गृत्समद उवाच ।
बन्दीजनैर्मागधकैः स्मृतानि ।
श्रुत्वा समुत्तिष्ठ गजानन त्वं
ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥ 1 ॥
- विघ्नेशवीर्याणि (vighneśavīryāṇi)the deeds of the lord of obstacles
- विचित्रकाणि (vicitrakāṇi)wonderful
- बन्दीजनैः (bandījanaiḥ)by the bards
- मागधकैः (māgadhakaiḥ)by the singers of Magadha
- स्मृतानि (smṛtāni)called to mind
- श्रुत्वा (śrutvā)having heard
- समुत्तिष्ठ (samuttiṣṭha)rise up
- गजानन (gajānana)Gajanana
- त्वम् (tvam)you
- ब्राह्मे (brāhme)in the hour before dawn
- जगन्मङ्गलकम् (jaganmaṅgalakam)the good of the world
- कुरुष्व (kuruṣva)set about
anvaya बन्दीजनैः मागधकैः स्मृतानि विचित्रकाणि विघ्नेशवीर्याणि श्रुत्वा गजानन त्वम् समुत्तिष्ठ ब्राह्मे जगन्मङ्गलकम् कुरुष्व
chandas Upajāti, 11 syllables in each of 4 pādas
ब्राह्म the hour before dawn — The brāhma muhūrta, the watch of about an hour and a half before sunrise, when a king was woken by his bards and a god is woken by his worshipper.
मागध the singers of Magadha — The hereditary singers who woke a king by reciting his family's deeds. The whole worship that follows is built on the daily round of a king's household.
note Nothing in this worship is done with the hands. Every act of it, from the waking here to the putting to bed at the end, is carried out in the mind, which is what mānasa pūjā means.
-श्चित्तेन चोत्थाय बहिर्गणेशः ।
तं निर्गतं वीक्ष्य नमन्ति देवाः
शम्भ्वादयो योगिमुखास्तथाहम् ॥ 2 ॥
- एवम् (evam)in this way
- मया (mayā)by me
- प्रार्थितः (prārthitaḥ)prayed to
- विघ्नराजः (vighnarājaḥ)the king of obstacles
- चित्तेन (cittena)in my mind
- च (ca)and
- उत्थाय (utthāya)having risen
- बहिः (bahiḥ)out
- गणेशः (gaṇeśaḥ)Ganesha
- तम् (tam)him
- निर्गतम् (nirgatam)come out
- वीक्ष्य (vīkṣya)seeing
- नमन्ति (namanti)bow
- देवाः (devāḥ)the gods
- शम्भ्वादयः (śambhvādayaḥ)Shambhu and the rest
- योगिमुखाः (yogimukhāḥ)the first among yogis
- तथा (tathā)and so
- अहम् (aham)I
anvaya एवम् मया चित्तेन प्रार्थितः विघ्नराजः गणेशः उत्थाय च बहिः निर्गतम् तम् वीक्ष्य शम्भ्वादयः देवाः योगिमुखाः तथा अहम् नमन्ति
chandas Upajāti, 11 syllables in each of 4 pādas
हेरम्ब वै दन्तविशुद्धिमेवम् ।
वस्त्रेण सम्प्रोक्ष्य मुखारविन्दं
देवं सभायां विनिवेशयामि ॥ 3 ॥
- शौचादिकम् (śaucādikam)your washing and the rest
- ते (te)your
- परिकल्पयामि (parikalpayāmi)I arrange
- हेरम्ब (heramba)Heramba
- वै (vai)indeed
- दन्तविशुद्धिम् (dantaviśuddhim)the cleaning of your tusk
- एवम् (evam)in the same way
- वस्त्रेण (vastreṇa)with a cloth
- सम्प्रोक्ष्य (samprokṣya)having wiped
- मुखारविन्दम् (mukhāravindam)your lotus face
- देवम् (devam)the god
- सभायाम् (sabhāyām)in the hall
- विनिवेशयामि (viniveśayāmi)I seat
anvaya हेरम्ब ते शौचादिकम् एवम् वै दन्तविशुद्धिम् परिकल्पयामि वस्त्रेण मुखारविन्दम् सम्प्रोक्ष्य देवम् सभायाम् विनिवेशयामि
chandas Upajāti, 11 syllables in each of 4 pādas
शुकादिभिर्मोदसुमोदकाद्यैः ।
सम्भाष्य चालोक्य समुत्थितं तं
सुमण्डपं कल्प्य निवेशयामि ॥ 4 ॥
- द्विजादिसर्वैः (dvijādisarvaiḥ)by the twice-born and by everyone
- अभिवन्दितम् (abhivanditam)greeted
- च (ca)and
- शुकादिभिः (śukādibhiḥ)by Shuka and the rest
- मोदसुमोदकाद्यैः (modasumodakādyaiḥ)by Moda and Sumodaka and the others
- सम्भाष्य (sambhāṣya)having spoken with him
- च (ca)and
- आलोक्य (ālokya)having looked at him
- समुत्थितम् (samutthitam)risen
- तम् (tam)him
- सुमण्डपम् (sumaṇḍapam)a fine pavilion
- कल्प्य (kalpya)having built
- निवेशयामि (niveśayāmi)I seat him
anvaya द्विजादिसर्वैः च शुकादिभिः मोदसुमोदकाद्यैः अभिवन्दितम् समुत्थितम् तम् सम्भाष्य च आलोक्य सुमण्डपम् कल्प्य निवेशयामि
chandas Upajāti, 11 syllables in each of 4 pādas
मोद, सुमोदक Moda and Sumodaka — Two of the attendants named in the Mudgala Purana, whose names mean gladness and the sweet that carries it.
पश्यामि चित्तेन विनायकं च ।
तत्रासनं रत्नसुवर्णयुक्तं
सङ्कल्प्य देवं विनिवेशयामि ॥ 5 ॥
- रत्नैः (ratnaiḥ)in jewels
- सुदीप्तैः (sudīptaiḥ)bright
- प्रतिबिम्बितम् (pratibimbitam)thrown back
- तम् (tam)him
- पश्यामि (paśyāmi)I see
- चित्तेन (cittena)in my mind
- च (ca)and
- विनायकम् (vināyakam)Vinayaka
- तत्र (tatra)there
- आसनम् (āsanam)a seat
- रत्नसुवर्णयुक्तम् (ratnasuvarṇayuktam)of jewel and gold
- सङ्कल्प्य (saṅkalpya)having fashioned
- देवम् (devam)the god
- विनिवेशयामि (viniveśayāmi)I set
anvaya सुदीप्तैः रत्नैः प्रतिबिम्बितम् तम् विनायकम् च चित्तेन पश्यामि तत्र रत्नसुवर्णयुक्तम् आसनम् सङ्कल्प्य देवम् विनिवेशयामि
chandas Upajāti, 11 syllables in each of 4 pādas
पाद्यं कुरु प्रेमभरेण सर्वैः ।
सुवासितं नीरमथो गृहाण
चित्तेन दत्तं च सुखोष्णभावम् ॥ 6 ॥
- सिद्ध्या (siddhyā)with Siddhi
- च (ca)and
- बुद्ध्या (buddhyā)with Buddhi
- सह (saha)together
- विघ्नराज (vighnarāja)king of obstacles
- पाद्यम् (pādyam)the water for your feet
- कुरु (kuru)accept
- प्रेमभरेण (premabhareṇa)with a full heart
- सर्वैः (sarvaiḥ)by us all
- सुवासितम् (suvāsitam)scented
- नीरम् (nīram)water
- अथो (atho)then
- गृहाण (gṛhāṇa)take
- चित्तेन (cittena)in the mind
- दत्तम् (dattam)given
- च (ca)and
- सुखोष्णभावम् (sukhoṣṇabhāvam)pleasantly warm
anvaya विघ्नराज सिद्ध्या च बुद्ध्या सह सर्वैः प्रेमभरेण पाद्यम् कुरु अथो चित्तेन दत्तम् सुवासितम् सुखोष्णभावम् च नीरम् गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
सिद्धि, बुद्धि Siddhi and Buddhi — Success and Understanding, his two consorts, who sit with him through the whole of this worship.
सम्प्रोक्ष्य दूर्वादिभिरर्चयामि ।
चित्तेन भावप्रिय दीनबन्धो
मनो विलीनं कुरु ते पदाब्जे ॥ 7 ॥
- ततः (tataḥ)then
- सुवस्त्रेण (suvastreṇa)with a good cloth
- गणेशम् (gaṇeśam)Ganesha
- आदौ (ādau)first
- सम्प्रोक्ष्य (samprokṣya)having wiped
- दूर्वादिभिः (dūrvādibhiḥ)with durva and the rest
- अर्चयामि (arcayāmi)I worship
- चित्तेन (cittena)in my mind
- भावप्रिय (bhāvapriya)lover of true feeling
- दीनबन्धो (dīnabandho)friend of the helpless
- मनः (manaḥ)my mind
- विलीनम् (vilīnam)melted away
- कुरु (kuru)make
- ते (te)your
- पदाब्जे (padābje)at the lotus feet
anvaya ततः आदौ सुवस्त्रेण गणेशम् सम्प्रोक्ष्य दूर्वादिभिः अर्चयामि भावप्रिय दीनबन्धो चित्तेन मनः ते पदाब्जे विलीनम् कुरु
chandas Upajāti, 11 syllables in each of 4 pādas
सुकल्पितं तोयमथो गृहाण ।
आचम्य तेनैव गजानन त्वं
कृपाकटाक्षेण विलोकयाशु ॥ 8 ॥
- कर्पूरकैलादिसुवासितम् (karpūrakailādisuvāsitam)scented with camphor and cardamom
- तु (tu)now
- सुकल्पितम् (sukalpitam)well made ready
- तोयम् (toyam)water
- अथो (atho)then
- गृहाण (gṛhāṇa)take
- आचम्य (ācamya)having sipped
- तेन एव (tena eva)with that very water
- गजानन (gajānana)Gajanana
- त्वम् (tvam)you
- कृपाकटाक्षेण (kṛpākaṭākṣeṇa)with a glance of grace
- विलोकय (vilokaya)look
- आशु (āśu)at once
anvaya अथो कर्पूरकैलादिसुवासितम् सुकल्पितम् तोयम् तु गृहाण गजानन त्वम् तेन एव आचम्य आशु कृपाकटाक्षेण विलोकय
chandas Upajāti, 11 syllables in each of 4 pādas
सुसंस्कृतं ह्यन्तरभावकेन ।
अनर्घ्यमर्घ्यं सफलं कुरुष्व
मया प्रदत्तं गणराज ढुण्ढे ॥ 9 ॥
- प्रवालमुक्ताफलहाटकाद्यैः (pravālamuktāphalahāṭakādyaiḥ)with coral, pearl, gold and the rest
- सुसंस्कृतम् (susaṃskṛtam)well made ready
- हि (hi)indeed
- अन्तरभावकेन (antarabhāvakena)by the feeling within
- अनर्घ्यम् (anarghyam)priceless
- अर्घ्यम् (arghyam)the water of welcome
- सफलम् (saphalam)fruitful
- कुरुष्व (kuruṣva)make
- मया (mayā)by me
- प्रदत्तम् (pradattam)held out
- गणराज (gaṇarāja)king of the ganas
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
anvaya गणराज ढुण्ढे प्रवालमुक्ताफलहाटकाद्यैः अन्तरभावकेन हि सुसंस्कृतम् मया प्रदत्तम् अनर्घ्यम् अर्घ्यम् सफलम् कुरुष्व
chandas Upajāti, 11 syllables in each of 4 pādas
अर्घ्य the water of welcome — The water held out to an honoured guest on arrival, with a few small valuables dropped into it.
सङ्कल्पितं भावयुतं गृहाण ।
पुनस्तथाचम्य विनायक त्वं
भक्तांश्च भक्तेश सुरक्षयाशु ॥ 10 ॥
- सौगन्ध्ययुक्तम् (saugandhyayuktam)fragrant
- मधुपर्कम् (madhuparkam)the madhuparka
- आद्यम् (ādyam)first of the offerings
- सङ्कल्पितम् (saṅkalpitam)fashioned
- भावयुतम् (bhāvayutam)with feeling
- गृहाण (gṛhāṇa)take
- पुनः (punaḥ)again
- तथा (tathā)so
- आचम्य (ācamya)having sipped
- विनायक (vināyaka)Vinayaka
- त्वम् (tvam)you
- भक्तान् (bhaktān)your devotees
- च (ca)and
- भक्तेश (bhakteśa)lord of devotees
- सुरक्षय (surakṣaya)guard well
- आशु (āśu)quickly
anvaya सौगन्ध्ययुक्तम् आद्यम् भावयुतम् सङ्कल्पितम् मधुपर्कम् गृहाण विनायक भक्तेश त्वम् पुनः तथा आचम्य च भक्तान् आशु सुरक्षय
chandas Upajāti, 11 syllables in each of 4 pādas
मधुपर्क the madhuparka — The mixture of honey and curd set before a guest of honour.
