Lord Ganesha

श्री मयूरेश स्तुतिः

(Sri Mayuresa Stutih)

Also known as sri mayuresha stuti · mayuresha stuti · mayureshwara stuti

Fifteen verses to Ganesha as Mayuresha, the peacock-mounted, and distinct from the shorter Mayuresha Stotra also collected here. Salutation to the peacock-borne, to the bearer of the peacock banner, to him whose very name is Mayureshvara, to Ganesha, salutation upon salutation. The second verse turns to whom he is for: protector of those with no protector, lord of those whose pride is gone, mover of maya, lord of obstacles. The hymn keeps that double motion throughout, one line of iconography and one line of relation, so that the peacock and the banner never stand on their own. The closing verse gives the fruit in the god's own voice: whoever reads, or hears, or causes it to be heard, obtains supreme enjoyment, release, and devotion to me.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

Reading depth
Lyrics
अथ श्री मयूरेश स्तुतिः
देवर्षय ऊचुः ।
नमस्ते शिखिवाहाय मयूरध्वजधारिणे ।
मयूरेश्वरनाम्ने वै गणेशाय नमो नमः ॥ १ ॥
अनाथानां प्रणाथाय गताहङ्कारिणां पते ।
मायाप्रचालकायैव विघ्नेशाय नमो नमः ॥ २ ॥
सर्वानन्दप्रदात्रे ते सदा स्वानन्दवासिने ।
स्वस्वधर्मरतानां च पालकाय नमो नमः ॥ ३ ॥
अनादये परेशाय दैत्यदानवमर्दिने ।
विधर्मस्थस्वभावानां हर्त्रे विकट ते नमः ॥ ४ ॥
शिवपुत्राय सर्वेषां मात्रे पित्रे नमो नमः ।
पार्वतीनन्दनायैव स्कन्दाग्रज नमो नमः ॥ ५ ॥
नानावताररूपैस्तु विश्वसंस्थाकराय ते ।
काश्यपाय नमस्तुभ्यं शेषपुत्राय ते नमः ॥ ६ ॥
सिन्धुहन्त्रे च हेरम्बाय परशुधराय ते ।
देवदेवेश पालाय ब्रह्मणां पतये नमः ॥ ७ ॥
योगेशाय सुशान्तिभ्यः शान्तिदात्रे कृपालवे ।
अनन्ताननबाहो तेऽनन्तोदर नमो नमः ॥ ८ ॥
अनन्तविभवायैव चित्तवृत्तिप्रचालक ।
सर्वहृत्स्थाय सर्वेषां पूज्याय ते नमो नमः ॥ ९ ॥
सर्वादिपूज्यरूपाय ज्येष्ठराजाय ते नमः ।
गणानां पतये चैव सिद्धिबुद्धिवराय च ॥ १० ॥
किं स्तुमस्त्वां मयूरेश यत्र वेदादयः प्रभो ।
योगिनः शान्तिमापन्ना अतो नमामहे वयम् ॥ ११ ॥
तेन तुष्टो भव स्वामिन् दयाघन प्रवर्तक ।
त्वदीयाङ्गसमुद्भूतान् रक्ष नो नित्यदा प्रभो ॥ १२ ॥
एवं स्तुत्वा प्रणेमुस्तं ततो देवोऽब्रवीन् स तान् ।
वरान् वृणुत देवेशा मुनिभिश्च समन्विताः ॥ १३ ॥
फलश्रुतिः ।
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति महाभागा मम प्रीतिविवर्धनम् ॥ १४ ॥
यः पठेच्छृणुयाद्वापि श्रावयेत्स लभत् पराम् ।
भुक्तिं मुक्तिं मदीयां तु नरो भक्तिं न संशयः ॥ १५ ॥
इति श्रीमन्मुद्गले महापुराणे षष्ठे खण्डे श्री मयूरेश स्तुतिः ।

Explore More