तां ब्रह्मणाप निर्णुद्मः प्रत्यक्कर्तारमृच्छतु ॥ १ ॥
यः प्राहिणोदिहाद्य त्वां वि तं त्वं योजयासुभिः ॥ २ ॥
तमेवेतो निवर्तस्व मास्मान् मृच्छो अनागसः ॥ ३ ॥
आयुरस्य निकृन्तस्व प्रजां च पुरुषादिनि ॥ ४ ॥
अरातीः कृत्ये नाशय सर्वाश्च यातुधान्यः ॥ ५ ॥
पशूंश्चैवास्य नाशय वीरांश्चास्य नि बर्हय ॥ ६ ॥
तस्त्यैवेतः परेत्याशु तनुं कृधि परुष्परुः ॥ ७ ॥
अग्निश्च कृत्ये रक्षोहा रिप्रहा चाज एकपात् ॥ ८ ॥
अत्रयश्च वसिष्ठाश्च तथैव त्वाप सेधिम ॥ ९ ॥
तं गच्छ तत्र तेऽयनमज्ञातस्ते अयं जनः ॥ १० ॥
तस्य त्वं द्रोरिवेद्धोऽग्निस्तनूमृच्छस्व हेळिता ॥ ११ ॥
हरस्वती त्वं च कृत्ये मोच्छिषस्तस्य किंचन ॥ १२ ॥
दूरस्थो वान्तिकस्थो वा तस्य हृद्यमसृक् पिब ॥ १३ ॥
तस्य व्यानच्चाव्यानच्च हिनस्तु हरसाशनिः ॥ १४ ॥
तैर्देवि रात्र्याः कृत्या नो गमयस्वानुकृत्तये ॥ १५ ॥
निरस्तेतो व्रजास्माभिः कर्तुरष्टापदी गृहान् ॥ १६ ॥
वृक्षमिव विद्युदाशु तमामूलादनुशोषय ॥ १७ ॥
शुने पिष्टमिव क्षामं तं प्रत्यस्य स्वमृत्यवे ॥ १८ ॥
ब्रह्मा च यत्क्रुद्धः शपात्सर्वं तत्कृध्यधस्पदम् ॥ १९ ॥
तस्य त्वं भिन्द्यधिष्ठाय पदा विस्फूर्य तच्छिरः ॥ २० ॥
शत्रूनन्विच्छती कृत्ये वृकीवाविमतो गृहान् ॥ २१ ॥
शत्रूनेवाभितो जहि दिव्या वृक्षमिवाशनिः ॥ २२ ॥
जिह्माः श्लक्ष्णाश्च दुर्हृदः समिद्धं जातवेदसम् ॥ २३ ॥
अभयं सततं पश्चाद्भद्रमुत्तरतो गृहे ॥ २४ ॥
मृगस्य हि मृगारिपो न त्वा निकर्तुमर्हति ॥ २५ ॥
जृम्भिता प्रतिगृभ्णीष्व स्वयमादाय चाद्भुतम् ॥ २६ ॥
त्वं ब्रह्मा चैव रुद्रश्च त्वष्टा चैव प्रजापतिः ॥ २७ ॥
अहोरात्राश्चाब्दाश्च त्वं दिशः प्रदिशश्च मे ॥ २८ ॥
अत्राहृत्य पशूंश्चैवमुत्पादयसि चाद्भुतम् ॥ २९ ॥
कुम्भीपाकं नरकं ग्रीवबद्धं हता एवं पुरुषासो यमस्य ॥ ३० ॥
जानीथाश्चैव कृत्यानां कर्तॄन् नॄन् पापचेतसः ॥ ३१ ॥
तथा त्वया युजा वयं निकृण्म स्थास्नु जङ्गमम् ॥ ३२ ॥
ग्रीवास्ते कृत्ये पादौ चाभि कर्त्स्यामि विद्रव ॥ ३३ ॥
तैस्ते निकृण्मस्तान्युग्रे यदि नो जीवयस्वरीन् ॥ ३४ ॥
मा ज्ञातीननुजान्पूर्वान्मा वेशि प्रतिवेशिनौ ॥ ३५ ॥
ततस्तथा त्वा नुदतु योऽयमन्तर्मयि श्रितः ॥ ३६ ॥
यथेतमाश्रिता गत्वा पापदीनिव नो जहि ॥ ३७ ॥
एवं स प्रतिशुष्यतु यो मे पापं चिकीर्षति ॥ ३८ ॥
पापं तमेवं धावतु यो मे पापं चिकीर्षति ॥ ३९ ॥
देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥ ४० ॥
अव ब्रह्मद्विषो जहि ॥ ४१ ॥
ज्वरमृत्युभयं घोरं विश नाशय मे ज्वरम् ॥ ४२ ॥
यो मे केशनखे कुर्यादञ्जने दन्तधावने ॥ ४३ ॥
मूर्धानमेषां स्फोटय पदमेषां कुले कृधि ॥ ४४ ॥
तेषां वपूंष्यर्चिषा जातवेदः शुष्कं न वृक्षमभि सं दहस्व ॥ ४५ ॥
देवि देवि महादेवि मम शत्रून् विनाशय ॥ ४६ ॥
जहि शत्रूंस्त्रिशूलेन क्रुध्यस्व पिब शोणितम् ॥ ४७ ॥
आबध्यैतान् शोचिषा विध्य तन्तून् वैवस्वतस्य सदनं नयस्व ॥ ४८ ॥