-स्तैलं मया कल्पितमेव ढुण्ढे ।
गृहाण तेन प्रविमर्दयामि
सर्वाङ्गमेवं तव सेवनाय ॥ 11 ॥
- सुवासितम् (suvāsitam)scented
- चम्पकजातिकाद्यैः (campakajātikādyaiḥ)with champaka and jasmine and the rest
- तैलम् (tailam)oil
- मया (mayā)by me
- कल्पितम् (kalpitam)made
- एव (eva)indeed
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
- गृहाण (gṛhāṇa)take
- तेन (tena)with it
- प्रविमर्दयामि (pravimardayāmi)I rub
- सर्वाङ्गम् (sarvāṅgam)every limb
- एवम् (evam)so
- तव (tava)of yours
- सेवनाय (sevanāya)that I may serve you
anvaya ढुण्ढे मया कल्पितम् चम्पकजातिकाद्यैः सुवासितम् एव तैलम् गृहाण तेन एवम् तव सेवनाय सर्वाङ्गम् प्रविमर्दयामि
chandas Upajāti, 11 syllables in each of 4 pādas
-मनेकतीर्थाहृतकेन ढुण्ढे ।
चित्तेन शुद्धेन च स्नापयामि
स्नानं मया दत्तमथो गृहाण ॥ 12 ॥
- ततः (tataḥ)then
- सुखोष्णेन (sukhoṣṇena)pleasantly warm
- जलेन (jalena)with water
- च (ca)and
- अहम् (aham)I
- अनेकतीर्थाहृतकेन (anekatīrthāhṛtakena)carried from many holy fords
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
- चित्तेन (cittena)with a mind
- शुद्धेन (śuddhena)clean
- च (ca)and
- स्नापयामि (snāpayāmi)I bathe you
- स्नानम् (snānam)the bath
- मया (mayā)by me
- दत्तम् (dattam)given
- अथो (atho)now
- गृहाण (gṛhāṇa)accept
anvaya ततः ढुण्ढे अहम् अनेकतीर्थाहृतकेन सुखोष्णेन जलेन च शुद्धेन चित्तेन च स्नापयामि अथो मया दत्तम् स्नानम् गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
note What follows is the pañcāmṛta bath: milk, curd, ghee, honey and sugar, each one rinsed off with water before the next is poured.
गृहाण तोयस्य तथा गणेश ।
पुनर्दधिस्नानमनामय त्वं
चित्तेन दत्तं च जलस्य चैव ॥ 13 ॥
- ततः (tataḥ)then
- पयःस्नानम् (payaḥsnānam)the bath of milk
- अचिन्त्यभाव (acintyabhāva)you whose being is past thought
- गृहाण (gṛhāṇa)take
- तोयस्य (toyasya)of water
- तथा (tathā)and likewise
- गणेश (gaṇeśa)Ganesha
- पुनः (punaḥ)again
- दधिस्नानम् (dadhisnānam)the bath of curd
- अनामय (anāmaya)you in whom nothing ails
- त्वम् (tvam)you
- चित्तेन (cittena)in the mind
- दत्तम् (dattam)given
- च (ca)and
- जलस्य (jalasya)of water
- च (ca)and
- एव (eva)again
anvaya अचिन्त्यभाव गणेश ततः पयःस्नानम् तथा तोयस्य गृहाण अनामय त्वम् पुनः चित्तेन दत्तम् दधिस्नानम् च एव जलस्य च
chandas Upajāti, 11 syllables in each of 4 pādas
सुतीर्थजं विघ्नहर प्रसीद ।
गृहाण चित्तेन सुकल्पितं तु
ततो मधुस्नानमथो जलस्य ॥ 14 ॥
- ततः (tataḥ)then
- घृतस्नानम् (ghṛtasnānam)the bath of ghee
- अपारवन्द्य (apāravandya)you whom the endless ones worship
- सुतीर्थजम् (sutīrthajam)drawn from good fords
- विघ्नहर (vighnahara)remover of obstacles
- प्रसीद (prasīda)be gracious
- गृहाण (gṛhāṇa)take
- चित्तेन (cittena)in the mind
- सुकल्पितम् (sukalpitam)well made ready
- तु (tu)indeed
- ततः (tataḥ)then
- मधुस्नानम् (madhusnānam)the bath of honey
- अथो (atho)and then
- जलस्य (jalasya)of water
anvaya विघ्नहर अपारवन्द्य ततः सुतीर्थजम् घृतस्नानम् प्रसीद चित्तेन सुकल्पितम् तु गृहाण ततः मधुस्नानम् अथो जलस्य
chandas Upajāti, 11 syllables in each of 4 pādas
स्नानं मया कल्पितमेव ढुण्ढे ।
ततो जलस्नानमघापहन्तृ
विघ्नेश मायाभ्रमं वारयाशु ॥ 15 ॥
- सुशर्करायुक्तम् (suśarkarāyuktam)with good sugar
- अथो (atho)then
- गृहाण (gṛhāṇa)take
- स्नानम् (snānam)the bath
- मया (mayā)by me
- कल्पितम् (kalpitam)made
- एव (eva)indeed
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
- ततः (tataḥ)then
- जलस्नानम् (jalasnānam)the bath of water
- अघापहन्तृ (aghāpahantṛ)destroyer of wrong
- विघ्नेश (vighneśa)lord of obstacles
- मायाभ्रमम् (māyābhramam)the wandering that maya brings
- वारय (vāraya)hold back
- आशु (āśu)quickly
anvaya ढुण्ढे अथो मया कल्पितम् एव सुशर्करायुक्तम् स्नानम् गृहाण अघापहन्तृ ततः जलस्नानम् विघ्नेश मायाभ्रमम् आशु वारय
chandas Upajāti, 11 syllables in each of 4 pādas
स्नानं परेशाधिपते ततश्च ।
कौमण्डलीसम्भवजं कुरुष्व
विशुद्धमेवं परिकल्पितं तु ॥ 16 ॥
- सुयक्षपङ्कस्थम् (suyakṣapaṅkastham)with the fragrant yaksha paste
- अथो (atho)then
- गृहाण (gṛhāṇa)take
- स्नानम् (snānam)the bath
- परेशाधिपते (pareśādhipate)lord of the highest lords
- ततः (tataḥ)after that
- च (ca)and
- कौमण्डलीसम्भवजम् (kaumaṇḍalīsambhavajam)from the water of the pitcher
- कुरुष्व (kuruṣva)make
- विशुद्धम् (viśuddham)pure
- एवम् (evam)so
- परिकल्पितम् (parikalpitam)as I have made it
- तु (tu)indeed
anvaya परेशाधिपते अथो सुयक्षपङ्कस्थम् स्नानम् गृहाण ततः च एवम् परिकल्पितम् विशुद्धम् कौमण्डलीसम्भवजम् तु कुरुष्व
chandas Upajāti, 11 syllables in each of 4 pādas
यक्षपङ्क the yaksha paste — Yakṣakardama, a thick scented paste of camphor, sandal, saffron and aloe, rubbed on before the final rinse.
सम्पूज्य दूर्वादिभिरल्पभावैः ।
अपारकैर्मण्डलभूतब्रह्म-
-णस्पत्यकैस्तं ह्यभिषेचयामि ॥ 17 ॥
- ततः (tataḥ)then
- तु (tu)indeed
- सूक्तैः (sūktaiḥ)with the hymns
- मनसा (manasā)in my mind
- गणेशम् (gaṇeśam)Ganesha
- सम्पूज्य (sampūjya)having worshipped
- दूर्वादिभिः (dūrvādibhiḥ)with durva and the rest
- अल्पभावैः (alpabhāvaiḥ)small as my offering is
- अपारकैः (apārakaiḥ)endless
- मण्डलभूतब्रह्मणस्पत्यकैः (maṇḍalabhūtabrahmaṇaspatyakaiḥ)with the Brahmanaspati verses of the circle
- तम् (tam)him
- हि (hi)indeed
- अभिषेचयामि (abhiṣecayāmi)I pour the bath over
anvaya ततः तु सूक्तैः अल्पभावैः दूर्वादिभिः मनसा गणेशम् सम्पूज्य अपारकैः मण्डलभूतब्रह्मणस्पत्यकैः तम् हि अभिषेचयामि
chandas Upajāti, 11 syllables in each of 4 pādas
ब्रह्मणस्पत्य the Brahmanaspati verses — The Rig Veda verses to Brahmanaspati, the oldest of which names Ganapati; they are chanted while the water is poured.
गृहाण चित्तेन मया सुकल्पितम् ।
ततो विशुद्धेन जलेन ढुण्ढे
ह्याचान्तमेवं कुरु विघ्नराज ॥ 18 ॥
- ततः (tataḥ)then
- सुवस्त्रेण (suvastreṇa)with a fine cloth
- तु (tu)indeed
- प्रोञ्छनम् (proñchanam)the drying
- त्वम् (tvam)you
- गृहाण (gṛhāṇa)take
- चित्तेन (cittena)in my mind
- मया (mayā)by me
- सुकल्पितम् (sukalpitam)well made ready
- ततः (tataḥ)then
- विशुद्धेन (viśuddhena)with clean
- जलेन (jalena)water
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
- हि (hi)indeed
- आचान्तम् (ācāntam)the sipping
- एवम् (evam)so
- कुरु (kuru)take
- विघ्नराज (vighnarāja)king of obstacles
anvaya ततः मया चित्तेन सुकल्पितम् सुवस्त्रेण तु प्रोञ्छनम् त्वम् गृहाण ढुण्ढे विघ्नराज ततः विशुद्धेन जलेन हि एवम् आचान्तम् कुरु
chandas Upajāti, 11 syllables in each of 4 pādas
ह्यनर्घ्यमौल्ये मनसा मया ते ।
दत्ते परिच्छाद्य निजात्मदेहं
ताभ्यां मयूरेश जनांश्च पालय ॥ 19 ॥
- अग्नौ (agnau)in fire
- विशुद्धे (viśuddhe)cleansed
- तु (tu)indeed
- गृहाण (gṛhāṇa)take
- वस्त्रे (vastre)the two garments
- हि (hi)indeed
- अनर्घ्यमौल्ये (anarghyamaulye)of worth past reckoning
- मनसा (manasā)in mind
- मया (mayā)by me
- ते (te)to you
- दत्ते (datte)given
- परिच्छाद्य (paricchādya)having covered
- निजात्मदेहम् (nijātmadeham)your own body
- ताभ्याम् (tābhyām)with them
- मयूरेश (mayūreśa)Mayuresha
- जनान् (janān)your people
- च (ca)and
- पालय (pālaya)look after
anvaya मयूरेश मनसा मया ते दत्ते अग्नौ विशुद्धे हि अनर्घ्यमौल्ये वस्त्रे तु गृहाण ताभ्याम् निजात्मदेहम् परिच्छाद्य च जनान् पालय
chandas Upajāti, 11 syllables in each of 4 pādas
मयूरेश Mayuresha — Lord of the peacock, the form of Ganapati worshipped at Morgaon, the first of the eight seats in Maharashtra.
चित्तेन दत्तं मुखमुत्तरीयम् ।
गृहाण भक्तप्रतिपालक त्वं
नमो यथा तारकसंयुतं तु ॥ 20 ॥
- आचम्य (ācamya)having sipped
- विघ्नेश (vighneśa)lord of obstacles
- पुनः (punaḥ)once more
- तथा एव (tathā eva)in the same way
- चित्तेन (cittena)in the mind
- दत्तम् (dattam)given
- मुखम् (mukham)for your face
- उत्तरीयम् (uttarīyam)the upper cloth
- गृहाण (gṛhāṇa)take
- भक्तप्रतिपालक (bhaktapratipālaka)protector of those who love you
- त्वम् (tvam)you
- नमः (namaḥ)salutation
- यथा (yathā)as it should be
- तारकसंयुतम् (tārakasaṃyutam)joined to the syllable that carries a man over
- तु (tu)indeed
anvaya विघ्नेश भक्तप्रतिपालक त्वम् पुनः तथा एव आचम्य चित्तेन दत्तम् मुखम् उत्तरीयम् गृहाण यथा तारकसंयुतम् तु नमः
chandas Upajāti, 11 syllables in each of 4 pādas
तारक the syllable that carries a man over — Om, called the tāraka because it ferries the reciter across. A salutation with Om before it is the full form.
सौवर्णमेवं ह्यहिनाथभूतम् ।
भावेन दत्तं गणनाथ तत्त्वं
गृहाण भक्तोद्धृतिकारणाय ॥ 21 ॥
- यज्ञोपवीतम् (yajñopavītam)the sacred thread
- त्रिगुणस्वरूपम् (triguṇasvarūpam)three-stranded
- सौवर्णम् (sauvarṇam)of gold
- एवम् (evam)so
- हि (hi)indeed
- अहिनाथभूतम् (ahināthabhūtam)which is the lord of snakes himself
- भावेन (bhāvena)with feeling
- दत्तम् (dattam)given
- गणनाथ (gaṇanātha)Gananatha
- तत्त्वम् (tattvam)the truth of things
- गृहाण (gṛhāṇa)take
- भक्तोद्धृतिकारणाय (bhaktoddhṛtikāraṇāya)so that those who love you may be lifted up
anvaya गणनाथ भावेन दत्तम् त्रिगुणस्वरूपम् सौवर्णम् एवम् हि अहिनाथभूतम् तत्त्वम् यज्ञोपवीतम् भक्तोद्धृतिकारणाय गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
त्रिगुण three-stranded — The sacred thread is spun of three strands, and the word is the same one used for the three strands of nature, so the thread is read as those three.
