Lord Ganesha

श्री गणेश मन्त्रप्रभाव स्तुतिः

(Sri Ganesa Mantraprabhava Stutih)

Subrahmanya Yogi

Also known as sri ganesha prabhava stuti · shri ganesa mantraprabhava stutih · shree ganesa mantraprabhava stutih

The fourth of Subrahmanya Yogi's hymns in this cluster, and what it expounds is the mantra rather than the god: each verse takes one syllable, says what that syllable does, and says where it sits. Om first, which the knowers of the Veda utter at the beginning and to which Brahma and the rest bow when they set the world in order. Then the syllable ga, and its verse is packed with words that begin the same way — he goes to accomplishment, he goes to the far shore of the sea of becoming, he is the splitter of the knot of pride. Then the next, whose verse names the corner of the diagram it is written into, to the west, and calls it the seed that nourishes whoever meditates. Every verse closes alike: him, the lord of obstacles, destroyer of sorrow, I hold in mind.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

Reading depth
Lyrics
ओमित्यादौ वेदविदो यं प्रवदन्ति
ब्रह्माद्या यं लोकविधाने प्रणमन्ति ।
योऽन्तर्यामी प्राणिगणानां हृदयस्थः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ १ ॥
गङ्गागौरीशङ्करसन्तोषकवृत्तं
गन्धर्वालीगीतचरित्रं सुपवित्रम् ।
यो देवानामादिरनादिर्जगदीशः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ २ ॥
गच्छेत्सिद्धिं यन्मनुजापी कार्याणां
गन्ता पारं संसृतिसिन्धोर्यद्वेत्ता ।
गर्वग्रन्थेर्यः किल भेत्ता गणराजः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ३ ॥
तण्येत्युच्चैर्वर्णजमादौ पूजार्थं
यद्यन्त्रान्तः पश्चिमकोणे निर्दिष्टम् ।
बीजं ध्यातुः पुष्टिदमाथ्वरणवाक्यैः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ४ ॥
पद्भ्यां पद्मश्रीमदहृद्भ्यां प्रत्यूषे
मूलाधाराम्भोरुह भास्वद्भानुभ्याम् ।
योगी यस्य प्रत्यहमजपार्पणदक्षः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ५ ॥
तत्त्वं यस्य श्रुतिगुरुवाक्यैरधिगत्य
ज्ञानी प्रारब्धानुभवान्ते निजधाम ।
शान्ताविद्यस्तत्कृतबोधः स्वयमीयात्
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ६ ॥
ये ये भोगा लोकहितार्थाः सपुमार्थाः
ये ये योगाः साध्यसुलोकाः सुकृतार्थाः ।
ते सर्वे स्युर्यन्मनुजपतः पुरुषाणां
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ७ ॥
नत्वा नित्यं यस्य पदाब्जं मुहुरर्थी
निर्द्वैतात्माखण्डसुखः स्याद्धतमोहः ।
कामान्प्राप्नोतीति किमाश्चर्यमिदानीं
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ८ ॥
मस्तप्रोद्यच्चन्द्रकिशोरं करिवक्त्रं
पुस्ताक्षस्रक्पाश सृणीस्फीतकराब्जम् ।
शूर्पश्रोत्रं सुन्दरगात्रं शिवपुत्रं
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ९ ॥
सिद्धान्तार्थां सिद्धिगणेशस्तुतिमेनां
सुब्रह्मण्याह्वयसूर्युक्तामनुयुक्ताम् ।
उक्त्वा श्रुत्वापेक्षितकार्यं निर्विघ्नं
मुक्त्वा मोहं बोधमुपेयात्तद्भक्तः ॥ १० ॥
इति श्रीसुब्रह्मण्ययोगि कृत श्रीगणेशमन्त्रप्रभाव स्तुतिः ।

Explore More