maha Ganapati Moola Mantrah (Pada Mala Stotram))

Traditional

This powerful stotram is dedicated to Lord Ganesha, the remover of obstacles and the deity of intellect and auspicious beginnings. The text integrates the core Moola Mantra with the poetic Pada Mala style, emphasizing the cosmic significance of the Pranava Om. Chanting this hymn is believed to cleanse the practitioner of deep-seated karmic burdens, suffering, and fear of death. It is highly regarded for bestowing spiritual clarity, material abundance, and mental peace. By meditating upon the divine form of Ganesha through these verses, the devotee aligns their inner consciousness with the supreme vibration of the universe.

॥ मूलमन्त्रम् ॥

॥ ॐ ह्रीं श्रीं क्लीं ग्लौं गं गणपतये वरवरद
सर्वजनं मे वशमानय स्वाहा ॥
॥ अथ स्तोत्रम्॥
ॐ इत्येतदजस्य कण्ठविवरं भित्वा बहिर्निर्गतं
ह्योमित्येव समस्तकर्म ऋषिभिः प्रारभ्यते मानुषैः ।
ओमित्येव सदा जपन्ति यतयः स्वातमैकनिष्ठाः परं
ह्योङ्काराकृतिवक्त्रमिन्दुनिटिलं विघ्नेश्वरं भवाये ॥ 1॥
श्रीम्बीजं श्रमदुःखजन्ममरणव्याध्याधिभीनाशकं
मृत्युक्रोधनशान्तिबिन्दुविलसद्वर्णाकृतिश्रीप्रदम् ।
स्वान्तःस्वात्मशरस्य लक्ष्यमजरस्वात्मावबोधप्रदं
श्रीश्रीनायकसेविते भवदनप्रेमास्पदं भावये ॥ 2॥
ह्रीम्बीजं हृदयत्रिकोणविलसन्मध्यासनस्थं सदा
चाकाशानलवामलोचननिशानाथार्धवर्णात्मकम् ।
मायाकार्यजगत्प्रकाशकमुमारूपं स्वशक्तिप्रदं
मायातीतपदप्रदं हृदि भजे लोकेश्वराराधितम् ॥ 3॥
क्लीम्बीजं कलिधातुवत्कलयतां सर्वेष्टदं देहिनां
धातृक्ष्मायुतशान्तिबिन्दुविलसद्वर्णात्मकं कामदम् ।
श्रीकृष्णप्रियमिन्दिरासुतमनःप्रीत्येकहेतुं परं
हृत्पद्मे कलये सदा कलिहरं कालारिपुत्रप्रियम् ॥ 4॥
ग्लौम्बीजं गुणरूपनिर्गुणपरब्रह्मादिशक्तेर्महा-
हङ्काराकृतिदण्डिनीप्रियमजश्रीनाथरुद्रेष्टदम् ।
सर्वाकर्षिणिदेवराजभुवनार्णेन्द्वात्मकं श्रीकरं
चित्ते विघ्ननिवारणाय गिरिजजातप्रियं भावये ॥ 5॥
गङ्गासुतं गन्धमुखोपचारप्रियं खगारोहणभागिनेयम् ।
गङ्गासुताद्यं वरगन्धतत्त्वमूलाम्बुजस्थं हृदि भावयेऽहम् ॥ 6॥
गणपतये वरगुणनिधये सुरगणपतये नतजनततये ।
मणिगणभूषितचरणयुगाश्रितमलहरणे चण ते नमः ॥ 7॥
वराभये मोदकमेकदन्तं कराम्बुजातैः सततं धरन्तम् ।
वराङ्गचन्द्रं परभक्तिसान्द्रैर्जनैर्भजन्तं कलये सदाऽन्तः ॥ 8॥
वरद नतजनानां सन्ततं वक्रतुण्ड
स्वरमयनिजगात्र स्वात्मबोधैकहेतो ।
करलसदमृताम्भोपूर्णपत्राद्य मह्यं
गरगलसुत शीघ्रं देहि मद्बोधमीड्यम् ॥ 9॥
सर्वजनं परिपालय शर्वज
पर्वसुधाकरगर्वहर ।
पर्वतनाथसुतासुत पालय
खर्वं मा कुरु दीनमिमम् ॥ 10 ॥
मेदोऽस्थिमांसरुधिरान्त्रमये शरीरे
मेदिन्यबग्निमरुदम्बरलास्यमाने ।
मे दारुणं मदमुखाघमुमाज हृत्वा
मेधाह्वयासनवरे वस दन्तिवक्त्र ॥ 11॥
वशं कुरु त्वं शिवजात मां ते वशीकृताशेषसमस्तलोक ।
वसार्णसंशोभितमूलपद्मलसच्छ्रियाऽलिङ्तवारणास्य ॥ 12॥
आनयाशुपदवारिजान्तिकं मां नयादिगुणवर्जितं तव ।
हानिहीनपदजामृतस्य ते पानयोग्यमिभवक्त्र मां कुरु ॥ 13॥
स्वाहास्वरूपेण विराजसे त्वं सुधाशनानां प्रियकर्मणीड्यम् ।
स्वधास्वरूपेण तु पित्र्यकर्मण्युमासुतेज्यामयविश्वमूर्ते ॥ 14॥
अष्टाविंशतिवर्णपत्रलसितं हारं गणेशप्रियं
कष्टाऽनिष्टहरं चतुर्दशपदैः पुष्पैर्मनोहारकम् ।
तुष्ट्यादिप्रदसद्गुरुत्तमपदाम्भोजे चिदानन्ददं
शिष्टेष्टोऽहमनन्तसूत्रहृदयाऽऽबद्धं सुभक्त्याऽर्पये ॥ 15॥
॥ इति श्रीअनन्तानन्दकृतं श्रीगुरुचिदानन्दनाथसमर्पितं श्रीमहागणपतिमूलमन्त्रमालास्तोत्रम् ॥

Explore More