कुरुष्व शुद्धेन जलेन ढुण्ढे ।
पुनश्च कौमण्डलकेन पाहि विश्वं
प्रभो खेलकरं सदा ते ॥ 22 ॥
- आचान्तम् (ācāntam)the sip
- एवम् (evam)so
- मनसा (manasā)in the mind
- प्रदत्तम् (pradattam)given
- कुरुष्व (kuruṣva)take
- शुद्धेन (śuddhena)with clean
- जलेन (jalena)water
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
- पुनः (punaḥ)again
- च (ca)and
- कौमण्डलकेन (kaumaṇḍalakena)from the pitcher
- पाहि (pāhi)guard
- विश्वम् (viśvam)the world
- प्रभो (prabho)lord
- खेलकरम् (khelakaram)your playground
- सदा (sadā)always
- ते (te)yours
anvaya ढुण्ढे एवम् मनसा प्रदत्तम् शुद्धेन जलेन आचान्तम् कुरुष्व पुनः च कौमण्डलकेन प्रभो सदा ते खेलकरम् विश्वम् पाहि
chandas Upajāti, 11 syllables in each of 4 pādas
सिन्दूरकं ते मनसा प्रदत्तम् ।
सर्वाङ्गसंलेपनमादराद्वै
कुरुष्व हेरम्ब च तेन पूर्णम् ॥ 23 ॥
- उद्यद्दिनेशाभम् (udyaddineśābham)bright as the rising sun
- अथो (atho)then
- गृहाण (gṛhāṇa)take
- सिन्दूरकम् (sindūrakam)the vermilion
- ते (te)to you
- मनसा (manasā)in the mind
- प्रदत्तम् (pradattam)offered
- सर्वाङ्गसंलेपनम् (sarvāṅgasaṃlepanam)the smearing of every limb
- आदरात् (ādarāt)carefully
- वै (vai)indeed
- कुरुष्व (kuruṣva)do
- हेरम्ब (heramba)Heramba
- च (ca)and
- तेन (tena)with it
- पूर्णम् (pūrṇam)covered
anvaya हेरम्ब अथो ते मनसा प्रदत्तम् उद्यद्दिनेशाभम् सिन्दूरकम् गृहाण च आदरात् वै तेन पूर्णम् सर्वाङ्गसंलेपनम् कुरुष्व
chandas Upajāti, 11 syllables in each of 4 pādas
सिन्दूर vermilion — The red lead paste rubbed over Ganapati's image, which is why so many of his old images are orange rather than stone-coloured.
दत्तं किरीटं तु सुवर्णजं वै ।
अनेकरत्नैः खचितं गृहाण
ब्रह्मेश ते मस्तकशोभनाय ॥ 24 ॥
- सहस्रशीर्षम् (sahasraśīrṣam)with its thousand points
- मनसा (manasā)in the mind
- मया (mayā)by me
- त्वम् (tvam)you
- दत्तम् (dattam)given
- किरीटम् (kirīṭam)the crown
- तु (tu)indeed
- सुवर्णजम् (suvarṇajam)of gold
- वै (vai)indeed
- अनेकरत्नैः (anekaratnaiḥ)with many jewels
- खचितम् (khacitam)set
- गृहाण (gṛhāṇa)take
- ब्रह्मेश (brahmeśa)lord of brahman
- ते (te)your
- मस्तकशोभनाय (mastakaśobhanāya)to grace your head
anvaya ब्रह्मेश मया मनसा दत्तम् सहस्रशीर्षम् सुवर्णजम् वै अनेकरत्नैः खचितम् किरीटम् तु त्वम् ते मस्तकशोभनाय गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
युतानि चित्तेन मया परेश ।
दत्तानि नानापदकुण्डलानि
गृहाण शूर्पश्रुतिभूषणाय ॥ 25 ॥
- विचित्ररत्नैः (vicitraratnaiḥ)with bright jewels
- कनकेन (kanakena)with gold
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
- युतानि (yutāni)set
- चित्तेन (cittena)in the mind
- मया (mayā)by me
- परेश (pareśa)lord beyond all
- दत्तानि (dattāni)given
- नानापदकुण्डलानि (nānāpadakuṇḍalāni)earrings of many shapes
- गृहाण (gṛhāṇa)take
- शूर्पश्रुतिभूषणाय (śūrpaśrutibhūṣaṇāya)to adorn your ears wide as winnowing baskets
anvaya ढुण्ढे परेश विचित्ररत्नैः कनकेन युतानि मया चित्तेन दत्तानि नानापदकुण्डलानि शूर्पश्रुतिभूषणाय गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
शूर्पश्रुति ears wide as winnowing baskets — A standing epithet: his ears are broad and flat like the śūrpa, the fan used to winnow grain.
सुवर्णजं कञ्चुकमागृहाण ।
रत्नैश्च युक्तं मनसा मया य-
-द्दत्तं प्रभो तत्सफलं कुरुष्व ॥ 26 ॥
- शुण्डाविभूषार्थम् (śuṇḍāvibhūṣārtham)to adorn your trunk
- अनन्तखेलिन् (anantakhelin)endless player
- सुवर्णजम् (suvarṇajam)golden
- कञ्चुकम् (kañcukam)the sheath
- आगृहाण (āgṛhāṇa)take
- रत्नैः (ratnaiḥ)with jewels
- च (ca)and
- युक्तम् (yuktam)set
- मनसा (manasā)in the mind
- मया (mayā)by me
- यत् (yat)what
- दत्तम् (dattam)is given
- प्रभो (prabho)lord
- तत् (tat)that
- सफलम् (saphalam)fruitful
- कुरुष्व (kuruṣva)make
anvaya अनन्तखेलिन् शुण्डाविभूषार्थम् रत्नैः च युक्तम् सुवर्णजम् कञ्चुकम् आगृहाण प्रभो मया मनसा यत् दत्तम् तत् सफलम् कुरुष्व
chandas Upajāti, 11 syllables in each of 4 pādas
सदैकदन्ताभरणानि कल्प्य ।
गृहाण चूडाकृतये परेश
दत्तानि दन्तस्य च शोभनार्थम् ॥ 27 ॥
- सुवर्णरत्नैः (suvarṇaratnaiḥ)of gold and jewel
- च (ca)and
- युतानि (yutāni)set
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
- सदा (sadā)always
- एकदन्ताभरणानि (ekadantābharaṇāni)ornaments for your single tusk
- कल्प्य (kalpya)having fashioned
- गृहाण (gṛhāṇa)take
- चूडाकृतये (cūḍākṛtaye)to make a crest
- परेश (pareśa)lord beyond all
- दत्तानि (dattāni)given
- दन्तस्य (dantasya)of the tusk
- च (ca)and
- शोभनार्थम् (śobhanārtham)to grace it
anvaya ढुण्ढे परेश सुवर्णरत्नैः च युतानि सदा एकदन्ताभरणानि कल्प्य चूडाकृतये च दन्तस्य शोभनार्थम् दत्तानि गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
गृहाण चत्वारि मया प्रकल्प्य ।
सम्भूषय त्वं कटकानि नाथ
चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ 28 ॥
- रत्नैः (ratnaiḥ)of jewel
- सुवर्णेन (suvarṇena)of gold
- कृतानि (kṛtāni)made
- तानि (tāni)those
- गृहाण (gṛhāṇa)take
- चत्वारि (catvāri)four
- मया (mayā)by me
- प्रकल्प्य (prakalpya)having fashioned
- सम्भूषय (sambhūṣaya)wear
- त्वम् (tvam)you
- कटकानि (kaṭakāni)bracelets
- नाथ (nātha)lord
- चतुर्भुजेषु (caturbhujeṣu)on your four arms
- हि (hi)indeed
- अज (aja)unborn one
- विघ्नहारिन् (vighnahārin)remover of obstacles
anvaya नाथ अज विघ्नहारिन् मया प्रकल्प्य रत्नैः सुवर्णेन कृतानि तानि चत्वारि कटकानि गृहाण हि त्वम् चतुर्भुजेषु सम्भूषय
chandas Upajāti, 11 syllables in each of 4 pādas
-सम्भूतकं गृह्य मया प्रदत्तम् ।
तथाङ्गुलीष्वङ्गुलिकं गणेश
चित्तेन संशोभय तत्परेश ॥ 29 ॥
- विचित्ररत्नैः (vicitraratnaiḥ)with bright jewels
- खचितम् (khacitam)set
- सुवर्णसम्भूतकम् (suvarṇasambhūtakam)made of gold
- गृह्य (gṛhya)taking
- मया (mayā)by me
- प्रदत्तम् (pradattam)held out
- तथा (tathā)and
- अङ्गुलीषु (aṅgulīṣu)on your fingers
- अङ्गुलिकम् (aṅgulikam)the ring
- गणेश (gaṇeśa)Ganesha
- चित्तेन (cittena)in the mind
- संशोभय (saṃśobhaya)let it grace
- तत् (tat)that
- परेश (pareśa)lord beyond all
anvaya गणेश परेश मया प्रदत्तम् विचित्ररत्नैः खचितम् सुवर्णसम्भूतकम् तत् अङ्गुलिकम् गृह्य तथा चित्तेन अङ्गुलीषु संशोभय
chandas Upajāti, 11 syllables in each of 4 pādas
केयूरकाणि ह्यथ कल्पितानि ।
सुवर्णजानि प्रमथाधिनाथ
गृहाण दत्तानि तु बाहुषु त्वम् ॥ 30 ॥
- विचित्ररत्नैः (vicitraratnaiḥ)with bright jewels
- खचितानि (khacitāni)set
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
- केयूरकाणि (keyūrakāṇi)the armlets
- हि (hi)indeed
- अथ (atha)now
- कल्पितानि (kalpitāni)fashioned
- सुवर्णजानि (suvarṇajāni)of gold
- प्रमथाधिनाथ (pramathādhinātha)lord of the pramathas
- गृहाण (gṛhāṇa)take
- दत्तानि (dattāni)given
- तु (tu)indeed
- बाहुषु (bāhuṣu)on your arms
- त्वम् (tvam)you
anvaya ढुण्ढे प्रमथाधिनाथ अथ हि विचित्ररत्नैः खचितानि सुवर्णजानि कल्पितानि दत्तानि केयूरकाणि तु त्वम् बाहुषु गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
प्रमथ the pramathas — Shiva's rough attendants, another name for the same host that Ganapati leads.
सुवर्णसूत्रैश्च गृहाण कण्ठे ।
चित्तेन दत्ता विविधाश्च माला
उरोदरे शोभय विघ्नराज ॥ 31 ॥
- प्रवालमुक्ताफलरत्नजैः (pravālamuktāphalaratnajaiḥ)of coral, pearl and jewel
- त्वम् (tvam)you
- सुवर्णसूत्रैः (suvarṇasūtraiḥ)on golden threads
- च (ca)and
- गृहाण (gṛhāṇa)take
- कण्ठे (kaṇṭhe)on your neck
- चित्तेन (cittena)in the mind
- दत्ताः (dattāḥ)given
- विविधाः (vividhāḥ)of many kinds
- च (ca)and
- माला (mālā)the garlands
- उरोदरे (urodare)on your chest and belly
- शोभय (śobhaya)let them lie bright
- विघ्नराज (vighnarāja)king of obstacles
anvaya विघ्नराज चित्तेन दत्ताः प्रवालमुक्ताफलरत्नजैः सुवर्णसूत्रैः च विविधाः माला त्वम् कण्ठे गृहाण च उरोदरे शोभय
chandas Upajāti, 11 syllables in each of 4 pādas
वृद्धिक्षयाभ्यां तु विहीनमाद्यम् ।
संशोभय त्वं वरसंयुतं ते
भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ 32 ॥
- चन्द्रम् (candram)the moon
- ललाटे (lalāṭe)on your brow
- गणनाथ (gaṇanātha)Gananatha
- पूर्णम् (pūrṇam)full
- वृद्धिक्षयाभ्याम् (vṛddhikṣayābhyām)by waxing and waning
- तु (tu)indeed
- विहीनम् (vihīnam)untouched
- आद्यम् (ādyam)the first
- संशोभय (saṃśobhaya)let it rest bright
- त्वम् (tvam)you
- वरसंयुतम् (varasaṃyutam)joined with a boon
- ते (te)your
- भक्तिप्रियत्वम् (bhaktipriyatvam)how dear devotion is to you
- प्रकटीकुरुष्व (prakaṭīkuruṣva)show openly
anvaya गणनाथ वृद्धिक्षयाभ्याम् तु विहीनम् आद्यम् पूर्णम् चन्द्रम् त्वम् ते वरसंयुतम् ललाटे संशोभय भक्तिप्रियत्वम् प्रकटीकुरुष्व
chandas Upajāti, 11 syllables in each of 4 pādas
हृद्देशगं ज्योतिर्मयं कुरुष्व ।
मणिं सदानन्दसुखप्रदं च
विघ्नेश दीनार्थद पालयस्व ॥ 33 ॥
- चिन्तामणिम् (cintāmaṇim)the wishing jewel
- चिन्तितदम् (cintitadam)which gives whatever is thought of
- परेश (pareśa)lord beyond all
- हृद्देशगम् (hṛddeśagam)on your breast
- ज्योतिर्मयम् (jyotirmayam)full of light
- कुरुष्व (kuruṣva)set
- मणिम् (maṇim)the jewel
- सदानन्दसुखप्रदम् (sadānandasukhapradam)that gives lasting joy and ease
- च (ca)and
- विघ्नेश (vighneśa)lord of obstacles
- दीनार्थद (dīnārthada)giver to the poor
- पालयस्व (pālayasva)keep me
anvaya परेश चिन्तितदम् ज्योतिर्मयम् सदानन्दसुखप्रदम् च चिन्तामणिम् मणिम् हृद्देशगम् कुरुष्व विघ्नेश दीनार्थद पालयस्व
chandas Upajāti, 11 syllables in each of 4 pādas
चिन्तामणि the wishing jewel — The stone that gives whatever its holder thinks of; also the name of Ganapati at Theur, one of the eight seats.
संवेष्टनेनैव गणाधिनाथ ।
भक्तं सुभूषं कुरु भूषणेन
वरप्रदानं सफलं परेश ॥ 34 ॥
- नाभौ (nābhau)at your navel
- फणीशम् (phaṇīśam)the lord of snakes
- च (ca)and
- सहस्रशीर्षम् (sahasraśīrṣam)thousand-headed
- संवेष्टनेन (saṃveṣṭanena)by being wound about you
- एव (eva)indeed
- गणाधिनाथ (gaṇādhinātha)lord of the ganas
- भक्तम् (bhaktam)your devotee
- सुभूषम् (subhūṣam)finely adorned
- कुरु (kuru)make
- भूषणेन (bhūṣaṇena)with that ornament
- वरप्रदानम् (varapradānam)your giving of boons
- सफलम् (saphalam)fruitful
- परेश (pareśa)lord beyond all
anvaya गणाधिनाथ परेश नाभौ संवेष्टनेन एव सहस्रशीर्षम् फणीशम् च भूषणेन भक्तम् सुभूषम् कुरु वरप्रदानम् सफलम्
chandas Upajāti, 11 syllables in each of 4 pādas
काञ्चीं सुचित्तेन च धारयामि ।
विघ्नेश ज्योतिर्गणदीपनीं ते
प्रसीद भक्तं कुरु मां दयाब्धे ॥ 35 ॥
- कटीतटे (kaṭītaṭe)round your waist
- रत्नसुवर्णयुक्ताम् (ratnasuvarṇayuktām)of jewel and gold
- काञ्चीम् (kāñcīm)a girdle
- सुचित्तेन (sucittena)with a steady mind
- च (ca)and
- धारयामि (dhārayāmi)I fasten
- विघ्नेश (vighneśa)lord of obstacles
- ज्योतिर्गणदीपनीम् (jyotirgaṇadīpanīm)that lights up the hosts of stars
- ते (te)your
- प्रसीद (prasīda)be gracious
- भक्तम् (bhaktam)one who loves you
- कुरु (kuru)make
- माम् (mām)me
- दयाब्धे (dayābdhe)ocean of pity
anvaya विघ्नेश ते कटीतटे ज्योतिर्गणदीपनीम् रत्नसुवर्णयुक्ताम् काञ्चीम् सुचित्तेन च धारयामि दयाब्धे प्रसीद माम् भक्तम् कुरु
chandas Upajāti, 11 syllables in each of 4 pādas
सुनूपुरे मञ्जिरके तथैव ।
सुकिङ्किणीनादयुते सुबुद्ध्या
सुपादयोः शोभय मे प्रदत्ते ॥ 36 ॥
- हेरम्ब (heramba)Heramba
- ते (te)your
- रत्नसुवर्णयुक्ते (ratnasuvarṇayukte)of jewel and gold
- सुनूपुरे (sunūpure)the fine anklets
- मञ्जिरके (mañjirake)the foot-rings
- तथा एव (tathā eva)and with them
- सुकिङ्किणीनादयुते (sukiṅkiṇīnādayute)alive with the sound of little bells
- सुबुद्ध्या (subuddhyā)with a clear mind
- सुपादयोः (supādayoḥ)on your fair feet
- शोभय (śobhaya)let them grace
- मे (me)by me
- प्रदत्ते (pradatte)given
anvaya हेरम्ब मे सुबुद्ध्या प्रदत्ते रत्नसुवर्णयुक्ते सुकिङ्किणीनादयुते सुनूपुरे तथा एव मञ्जिरके ते सुपादयोः शोभय
chandas Upajāti, 11 syllables in each of 4 pādas
तवेच्छया मानसकल्पितानि ।
सम्भूषयाम्येव त्वदङ्गकेषु
विचित्रधातुप्रभवानि ढुण्ढे ॥ 37 ॥
- इत्यादि (ityādi)these and other
- नानाविधभूषणानि (nānāvidhabhūṣaṇāni)ornaments of many kinds
- तव (tava)your
- इच्छया (icchayā)as you would wish them
- मानसकल्पितानि (mānasakalpitāni)made in the mind
- सम्भूषयामि (sambhūṣayāmi)I deck
- एव (eva)indeed
- त्वदङ्गकेषु (tvadaṅgakeṣu)your limbs
- विचित्रधातुप्रभवानि (vicitradhātuprabhavāni)wrought of bright metals
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
anvaya ढुण्ढे तव इच्छया मानसकल्पितानि विचित्रधातुप्रभवानि इत्यादि नानाविधभूषणानि त्वदङ्गकेषु एव सम्भूषयामि
chandas Upajāti, 11 syllables in each of 4 pādas
सुघर्षितं ह्यष्टकगन्धमुख्यैः ।
युक्तं मया कल्पितमेकदन्त
गृहाण ते त्वङ्गविलेपनार्थम् ॥ 38 ॥
- सुचन्दनम् (sucandanam)the good sandal paste
- रक्तम् (raktam)red
- अमोघवीर्यम् (amoghavīryam)of unfailing power
- सुघर्षितम् (sugharṣitam)well ground
- हि (hi)indeed
- अष्टकगन्धमुख्यैः (aṣṭakagandhamukhyaiḥ)with the eight chief scents
- युक्तम् (yuktam)mixed
- मया (mayā)by me
- कल्पितम् (kalpitam)made ready
- एकदन्त (ekadanta)one-tusked one
- गृहाण (gṛhāṇa)take
- ते (te)your
- तु (tu)indeed
- अङ्गविलेपनार्थम् (aṅgavilepanārtham)to be rubbed on your limbs
anvaya एकदन्त मया कल्पितम् अष्टकगन्धमुख्यैः हि युक्तम् सुघर्षितम् रक्तम् अमोघवीर्यम् सुचन्दनम् ते तु अङ्गविलेपनार्थम् गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
अष्टगन्ध the eight scents — The eight fragrant substances ground together for worship: sandal, saffron, camphor, aloe, musk and the rest, the mixture varying by region.
-रङ्गेषु तेऽहं प्रकरोमि चित्रम् ।
प्रसीद चित्तेन विनायक त्वं
ततः सुरक्तं रविमेव फाले ॥ 39 ॥
- लिप्तेषु (lipteṣu)once they are smeared
- वैचित्र्यम् (vaicitryam)bright patterns
- अथ (atha)then
- अष्टगन्धैः (aṣṭagandhaiḥ)with the eight scents
- अङ्गेषु (aṅgeṣu)on your limbs
- ते (te)your
- अहम् (aham)I
- प्रकरोमि (prakaromi)draw
- चित्रम् (citram)a design
- प्रसीद (prasīda)be gracious
- चित्तेन (cittena)in my mind
- विनायक (vināyaka)Vinayaka
- त्वम् (tvam)you
- ततः (tataḥ)then
- सुरक्तम् (suraktam)the deep red
- रविम् (ravim)sun
- एव (eva)itself
- फाले (phāle)on your brow
anvaya अथ अष्टगन्धैः लिप्तेषु ते अङ्गेषु अहम् वैचित्र्यम् चित्रम् प्रकरोमि विनायक त्वम् चित्तेन प्रसीद ततः फाले सुरक्तम् रविम् एव
chandas Upajāti, 11 syllables in each of 4 pādas
सुतण्डुलांस्ते परिकल्पयामि ।
फाले गणाध्यक्ष गृहाण पाहि
भक्तान् सुभक्तिप्रिय दीनबन्धो ॥ 40 ॥
- घृतेन (ghṛtena)with ghee
- वै (vai)indeed
- कुङ्कुमकेन (kuṅkumakena)with saffron
- रक्तान् (raktān)reddened
- सुतण्डुलान् (sutaṇḍulān)fine grains of rice
- ते (te)for you
- परिकल्पयामि (parikalpayāmi)I make ready
- फाले (phāle)on your brow
- गणाध्यक्ष (gaṇādhyakṣa)overseer of the ganas
- गृहाण (gṛhāṇa)take
- पाहि (pāhi)keep
- भक्तान् (bhaktān)those who love you
- सुभक्तिप्रिय (subhaktipriya)lover of true devotion
- दीनबन्धो (dīnabandho)friend of the helpless
anvaya गणाध्यक्ष घृतेन वै कुङ्कुमकेन रक्तान् सुतण्डुलान् ते परिकल्पयामि फाले गृहाण सुभक्तिप्रिय दीनबन्धो भक्तान् पाहि
chandas Upajāti, 11 syllables in each of 4 pādas
अक्षत whole rice grains — Unbroken rice, reddened with saffron, pressed on the forehead of the image and of the worshipper; the word means unbroken.
जलपङ्कजानि स्थलपङ्कजानि ।
चित्तेन दत्तानि च मल्लिकानि
पुष्पाणि नानाविधवृक्षजानि ॥ 41 ॥
- गृहाण (gṛhāṇa)take
- भो (bho)sir
- चम्पकमालतीनि (campakamālatīni)champaka and malati
- जलपङ्कजानि (jalapaṅkajāni)lotuses of the water
- स्थलपङ्कजानि (sthalapaṅkajāni)lotuses of the land
- चित्तेन (cittena)in the mind
- दत्तानि (dattāni)given
- च (ca)and
- मल्लिकानि (mallikāni)jasmine
- पुष्पाणि (puṣpāṇi)flowers
- नानाविधवृक्षजानि (nānāvidhavṛkṣajāni)from trees of every kind
anvaya भो चित्तेन दत्तानि चम्पकमालतीनि जलपङ्कजानि स्थलपङ्कजानि च मल्लिकानि नानाविधवृक्षजानि पुष्पाणि गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
हेरम्ब मन्दारशमीदलानि ।
मया सुचित्तेन प्रकल्पितानि
ह्यपारकाणि प्रणवाकृते तु ॥ 42 ॥
- पुष्पोपरि (puṣpopari)over the flowers
- त्वम् (tvam)you
- मनसा (manasā)in the mind
- गृहाण (gṛhāṇa)take
- हेरम्ब (heramba)Heramba
- मन्दारशमीदलानि (mandāraśamīdalāni)mandara blossoms and shami leaves
- मया (mayā)by me
- सुचित्तेन (sucittena)with a steady mind
- प्रकल्पितानि (prakalpitāni)made ready
- हि (hi)indeed
- अपारकाणि (apārakāṇi)past counting
- प्रणवाकृते (praṇavākṛte)you whose shape is the sound Om
- तु (tu)indeed
anvaya हेरम्ब प्रणवाकृते मया सुचित्तेन प्रकल्पितानि हि अपारकाणि मन्दारशमीदलानि त्वम् तु मनसा पुष्पोपरि गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
-स्त्रिपञ्चपत्रैर्युतकांश्च स्निग्धान् ।
गृहाण विघ्नेश्वर सङ्ख्यया त्वं
हीनांश्च सर्वोपरि वक्रतुण्ड ॥ 43 ॥
- दूर्वाङ्कुरान् (dūrvāṅkurān)the durva shoots
- वै (vai)indeed
- मनसा (manasā)in the mind
- प्रदत्तान् (pradattān)offered
- त्रिपञ्चपत्रैः (tripañcapatraiḥ)in threes and fives
- युतकान् (yutakān)bound
- च (ca)and
- स्निग्धान् (snigdhān)glossy
- गृहाण (gṛhāṇa)take
- विघ्नेश्वर (vighneśvara)lord of obstacles
- सङ्ख्यया (saṅkhyayā)by counting
- त्वम् (tvam)you
- हीनान् (hīnān)past reckoning
- च (ca)and
- सर्वोपरि (sarvopari)over everything else
- वक्रतुण्ड (vakratuṇḍa)curve-trunked one
anvaya विघ्नेश्वर वक्रतुण्ड मनसा प्रदत्तान् त्रिपञ्चपत्रैः युतकान् च स्निग्धान् सङ्ख्यया हीनान् दूर्वाङ्कुरान् वै त्वम् च सर्वोपरि गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
त्रिपञ्चपत्र in threes and fives — Durva is offered in small bunches of three or five blades tied together; the count matters in the ritual books.
धूपं प्रदत्तं गणराज ढुण्ढे ।
गृहाण सौरभ्यकरं परेश
सिद्ध्या च बुद्ध्या सह भक्तपाल ॥ 44 ॥
- दशाङ्गभूतम् (daśāṅgabhūtam)of ten ingredients
- मनसा (manasā)in the mind
- मया (mayā)by me
- ते (te)to you
- धूपम् (dhūpam)the incense
- प्रदत्तम् (pradattam)offered
- गणराज (gaṇarāja)king of the ganas
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
- गृहाण (gṛhāṇa)take
- सौरभ्यकरम् (saurabhyakaram)sweet-smelling
- परेश (pareśa)lord beyond all
- सिद्ध्या (siddhyā)with Siddhi
- च (ca)and
- बुद्ध्या (buddhyā)with Buddhi
- सह (saha)together
- भक्तपाल (bhaktapāla)keeper of those who love you
anvaya गणराज ढुण्ढे परेश भक्तपाल मया मनसा ते प्रदत्तम् दशाङ्गभूतम् सौरभ्यकरम् धूपम् सिद्ध्या च बुद्ध्या सह गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
दत्तं मया मानसकं गणेश ।
गृहाण नानाविधजं घृतादि-
-तैलादिसम्भूतममोघदृष्टे ॥ 45 ॥
- दीपम् (dīpam)the lamp
- सुवर्त्या (suvartyā)with its good wick
- युतम् (yutam)fitted
- आदरात् (ādarāt)with care
- ते (te)to you
- दत्तम् (dattam)offered
- मया (mayā)by me
- मानसकम् (mānasakam)in the mind
- गणेश (gaṇeśa)Ganesha
- गृहाण (gṛhāṇa)take
- नानाविधजम् (nānāvidhajam)of many kinds
- घृतादितैलादिसम्भूतम् (ghṛtāditailādisambhūtam)made of ghee and oils
- अमोघदृष्टे (amoghadṛṣṭe)you whose glance never fails
anvaya गणेश अमोघदृष्टे मया आदरात् मानसकम् ते दत्तम् सुवर्त्या युतम् नानाविधजम् घृतादितैलादिसम्भूतम् दीपम् गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
चोष्यं च नानाविधषड्रसाढ्यम् ।
गृहाण नैवेद्यमथो मया ते
सुकल्पितं पुष्टिपते महात्मन् ॥ 46 ॥
- भोज्यम् (bhojyam)food to be chewed
- च (ca)and
- लेह्यम् (lehyam)to be licked
- गणराज (gaṇarāja)king of the ganas
- पेयम् (peyam)to be drunk
- चोष्यम् (coṣyam)to be sucked
- च (ca)and
- नानाविधषड्रसाढ्यम् (nānāvidhaṣaḍrasāḍhyam)rich with the six tastes in all their kinds
- गृहाण (gṛhāṇa)take
- नैवेद्यम् (naivedyam)the food offering
- अथो (atho)then
- मया (mayā)by me
- ते (te)for you
- सुकल्पितम् (sukalpitam)well made ready
- पुष्टिपते (puṣṭipate)lord of plenty
- महात्मन् (mahātman)great soul
anvaya गणराज पुष्टिपते महात्मन् भोज्यम् च लेह्यम् पेयम् चोष्यम् च नानाविधषड्रसाढ्यम् अथो मया ते सुकल्पितम् नैवेद्यम् गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
भोज्य, लेह्य, पेय, चोष्य chewed, licked, drunk, sucked — The four ways of taking food in the old reckoning, which between them cover everything that can be eaten.
जलं मया दत्तमथो गृहाण ।
कमण्डलुस्थं मनसा गणेश
पिबस्व विश्वादिकतृप्तिकारिन् ॥ 47 ॥
- सुवासितम् (suvāsitam)scented
- भोजनमध्यभागे (bhojanamadhyabhāge)in the middle of the meal
- जलम् (jalam)water
- मया (mayā)by me
- दत्तम् (dattam)offered
- अथो (atho)then
- गृहाण (gṛhāṇa)take
- कमण्डलुस्थम् (kamaṇḍalustham)held in the pitcher
- मनसा (manasā)in the mind
- गणेश (gaṇeśa)Ganesha
- पिबस्व (pibasva)drink
- विश्वादिकतृप्तिकारिन् (viśvādikatṛptikārin)you who fill the world and all in it
anvaya गणेश विश्वादिकतृप्तिकारिन् भोजनमध्यभागे मया मनसा दत्तम् कमण्डलुस्थम् सुवासितम् जलम् अथो गृहाण पिबस्व
chandas Upajāti, 11 syllables in each of 4 pādas
सौगन्ध्ययुक्तं मुखमार्जनाय ।
सुवासितेनैव सुतीर्थजेन
सुकल्पितं नाथ गृहाण ढुण्ढे ॥ 48 ॥
- ततः (tataḥ)then
- करोद्वर्तनकम् (karodvartanakam)the rub for your hands
- गृहाण (gṛhāṇa)take
- सौगन्ध्ययुक्तम् (saugandhyayuktam)fragrant
- मुखमार्जनाय (mukhamārjanāya)to rinse your mouth
- सुवासितेन (suvāsitena)with scented water
- एव (eva)indeed
- सुतीर्थजेन (sutīrthajena)from good fords
- सुकल्पितम् (sukalpitam)well made ready
- नाथ (nātha)lord
- गृहाण (gṛhāṇa)take
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
anvaya नाथ ढुण्ढे ततः सौगन्ध्ययुक्तम् करोद्वर्तनकम् गृहाण सुवासितेन एव सुतीर्थजेन सुकल्पितम् मुखमार्जनाय गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
दत्तं मया तीर्थजलं पिबस्व ।
प्रकल्प्य विघ्नेश ततः परं ते
सम्प्रोञ्छनं हस्तमुखे करोमि ॥ 49 ॥
- पुनः (punaḥ)once more
- तथा (tathā)so
- आचम्य (ācamya)having sipped
- सुवासितम् (suvāsitam)scented
- च (ca)and
- दत्तम् (dattam)offered
- मया (mayā)by me
- तीर्थजलम् (tīrthajalam)water from the holy fords
- पिबस्व (pibasva)drink
- प्रकल्प्य (prakalpya)having made ready
- विघ्नेश (vighneśa)lord of obstacles
- ततः परम् (tataḥ param)after that
- ते (te)your
- सम्प्रोञ्छनम् (samproñchanam)the wiping
- हस्तमुखे (hastamukhe)of hands and face
- करोमि (karomi)I do
anvaya विघ्नेश पुनः तथा आचम्य मया दत्तम् सुवासितम् च तीर्थजलम् पिबस्व ततः परम् प्रकल्प्य ते हस्तमुखे सम्प्रोञ्छनम् करोमि
chandas Upajāti, 11 syllables in each of 4 pādas
खार्जूरकार्कन्धुकदाडिमानि ।
सुस्वादयुक्तानि मया प्रकल्प्य
गृहाण दत्तानि फलानि ढुण्ढे ॥ 50 ॥
- द्राक्षादिरम्भाफलचूतकानि (drākṣādirambhāphalacūtakāni)grapes, plantains and mangoes
- खार्जूरकार्कन्धुकदाडिमानि (khārjūrakārkandhukadāḍimāni)dates, jujubes and pomegranates
- सुस्वादयुक्तानि (susvādayuktāni)all of them sweet
- मया (mayā)by me
- प्रकल्प्य (prakalpya)made ready
- गृहाण (gṛhāṇa)take
- दत्तानि (dattāni)held out
- फलानि (phalāni)fruits
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
anvaya ढुण्ढे मया प्रकल्प्य दत्तानि सुस्वादयुक्तानि द्राक्षादिरम्भाफलचूतकानि खार्जूरकार्कन्धुकदाडिमानि फलानि गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
सङ्क्षालयामि मनसा गणेश ।
सुवासितं तोयमथो पिबस्व
मया प्रदत्तं मनसा परेश ॥ 51 ॥
- पुनः (punaḥ)again
- जलेन (jalena)with water
- एव (eva)indeed
- करादिकम् (karādikam)your hands and the rest
- ते (te)your
- सङ्क्षालयामि (saṅkṣālayāmi)I wash
- मनसा (manasā)in my mind
- गणेश (gaṇeśa)Ganesha
- सुवासितम् (suvāsitam)scented
- तोयम् (toyam)water
- अथो (atho)then
- पिबस्व (pibasva)drink
- मया (mayā)by me
- प्रदत्तम् (pradattam)offered
- मनसा (manasā)in the mind
- परेश (pareśa)lord beyond all
anvaya गणेश परेश पुनः जलेन एव ते करादिकम् मनसा सङ्क्षालयामि अथो मया मनसा प्रदत्तम् सुवासितम् तोयम् पिबस्व
chandas Upajāti, 11 syllables in each of 4 pādas
ताम्बूलकं ते मनसा मया वै ।
गृहाण विघ्नेश्वर भावयुक्तं
सदा सकृत्तुण्डविशोधनार्थम् ॥ 52 ॥
- अष्टाङ्गयुक्तम् (aṣṭāṅgayuktam)of eight ingredients
- गणनाथ (gaṇanātha)Gananatha
- दत्तम् (dattam)offered
- ताम्बूलकम् (tāmbūlakam)the betel roll
- ते (te)to you
- मनसा (manasā)in the mind
- मया (mayā)by me
- वै (vai)indeed
- गृहाण (gṛhāṇa)take
- विघ्नेश्वर (vighneśvara)lord of obstacles
- भावयुक्तम् (bhāvayuktam)with feeling
- सदा (sadā)always
- सकृत् (sakṛt)once
- तुण्डविशोधनार्थम् (tuṇḍaviśodhanārtham)to freshen your mouth
anvaya गणनाथ विघ्नेश्वर मया मनसा भावयुक्तम् ते दत्तम् वै अष्टाङ्गयुक्तम् ताम्बूलकम् सदा सकृत् तुण्डविशोधनार्थम् गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
ताम्बूल the betel roll — Betel leaf folded round areca nut, lime, cardamom and the rest; given to a guest at the close of a meal.
महासने रत्नसुवर्णयुक्ते ।
मन्दारकार्पासकयुक्तवस्त्रै-
-रनर्घ्यसञ्छादितके प्रसीद ॥ 53 ॥
- ततः (tataḥ)then
- मया (mayā)by me
- कल्पितके (kalpitake)made
- गणेश (gaṇeśa)Ganesha
- महासने (mahāsane)on the great seat
- रत्नसुवर्णयुक्ते (ratnasuvarṇayukte)of jewel and gold
- मन्दारकार्पासकयुक्तवस्त्रैः (mandārakārpāsakayuktavastraiḥ)with cloths of mandara silk and cotton
- अनर्घ्यसञ्छादितके (anarghyasañchāditake)spread beyond price
- प्रसीद (prasīda)be pleased to sit
anvaya गणेश ततः मया कल्पितके रत्नसुवर्णयुक्ते मन्दारकार्पासकयुक्तवस्त्रैः अनर्घ्यसञ्छादितके महासने प्रसीद
chandas Upajāti, 11 syllables in each of 4 pādas
सम्पूजयामि मनसा यथावत् ।
नानोपचारैः परमप्रियैस्तु
त्वत्प्रीतिकामार्थमनाथबन्धो ॥ 54 ॥
- ततः (tataḥ)then
- त्वदीयावरणम् (tvadīyāvaraṇam)the circle of those who stand about you
- परेश (pareśa)lord beyond all
- सम्पूजयामि (sampūjayāmi)I worship
- मनसा (manasā)in the mind
- यथावत् (yathāvat)as it should be done
- नानोपचारैः (nānopacāraiḥ)with many offerings
- परमप्रियैः (paramapriyaiḥ)dear to them
- तु (tu)indeed
- त्वत्प्रीतिकामार्थम् (tvatprītikāmārtham)wanting nothing but to please you
- अनाथबन्धो (anāthabandho)friend of the forlorn
anvaya परेश अनाथबन्धो ततः त्वत्प्रीतिकामार्थम् परमप्रियैः नानोपचारैः तु मनसा यथावत् त्वदीयावरणम् सम्पूजयामि
chandas Upajāti, 11 syllables in each of 4 pādas
आवरण the circle of those who stand about you — In worship, the rings of attendant powers round the central deity, each worshipped in turn after the god himself.
ह्यसङ्ख्यभूतां मनसा प्रदत्ताम् ।
सौवर्णमुद्रादिकमुख्यभावां
पाहि प्रभो विश्वमिदं गणेश ॥ 55 ॥
- गृहाण (gṛhāṇa)take
- लम्बोदर (lambodara)Lambodara
- दक्षिणाम् (dakṣiṇām)the fee for the rite
- ते (te)to you
- हि (hi)indeed
- असङ्ख्यभूताम् (asaṅkhyabhūtām)past counting
- मनसा (manasā)in the mind
- प्रदत्ताम् (pradattām)offered
- सौवर्णमुद्रादिकमुख्यभावाम् (sauvarṇamudrādikamukhyabhāvām)gold coin for the most part
- पाहि (pāhi)guard
- प्रभो (prabho)lord
- विश्वम् (viśvam)the world
- इदम् (idam)this
- गणेश (gaṇeśa)Ganesha
anvaya लम्बोदर गणेश प्रभो ते मनसा प्रदत्ताम् हि असङ्ख्यभूताम् सौवर्णमुद्रादिकमुख्यभावाम् दक्षिणाम् गृहाण इदम् विश्वम् पाहि
chandas Upajāti, 11 syllables in each of 4 pādas
दक्षिणा the fee for the rite — What is handed over at the close of a rite to make it complete. Here it too is only imagined.
हस्त्यश्वछत्रादिकमादराद्वै ।
चित्तेन दत्तान् गणनाथ ढुण्ढे
ह्यपारसङ्ख्यान् स्थिरजङ्गमांस्ते ॥ 56 ॥
- राजोपचारान् (rājopacārān)the royal offerings
- विविधान् (vividhān)of many kinds
- गृहाण (gṛhāṇa)take
- हस्त्यश्वछत्रादिकम् (hastyaśvachatrādikam)elephants, horses, parasols and the rest
- आदरात् (ādarāt)carefully
- वै (vai)indeed
- चित्तेन (cittena)in the mind
- दत्तान् (dattān)given
- गणनाथ (gaṇanātha)Gananatha
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
- हि (hi)indeed
- अपारसङ्ख्यान् (apārasaṅkhyān)past all counting
- स्थिरजङ्गमान् (sthirajaṅgamān)whatever stands still and whatever moves
- ते (te)to you
anvaya गणनाथ ढुण्ढे आदरात् वै चित्तेन ते दत्तान् हि अपारसङ्ख्यान् विविधान् स्थिरजङ्गमान् हस्त्यश्वछत्रादिकम् राजोपचारान् गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
गृहाण दत्तान्मनसा मया वै ।
पदार्थभूतान् स्थिरजङ्गमांश्च
हेरम्ब मां तारय मोहभावात् ॥ 57 ॥
- दानाय (dānāya)for you to hand on to others
- नानाविधरूपकान् (nānāvidharūpakān)goods of many kinds
- ते (te)to you
- गृहाण (gṛhāṇa)take
- दत्तान् (dattān)given
- मनसा (manasā)in the mind
- मया (mayā)by me
- वै (vai)indeed
- पदार्थभूतान् (padārthabhūtān)things of substance
- स्थिरजङ्गमान् (sthirajaṅgamān)standing and moving
- च (ca)and
- हेरम्ब (heramba)Heramba
- माम् (mām)me
- तारय (tāraya)carry over
- मोहभावात् (mohabhāvāt)out of my confusion
anvaya हेरम्ब मया मनसा ते दत्तान् वै पदार्थभूतान् स्थिरजङ्गमान् च नानाविधरूपकान् दानाय गृहाण माम् मोहभावात् तारय
chandas Upajāti, 11 syllables in each of 4 pādas
दूर्वाङ्कुरांस्ते मनसा ददामि ।
हेरम्ब लम्बोदर दीनपाल
गृहाण भक्तं कुरु मां पदे ते ॥ 58 ॥
- मन्दारपुष्पाणि (mandārapuṣpāṇi)mandara flowers
- शमीदलानि (śamīdalāni)shami leaves
- दूर्वाङ्कुरान् (dūrvāṅkurān)durva shoots
- ते (te)to you
- मनसा (manasā)in the mind
- ददामि (dadāmi)I give
- हेरम्ब (heramba)Heramba
- लम्बोदर (lambodara)Lambodara
- दीनपाल (dīnapāla)keeper of the poor
- गृहाण (gṛhāṇa)take
- भक्तम् (bhaktam)one who loves you
- कुरु (kuru)make
- माम् (mām)me
- पदे (pade)at the feet
- ते (te)your
anvaya हेरम्ब लम्बोदर दीनपाल ते मनसा मन्दारपुष्पाणि शमीदलानि दूर्वाङ्कुरान् ददामि गृहाण माम् ते पदे भक्तम् कुरु
chandas Upajāti, 11 syllables in each of 4 pādas
सिन्दूरकं ते परिकल्पयामि ।
सुवासितं वस्तु सुवासभूतै-
-र्गृहाण ब्रह्मेश्वर शोभनार्थम् ॥ 59 ॥
- ततः (tataḥ)then
- हरिद्राम् (haridrām)turmeric
- अबिरम् (abiram)abir
- गुलालम् (gulālam)gulal
- सिन्दूरकम् (sindūrakam)vermilion
- ते (te)for you
- परिकल्पयामि (parikalpayāmi)I make ready
- सुवासितम् (suvāsitam)fragrant
- वस्तु (vastu)the stuff
- सुवासभूतैः (suvāsabhūtaiḥ)with scents
- गृहाण (gṛhāṇa)take
- ब्रह्मेश्वर (brahmeśvara)lord of brahman
- शोभनार्थम् (śobhanārtham)for your adorning
anvaya ब्रह्मेश्वर ततः ते हरिद्राम् अबिरम् गुलालम् सिन्दूरकम् परिकल्पयामि सुवासभूतैः सुवासितम् वस्तु शोभनार्थम् गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
अबिर, गुलाल abir and gulal — The coloured powders thrown at festivals, offered here as part of the worship.
इन्द्रादयः शेषमुखास्तथान्ये ।
मुनीन्द्रकाः सेवकभावयुक्ताः
सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥ 60 ॥
- ततः (tataḥ)then
- शुकाद्याः (śukādyāḥ)Shuka and the rest
- शिवविष्णुमुख्याः (śivaviṣṇumukhyāḥ)with Shiva and Vishnu at their head
- इन्द्रादयः (indrādayaḥ)Indra and the others
- शेषमुखाः (śeṣamukhāḥ)Shesha and those with him
- तथा (tathā)and
- अन्ये (anye)the rest
- मुनीन्द्रकाः (munīndrakāḥ)the great sages
- सेवकभावयुक्ताः (sevakabhāvayuktāḥ)in the mood of servants
- सभासनस्थम् (sabhāsanastham)seated in the hall
- प्रणमन्ति (praṇamanti)bow to
- ढुण्ढिम् (ḍhuṇḍhim)Dhundhi
anvaya ततः शिवविष्णुमुख्याः शुकाद्याः इन्द्रादयः शेषमुखाः तथा अन्ये मुनीन्द्रकाः सेवकभावयुक्ताः सभासनस्थम् ढुण्ढिम् प्रणमन्ति
chandas Upajāti, 11 syllables in each of 4 pādas
सिद्धिस्तु नानाविधसिद्धिभिस्तम् ।
अत्यन्तभावेन सुसेवते तु
मायास्वरूपा परमार्थभूता ॥ 61 ॥
- वामाङ्गके (vāmāṅgake)on his left
- शक्तियुता (śaktiyutā)holding her power
- गणेशम् (gaṇeśam)Ganesha
- सिद्धिः (siddhiḥ)Siddhi
- तु (tu)indeed
- नानाविधसिद्धिभिः (nānāvidhasiddhibhiḥ)with successes of every kind
- तम् (tam)him
- अत्यन्तभावेन (atyantabhāvena)with the deepest feeling
- सुसेवते (susevate)serves
- तु (tu)indeed
- मायास्वरूपा (māyāsvarūpā)her form is maya
- परमार्थभूता (paramārthabhūtā)and she is the highest truth
anvaya वामाङ्गके शक्तियुता मायास्वरूपा परमार्थभूता सिद्धिः तु नानाविधसिद्धिभिः अत्यन्तभावेन तु तम् गणेशम् सुसेवते
chandas Upajāti, 11 syllables in each of 4 pādas
बुद्धिः कलाभिश्च सुबोधिकाभिः ।
विद्याभिरेवं भजते परेश
मायासु साङ्ख्यप्रदचित्तरूपाः ॥ 62 ॥
- गणेश्वरम् (gaṇeśvaram)the lord of the ganas
- दक्षिणभागसंस्था (dakṣiṇabhāgasaṃsthā)standing on his right
- बुद्धिः (buddhiḥ)Buddhi
- कलाभिः (kalābhiḥ)with her arts
- च (ca)and
- सुबोधिकाभिः (subodhikābhiḥ)that wake the mind
- विद्याभिः (vidyābhiḥ)with her branches of learning
- एवम् (evam)so
- भजते (bhajate)worships
- परेश (pareśa)lord beyond all
- मायासु (māyāsu)among the forms of maya
- साङ्ख्यप्रदचित्तरूपाः (sāṅkhyapradacittarūpāḥ)these are the mind that hands the reckoning over
anvaya परेश दक्षिणभागसंस्था बुद्धिः सुबोधिकाभिः कलाभिः च विद्याभिः एवम् गणेश्वरम् भजते मायासु साङ्ख्यप्रदचित्तरूपाः
chandas Upajāti, 11 syllables in each of 4 pādas
गणेश्वरं भावयुता भजन्ते ।
भक्तेश्वरा मुद्गलशम्भुमुख्याः
शुकादयस्तं स्म पुरो भजन्ते ॥ 63 ॥
- प्रमोदमोदादयः (pramodamodādayaḥ)Pramoda and Moda and the rest
- पृष्ठभागे (pṛṣṭhabhāge)behind him
- गणेश्वरम् (gaṇeśvaram)the lord of the ganas
- भावयुताः (bhāvayutāḥ)full of feeling
- भजन्ते (bhajante)worship
- भक्तेश्वराः (bhakteśvarāḥ)the lords of devotees
- मुद्गलशम्भुमुख्याः (mudgalaśambhumukhyāḥ)Mudgala and Shambhu at their head
- शुकादयः (śukādayaḥ)Shuka and the others
- तम् (tam)him
- स्म (sma)indeed
- पुरः (puraḥ)in front
- भजन्ते (bhajante)worship
anvaya पृष्ठभागे भावयुताः प्रमोदमोदादयः गणेश्वरम् भजन्ते मुद्गलशम्भुमुख्याः भक्तेश्वराः शुकादयः पुरः तम् स्म भजन्ते
chandas Upajāti, 11 syllables in each of 4 pādas
गणेशगीतं विविधस्वरूपम् ।
नृत्यं कलायुक्तमथो पुरस्ता-
-च्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ 64 ॥
- गन्धर्वमुख्याः (gandharvamukhyāḥ)the chief gandharvas
- मधुरम् (madhuram)sweetly
- जगुः (jaguḥ)sang
- च (ca)and
- गणेशगीतम् (gaṇeśagītam)the song of Ganesha
- विविधस्वरूपम् (vividhasvarūpam)in all its forms
- नृत्यम् (nṛtyam)a dance
- कलायुक्तम् (kalāyuktam)each step an art
- अथो (atho)and then
- पुरस्तात् (purastāt)before him
- चक्रुः (cakruḥ)they made
- तथा (tathā)so
- हि (hi)indeed
- अप्सरसः (apsarasaḥ)the apsarases
- विचित्रम् (vicitram)a wonder to see
anvaya गन्धर्वमुख्याः विविधस्वरूपम् गणेशगीतम् मधुरम् जगुः च अथो अप्सरसः तथा हि पुरस्तात् कलायुक्तम् विचित्रम् नृत्यम् चक्रुः
chandas Upajāti, 11 syllables in each of 4 pādas
संसेवितं विघ्नपतिं भजामि ।
चित्तेन ध्यात्वा तु निरञ्जनं वै
करोमि नानाविधदीपयुक्तम् ॥ 65 ॥
- इत्यादिनानाविधभावयुक्तैः (ityādinānāvidhabhāvayuktaiḥ)by those full of feeling, in these ways and others
- संसेवितम् (saṃsevitam)served
- विघ्नपतिम् (vighnapatim)the lord of obstacles
- भजामि (bhajāmi)I worship
- चित्तेन (cittena)in my mind
- ध्यात्वा (dhyātvā)having held him
- तु (tu)indeed
- निरञ्जनम् (nirañjanam)spotless
- वै (vai)indeed
- करोमि (karomi)I make
- नानाविधदीपयुक्तम् (nānāvidhadīpayuktam)an offering of lamps of many kinds
anvaya इत्यादिनानाविधभावयुक्तैः संसेवितम् विघ्नपतिम् भजामि चित्तेन निरञ्जनम् वै ध्यात्वा तु नानाविधदीपयुक्तम् करोमि
chandas Upajāti, 11 syllables in each of 4 pādas
तथाङ्कुशं दन्तयुतं तमेवम् ।
त्रिनेत्रयुक्तं त्वभयङ्करं तं
महोदरं चैकरदं गजास्यम् ॥ 66 ॥
- चतुर्भुजम् (caturbhujam)four-armed
- पाशधरम् (pāśadharam)holding the noose
- गणेशम् (gaṇeśam)Ganesha
- तथा (tathā)and
- अङ्कुशम् (aṅkuśam)the goad
- दन्तयुतम् (dantayutam)with his tusk
- तम् (tam)him
- एवम् (evam)so
- त्रिनेत्रयुक्तम् (trinetrayuktam)three-eyed
- तु (tu)indeed
- अभयङ्करम् (abhayaṅkaram)who puts fear to flight
- तम् (tam)him
- महोदरम् (mahodaram)great-bellied
- च (ca)and
- एकरदम् (ekaradam)single-tusked
- गजास्यम् (gajāsyam)elephant-faced
anvaya चतुर्भुजम् पाशधरम् गणेशम् तथा अङ्कुशम् दन्तयुतम् तम् एवम् त्रिनेत्रयुक्तम् तु अभयङ्करम् तम् महोदरम् च एकरदम् गजास्यम्
chandas Upajāti, 11 syllables in each of 4 pādas
note This verse and the next are the meditation proper: after all the offerings, the worshipper stops and looks at the form he has been serving.
विभूतिभिः सेवितपादपद्मम् ।
ध्यायेद्गणेशं विविधप्रकारैः
सुपूजितं शक्तियुतं परेशम् ॥ 67 ॥
- सर्पोपवीतम् (sarpopavītam)with a snake for his sacred thread
- गजकर्णधारम् (gajakarṇadhāram)his ears an elephant's
- विभूतिभिः (vibhūtibhiḥ)by the powers
- सेवितपादपद्मम् (sevitapādapadmam)his lotus feet served
- ध्यायेत् (dhyāyet)let a man meditate on
- गणेशम् (gaṇeśam)Ganesha
- विविधप्रकारैः (vividhaprakāraiḥ)in many ways
- सुपूजितम् (supūjitam)worshipped
- शक्तियुतम् (śaktiyutam)with his consort beside him
- परेशम् (pareśam)the lord beyond all
anvaya सर्पोपवीतम् गजकर्णधारम् विभूतिभिः सेवितपादपद्मम् विविधप्रकारैः सुपूजितम् शक्तियुतम् परेशम् गणेशम् ध्यायेत्
chandas Upajāti, 11 syllables in each of 4 pādas
स्वमूलमन्त्रस्य विधानयुक्तम् ।
असङ्ख्यभूतं गणराज हस्ते
समर्पयाम्येव गृहाण ढुण्ढे ॥ 68 ॥
- ततः (tataḥ)then
- जपम् (japam)the saying over
- वै (vai)indeed
- मनसा (manasā)in my mind
- करोमि (karomi)I do
- स्वमूलमन्त्रस्य (svamūlamantrasya)of his own root mantra
- विधानयुक्तम् (vidhānayuktam)as the rule lays down
- असङ्ख्यभूतम् (asaṅkhyabhūtam)times past counting
- गणराज (gaṇarāja)king of the ganas
- हस्ते (haste)in your hand
- समर्पयामि (samarpayāmi)I lay it
- एव (eva)indeed
- गृहाण (gṛhāṇa)take
- ढुण्ढे (ḍhuṇḍhe)Dhundhi
anvaya गणराज ढुण्ढे ततः मनसा स्वमूलमन्त्रस्य विधानयुक्तम् असङ्ख्यभूतम् जपम् वै करोमि हस्ते एव समर्पयामि गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
जपसमर्पण laying the recitation in his hand — At the close of a recitation its merit is formally handed over to the deity, so that nothing of it is kept back.
-मपारदीपां प्रकरोमि पूर्णाम् ।
चित्तेन लम्बोदर तां गृहाण
ह्यज्ञानध्वान्ताघहरां निजानाम् ॥ 69 ॥
- आरार्तिकाम् (ārārtikām)the arati
- कर्पूरकादिभूताम् (karpūrakādibhūtām)of camphor and the rest
- अपारदीपाम् (apāradīpām)with lamps past counting
- प्रकरोमि (prakaromi)I make
- पूर्णाम् (pūrṇām)full
- चित्तेन (cittena)in the mind
- लम्बोदर (lambodara)Lambodara
- ताम् (tām)it
- गृहाण (gṛhāṇa)take
- हि (hi)indeed
- अज्ञानध्वान्ताघहराम् (ajñānadhvāntāghaharām)which lifts the dark of ignorance and the wrong
- निजानाम् (nijānām)from your own people
anvaya लम्बोदर कर्पूरकादिभूताम् अपारदीपाम् पूर्णाम् निजानाम् हि अज्ञानध्वान्ताघहराम् आरार्तिकाम् प्रकरोमि ताम् चित्तेन गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
सुमन्त्रितं पुष्पदलं प्रभूतम् ।
गृहाण चित्तेन मया प्रदत्त-
-मपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥ 70 ॥
- वेदेषु (vedeṣu)in the Vedas
- विघ्नेश्वरकैः (vighneśvarakaiḥ)to the lord of obstacles
- सुमन्त्रैः (sumantraiḥ)with the good mantras
- सुमन्त्रितम् (sumantritam)charged
- पुष्पदलम् (puṣpadalam)flowers and leaves
- प्रभूतम् (prabhūtam)heaped high
- गृहाण (gṛhāṇa)take
- चित्तेन (cittena)in the mind
- मया (mayā)by me
- प्रदत्तम् (pradattam)offered
- अपारवृत्त्या (apāravṛttyā)with the words said over and over without end
- तु (tu)indeed
- अथ (atha)now
- मन्त्रपुष्पम् (mantrapuṣpam)the mantra-flower
anvaya वेदेषु विघ्नेश्वरकैः सुमन्त्रैः सुमन्त्रितम् प्रभूतम् पुष्पदलम् मया चित्तेन अपारवृत्त्या प्रदत्तम् अथ मन्त्रपुष्पम् तु गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
मन्त्रपुष्प the mantra-flower — The handful of flowers held while the closing verses are chanted and then let fall at the god's feet.
गृहाण चित्तेन कृतां गणेश ।
युक्तां श्रुतिस्मार्तभवैः पुराणैः
सर्वैः परेशाधिपते मया ते ॥ 71 ॥
- अपारवृत्या (apāravṛtyā)never broken off
- स्तुतिम् (stutim)the praise
- एकदन्तम् (ekadantam)one-tusked one
- गृहाण (gṛhāṇa)take
- चित्तेन (cittena)in the mind
- कृताम् (kṛtām)made
- गणेश (gaṇeśa)Ganesha
- युक्ताम् (yuktām)drawn
- श्रुतिस्मार्तभवैः (śrutismārtabhavaiḥ)from what comes of shruti and smriti
- पुराणैः (purāṇaiḥ)from the puranas
- सर्वैः (sarvaiḥ)all
- परेशाधिपते (pareśādhipate)lord of the highest lords
- मया (mayā)by me
- ते (te)to you
anvaya गणेश एकदन्तम् परेशाधिपते मया ते चित्तेन अपारवृत्या कृताम् सर्वैः श्रुतिस्मार्तभवैः पुराणैः युक्ताम् स्तुतिम् गृहाण
chandas Upajāti, 11 syllables in each of 4 pādas
गृहाण लम्बोदर भावयुक्ताः ।
सङ्ख्याविहीना विविधस्वरूपा
भक्तान् सदा रक्ष भवार्णवाद्वै ॥ 72 ॥
- प्रदक्षिणाः (pradakṣiṇāḥ)the circlings
- मानसकल्पिताः (mānasakalpitāḥ)made in the mind
- ताः (tāḥ)those
- गृहाण (gṛhāṇa)take
- लम्बोदर (lambodara)Lambodara
- भावयुक्ताः (bhāvayuktāḥ)full of feeling
- सङ्ख्याविहीनाः (saṅkhyāvihīnāḥ)past counting
- विविधस्वरूपाः (vividhasvarūpāḥ)of many kinds
- भक्तान् (bhaktān)those who love you
- सदा (sadā)always
- रक्ष (rakṣa)guard
- भवार्णवात् (bhavārṇavāt)from the sea of becoming
- वै (vai)indeed
anvaya लम्बोदर मानसकल्पिताः भावयुक्ताः सङ्ख्याविहीनाः विविधस्वरूपाः ताः प्रदक्षिणाः गृहाण भक्तान् सदा वै भवार्णवात् रक्ष
chandas Upajāti, 11 syllables in each of 4 pādas
प्रदक्षिणा circling — Walking round the god with the right side towards him. Ganapati is usually circled once, or in some places three times.
साष्टाङ्गकाद्यां विविधस्वरूपाम् ।
सङ्ख्याविहीनां मनसा कृतां ते
सिद्ध्या च बुद्ध्या परिपालयाशु ॥ 73 ॥
- नतिम् (natim)my bowing
- ततः (tataḥ)then
- विघ्नपते (vighnapate)lord of obstacles
- गृहाण (gṛhāṇa)take
- साष्टाङ्गकाद्याम् (sāṣṭāṅgakādyām)the bow with eight limbs and the rest
- विविधस्वरूपाम् (vividhasvarūpām)of many kinds
- सङ्ख्याविहीनाम् (saṅkhyāvihīnām)past counting
- मनसा (manasā)in the mind
- कृताम् (kṛtām)made
- ते (te)to you
- सिद्ध्या (siddhyā)with Siddhi
- च (ca)and
- बुद्ध्या (buddhyā)with Buddhi
- परिपालय (paripālaya)look after me
- आशु (āśu)quickly
anvaya विघ्नपते ततः ते मनसा कृताम् साष्टाङ्गकाद्याम् विविधस्वरूपाम् सङ्ख्याविहीनाम् नतिम् गृहाण सिद्ध्या च बुद्ध्या आशु परिपालय
chandas Upajāti, 11 syllables in each of 4 pādas
साष्टाङ्ग with eight limbs — The full prostration, in which feet, knees, hands, chest, head, eyes, mind and speech all touch the ground or are given over at once.
-त्तदर्थमन्ते मनसा गृहाण ।
दूर्वाङ्कुरान्विघ्नपते प्रदत्तान्
सम्पूर्णमेवं कुरु पूजनं मे ॥ 74 ॥
- न्यूनातिरिक्तम् (nyūnātiriktam)too little or too much
- तु (tu)indeed
- मया (mayā)by me
- कृतम् (kṛtam)done
- चेत् (cet)if
- तदर्थम् (tadartham)to make up for it
- अन्ते (ante)at the end
- मनसा (manasā)in the mind
- गृहाण (gṛhāṇa)take
- दूर्वाङ्कुरान् (dūrvāṅkurān)the durva shoots
- विघ्नपते (vighnapate)lord of obstacles
- प्रदत्तान् (pradattān)offered
- सम्पूर्णम् (sampūrṇam)complete
- एवम् (evam)so
- कुरु (kuru)let stand
- पूजनम् (pūjanam)worship
- मे (me)my
anvaya विघ्नपते चेत् मया न्यूनातिरिक्तम् तु कृतम् तदर्थम् अन्ते मनसा प्रदत्तान् दूर्वाङ्कुरान् गृहाण एवम् मे पूजनम् सम्पूर्णम् कुरु
chandas Upajāti, 11 syllables in each of 4 pādas
note A rite is held to be spoilt by too much as well as by too little, so it closes with an offering that covers whatever went wrong.
सदापराधान् विविधस्वरूपान् ।
भक्तिं मदीयां सफलां कुरुष्व
सम्प्रार्थयामि मनसा गणेश ॥ 75 ॥
- क्षमस्व (kṣamasva)forgive
- विघ्नाधिपते (vighnādhipate)lord of obstacles
- मदीयान् (madīyān)my
- सदा (sadā)always
- अपराधान् (aparādhān)faults
- विविधस्वरूपान् (vividhasvarūpān)of every shape
- भक्तिम् (bhaktim)devotion
- मदीयाम् (madīyām)my
- सफलाम् (saphalām)fruitful
- कुरुष्व (kuruṣva)make
- सम्प्रार्थयामि (samprārthayāmi)this I ask
- मनसा (manasā)in the mind
- गणेश (gaṇeśa)Ganesha
anvaya विघ्नाधिपते गणेश सदा विविधस्वरूपान् मदीयान् अपराधान् क्षमस्व मदीयाम् भक्तिम् सफलाम् कुरुष्व मनसा सम्प्रार्थयामि
chandas Upajāti, 11 syllables in each of 4 pādas
दत्तं प्रसादं शिरसाभिवन्द्य ।
स्वमस्तके तं परिधारयामि
चित्तेन विघ्नेश्वरमानतोऽस्मि ॥ 76 ॥
- ततः (tataḥ)then
- प्रसन्नेन (prasannena)in his grace
- गजाननेन (gajānanena)by Gajanana
- दत्तम् (dattam)given
- प्रसादम् (prasādam)what he has left
- शिरसा (śirasā)with my head
- अभिवन्द्य (abhivandya)having bowed
- स्वमस्तके (svamastake)on my own head
- तम् (tam)it
- परिधारयामि (paridhārayāmi)I set
- चित्तेन (cittena)in the mind
- विघ्नेश्वरम् (vighneśvaram)to the lord of obstacles
- आनतः (ānataḥ)bowed
- अस्मि (asmi)I have
anvaya ततः प्रसन्नेन गजाननेन दत्तम् प्रसादम् शिरसा अभिवन्द्य तम् स्वमस्तके परिधारयामि चित्तेन विघ्नेश्वरम् आनतः अस्मि
chandas Upajāti, 11 syllables in each of 4 pādas
प्रसाद what he has left — Both his grace and the food that has been set before him and is then shared out. The word carries the two senses at once.
-द्गतस्ततस्त्वन्तरधानशक्त्या ।
शिवादयस्तं प्रणिपत्य सर्वे
गताः सुचित्तेन च चिन्तयामि ॥ 77 ॥
- उत्थाय (utthāya)having risen
- विघ्नेश्वरः (vighneśvaraḥ)the lord of obstacles
- एव (eva)indeed
- तस्मात् (tasmāt)from that place
- गतः (gataḥ)is gone
- ततः (tataḥ)then
- तु (tu)indeed
- अन्तरधानशक्त्या (antaradhānaśaktyā)by his power of vanishing
- शिवादयः (śivādayaḥ)Shiva and the rest
- तम् (tam)him
- प्रणिपत्य (praṇipatya)having bowed to
- सर्वे (sarve)all
- गताः (gatāḥ)went
- सुचित्तेन (sucittena)steadily in mind
- च (ca)and
- चिन्तयामि (cintayāmi)I hold
anvaya विघ्नेश्वरः उत्थाय एव अन्तरधानशक्त्या ततः तु तस्मात् गतः शिवादयः सर्वे तम् प्रणिपत्य गताः च सुचित्तेन चिन्तयामि
chandas Upajāti, 11 syllables in each of 4 pādas
भजामि चित्तेन गणाधिपं तम् ।
स्वस्थानमागत्य महानुभावै-
-र्भक्तैर्गणेशस्य च खेलयामि ॥ 78 ॥
- सर्वान् (sarvān)them all
- नमस्कृत्य (namaskṛtya)having bowed to
- ततः (tataḥ)then
- अहम् (aham)I
- एव (eva)indeed
- भजामि (bhajāmi)worship
- चित्तेन (cittena)in my mind
- गणाधिपम् (gaṇādhipam)the lord of the ganas
- तम् (tam)him
- स्वस्थानम् (svasthānam)my own place
- आगत्य (āgatya)having come back to
- महानुभावैः (mahānubhāvaiḥ)in whom there is such greatness
- भक्तैः (bhaktaiḥ)with the devotees
- गणेशस्य (gaṇeśasya)of Ganesha
- च (ca)and
- खेलयामि (khelayāmi)I pass the time
anvaya ततः अहम् सर्वान् नमस्कृत्य एव चित्तेन तम् गणाधिपम् भजामि स्वस्थानम् आगत्य च गणेशस्य महानुभावैः भक्तैः खेलयामि
chandas Upajāti, 11 syllables in each of 4 pādas
चित्तेन नित्यं परिपूजयामि ।
तेनैव तुष्टः प्रददातु भावं
विश्वेश्वरो भक्तिमयं तु मह्यम् ॥ 79 ॥
- एवम् (evam)so
- त्रिकालेषु (trikāleṣu)at the three hours of the day
- गणाधिपम् (gaṇādhipam)the lord of the ganas
- तम् (tam)him
- चित्तेन (cittena)in my mind
- नित्यम् (nityam)without fail
- परिपूजयामि (paripūjayāmi)I worship
- तेन एव (tena eva)with that alone
- तुष्टः (tuṣṭaḥ)pleased
- प्रददातु (pradadātu)may he give
- भावम् (bhāvam)a heart
- विश्वेश्वरः (viśveśvaraḥ)the lord of all
- भक्तिमयम् (bhaktimayam)full of devotion
- तु (tu)indeed
- मह्यम् (mahyam)to me
anvaya एवम् त्रिकालेषु तम् गणाधिपम् नित्यम् चित्तेन परिपूजयामि तेन एव तुष्टः विश्वेश्वरः मह्यम् भक्तिमयम् भावम् तु प्रददातु
chandas Upajāti, 11 syllables in each of 4 pādas
ह्युच्छिष्टगन्धस्य सुलेपनं तु ।
निर्माल्यसन्धारणकं सुभोज्यं
लम्बोदरस्यास्तु हि भुक्तशेषम् ॥ 80 ॥
- गणेशपादोदकपानकम् (gaṇeśapādodakapānakam)the drinking of the water from Ganesha's feet
- च (ca)and
- हि (hi)indeed
- उच्छिष्टगन्धस्य (ucchiṣṭagandhasya)of the scent he has already worn
- सुलेपनम् (sulepanam)the smearing
- तु (tu)indeed
- निर्माल्यसन्धारणकम् (nirmālyasandhāraṇakam)the wearing of the flowers taken down from him
- सुभोज्यम् (subhojyam)good food
- लम्बोदरस्य (lambodarasya)of Lambodara
- अस्तु (astu)let it be
- हि (hi)indeed
- भुक्तशेषम् (bhuktaśeṣam)what he has left
anvaya गणेशपादोदकपानकम् च हि उच्छिष्टगन्धस्य सुलेपनम् तु निर्माल्यसन्धारणकम् लम्बोदरस्य भुक्तशेषम् हि सुभोज्यम् अस्तु
chandas Upajāti, 11 syllables in each of 4 pādas
निर्माल्य the flowers taken down from him — What has already been offered and then removed. For most deities it is not to be reused; for Ganapati his devotees ask for it.
गणेश्वरस्यास्तु सदा गणेश ।
प्रसीद नित्यं तव पादभक्तं
कुरुष्व मां ब्रह्मपते दयालो ॥ 81 ॥
- यम् यम् (yam yam)whatever
- करोमि (karomi)I do
- एव (eva)indeed
- तदेव (tadeva)let that itself
- दीक्षा (dīkṣā)be my initiation
- गणेश्वरस्य (gaṇeśvarasya)into the lord of the ganas
- अस्तु (astu)let it be
- सदा (sadā)always
- गणेश (gaṇeśa)Ganesha
- प्रसीद (prasīda)be gracious
- नित्यम् (nityam)without fail
- तव (tava)your
- पादभक्तम् (pādabhaktam)one who loves your feet
- कुरुष्व (kuruṣva)make
- माम् (mām)me
- ब्रह्मपते (brahmapate)lord of the sacred word
- दयालो (dayālo)you who are kind
anvaya गणेश यम् यम् एव करोमि तदेव सदा गणेश्वरस्य दीक्षा अस्तु ब्रह्मपते दयालो नित्यम् प्रसीद माम् तव पादभक्तम् कुरुष्व
chandas Upajāti, 11 syllables in each of 4 pādas
मन्दारकार्पासकवस्त्रयुक्ताम् ।
सुवासपुष्पादिभिरर्चितां
ते गृहाण निद्रां कुरु विघ्नराज ॥ 82 ॥
- ततः (tataḥ)then
- तु (tu)indeed
- शय्याम् (śayyām)a bed
- परिकल्पयामि (parikalpayāmi)I make ready
- मन्दारकार्पासकवस्त्रयुक्ताम् (mandārakārpāsakavastrayuktām)spread with cloths of mandara silk and cotton
- सुवासपुष्पादिभिः (suvāsapuṣpādibhiḥ)with scented flowers and the rest
- अर्चिताम् (arcitām)strewn
- ते (te)for you
- गृहाण (gṛhāṇa)take it
- निद्राम् (nidrām)sleep
- कुरु (kuru)take
- विघ्नराज (vighnarāja)king of obstacles
anvaya विघ्नराज ततः तु ते मन्दारकार्पासकवस्त्रयुक्ताम् सुवासपुष्पादिभिः अर्चिताम् शय्याम् परिकल्पयामि गृहाण निद्राम् कुरु
chandas Upajāti, 11 syllables in each of 4 pādas
सुनिद्रितं वीक्ष्य तथाहमेव ।
गत्वा स्ववासं च करोमि निद्रां
ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥ 83 ॥
- सिद्ध्या (siddhyā)with Siddhi
- च (ca)and
- बुद्ध्या (buddhyā)with Buddhi
- सहितम् (sahitam)together
- गणेश (gaṇeśa)Ganesha
- सुनिद्रितम् (sunidritam)well asleep
- वीक्ष्य (vīkṣya)seeing
- तथा (tathā)likewise
- अहम् (aham)I
- एव (eva)indeed
- गत्वा (gatvā)having gone
- स्ववासम् (svavāsam)to my own house
- च (ca)and
- करोमि (karomi)take
- निद्राम् (nidrām)sleep
- ध्यात्वा (dhyātvā)holding
- हृदि (hṛdi)in my heart
- ब्रह्मपतिम् (brahmapatim)the lord of the sacred word
- तदीयः (tadīyaḥ)belonging to him
anvaya गणेश सिद्ध्या च बुद्ध्या सहितम् सुनिद्रितम् वीक्ष्य तथा अहम् एव स्ववासम् गत्वा हृदि ब्रह्मपतिम् ध्यात्वा तदीयः च निद्राम् करोमि
chandas Upajāti, 11 syllables in each of 4 pādas
note The worship ends as a day in a household ends. He is put to bed, and only then does the worshipper go to his own.
देहि प्रभो मानसजं गणेश ।
मह्यं च तेनैव कृतार्थरूपो
भवामि भक्तिरसलालसोऽहम् ॥ 84 ॥
- एतादृशम् (etādṛśam)such as this
- सौख्यम् (saukhyam)happiness
- अमोघशक्ते (amoghaśakte)lord of unfailing power
- देहि (dehi)give
- प्रभो (prabho)lord
- मानसजम् (mānasajam)born in the mind
- गणेश (gaṇeśa)Ganesha
- मह्यम् (mahyam)to me
- च (ca)and
- तेन एव (tena eva)by that alone
- कृतार्थरूपः (kṛtārtharūpaḥ)one who has done what he was here to do
- भवामि (bhavāmi)I become
- भक्तिरसलालसः (bhaktirasalālasaḥ)longing for the taste of devotion
- अहम् (aham)I
anvaya गणेश प्रभो अमोघशक्ते मह्यम् एतादृशम् मानसजम् सौख्यम् देहि च तेन एव अहम् कृतार्थरूपः भक्तिरसलालसः भवामि
chandas Upajāti, 11 syllables in each of 4 pādas
एवं नित्यं महाराज गृत्समदो महायशाः ।
चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ 85 ॥
- गार्ग्यः (gārgyaḥ)Gargya
- उवाच (uvāca)said
- एवम् (evam)in this way
- नित्यम् (nityam)day after day
- महाराज (mahārāja)great king
- गृत्समदः (gṛtsamadaḥ)Gritsamada
- महायशाः (mahāyaśāḥ)the renowned
- चकार (cakāra)performed
- मानसीम् (mānasīm)in the mind
- पूजाम् (pūjām)the worship
- योगीन्द्राणाम् (yogīndrāṇām)of the greatest yogis
- गुरुः (guruḥ)the teacher
- स्वयम् (svayam)himself
anvaya गार्ग्यः उवाच महाराज योगीन्द्राणाम् गुरुः स्वयम् महायशाः गृत्समदः एवम् नित्यम् मानसीम् पूजाम् चकार
chandas Anuṣṭubh (śloka), 8 syllables in each of 4 pādas
गृत्समद Gritsamada — The seer who speaks this worship; the whole piece is his, reported here by Gargya to a king.
पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ 86 ॥
- यः (yaḥ)whoever
- एताम् (etām)this
- मानसीम् (mānasīm)in the mind
- पूजाम् (pūjām)worship
- करिष्यति (kariṣyati)will perform
- नरोत्तमः (narottamaḥ)best of men
- पठिष्यति (paṭhiṣyati)will recite
- सदा (sadā)always
- सः (saḥ)he
- अपि (api)too
- गाणपत्यः (gāṇapatyaḥ)one of Ganapati's own
- भविष्यति (bhaviṣyati)will become
anvaya यः नरोत्तमः एताम् मानसीम् पूजाम् करिष्यति सदा पठिष्यति सः अपि गाणपत्यः भविष्यति
chandas Anuṣṭubh (śloka), 8 syllables in each of 4 pādas
गाणपत्य one of Ganapati's own — A member of the Ganapatya following, for whom Ganapati is not one god among many but the whole of it.
स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ 87 ॥
- श्रावयिष्यति (śrāvayiṣyati)will read it aloud for others
- यः (yaḥ)who
- मर्त्यः (martyaḥ)the man
- श्रोष्यते (śroṣyate)will listen
- भावसंयुतः (bhāvasaṃyutaḥ)with feeling
- सः (saḥ)he
- क्रमेण (krameṇa)in time
- महीपाल (mahīpāla)king
- ब्रह्मभूतः (brahmabhūtaḥ)brahman itself
- भविष्यति (bhaviṣyati)will become
anvaya महीपाल यः मर्त्यः श्रावयिष्यति भावसंयुतः श्रोष्यते सः क्रमेण ब्रह्मभूतः भविष्यति
chandas Anuṣṭubh (śloka), 8 syllables in each of 4 pādas
अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ 88 ॥
- यम् यम् (yam yam)whatever
- इच्छति (icchati)he wishes for
- तम् तम् (tam tam)that very thing
- वै (vai)indeed
- सफलम् (saphalam)fulfilled
- तस्य (tasya)for him
- जायते (jāyate)comes about
- अन्ते (ante)at the end
- स्वानन्दगः (svānandagaḥ)going to Svananda
- सः (saḥ)he
- अपि (api)too
- योगिवन्द्यः (yogivandyaḥ)one to whom the yogis bow
- भविष्यति (bhaviṣyati)will be
anvaya यम् यम् इच्छति तम् तम् वै तस्य सफलम् जायते अन्ते सः अपि स्वानन्दगः योगिवन्द्यः भविष्यति
chandas Anuṣṭubh (śloka), 8 syllables in each of 4 pādas
स्वानन्द Svananda — Ganapati's own world, whose name means the joy that is one's own: the place a devotee reaches at the end.
