Lord Ganesha

हेरम्ब स्तोत्रम्

(Heramba Stotram)

Also known as heramba ganapati stotram · heramba ganesha stotra · gajanana jnana vihara

Fourteen verses spoken in fear rather than in praise, and by a woman: the grammar of the first verse is feminine throughout, and what she says is closer to a bargain than a hymn — Gajanana, you who move in knowledge, you do not know me, who am beyond reproach; Ganesha, protect me, or else I shall give up this body at once, being joined to you in devotion. The second heaps his names on him in a run — Vighnesha, Heramba, Mahodara, the dear one, Lambodara, increaser of love, Achyuta, remover of obstacles, destroyer of the hosts of demons — and asks again to be saved from a demon. The last verse steps outside her voice into the narrative that frames it: seeing that great wonder, Maheshvara himself, struck with fear, remembered Ganapati, for the removal of the obstacle.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

Reading depth
Lyrics
॥ हेरम्ब स्तोत्रम् ॥
गौर्युवाच।
गजानन ज्ञानविहारकानि-
-न्न मां च जानासि परावमर्षाम् ।
गणेश रक्षस्व न चेच्छरीरं
त्याजामि सद्यस्त्वयि भक्तियुक्ता ॥ १ ॥
विघ्नेश हेरम्ब महोदर प्रिय
लम्बोदर प्रेमविवर्धनाच्युत ।
विघ्नस्य हर्ताऽसुरसङ्घहर्ता
मां रक्ष दैत्यात्त्वयि भक्तियुक्ताम् ॥ २ ॥
किं सिद्धिबुद्धिप्रसरेण मोह-
-युक्तोऽसि किं वा निशि निद्रितोऽसि ।
किं लक्षलाभार्थविचारयुक्तः
किं मां च विस्मृत्य सुसंस्थितोऽसि ॥ ३ ॥
किं भक्तसङ्गेन च देवदेव
नानोपचारैश्च सुयन्त्रितोऽसि ।
किं मोदकार्थे गणपाद्भृतोऽसि
नानाविहारेषु च वक्रतुण्ड ॥ ४ ॥
स्वानन्दभोगेषु परिहृतोऽसि
दासीं च विस्मृत्य महानुभाव ।
आनन्त्यलीलासु च लालसोऽसि
किं भक्तरक्षार्थसुसङ्कटस्थः ॥ ५ ॥
अहो गणेशामृतपानदक्षा-
-मरैस्तथा वासुरपैः स्मृतोऽसि ।
तदर्थनानाविधिसम्युतोऽसि
विसृज्य मां दासीमनन्यभावाम् ॥ ६ ॥
रक्षस्व मां दीनतमा परेश
सर्वत्र चित्तेषु च संस्थितस्त्वम् ।
प्रभो विलम्बेन विनायकोऽसि
ब्रह्मेश किं देव नमो नमस्ते ॥ ७ ॥
भक्ताभिमानीति च नाम मुख्यं
वेदे त्वभावान् नहि चेन्महात्मन् ।
आगत्य हत्वाऽदितिजं सुरेश
मां रक्ष दासीं हृदि पादनिष्ठाम् ॥ ८ ॥
अहो न दूरं तव किञ्चिदेव
कथं न बुद्धीश समागतोऽसि ।
सुचिन्त्यदेव प्रजहामि देहं
यशः करिष्ये विपरीतमेवम् ॥ ९ ॥
रक्ष रक्ष दयासिन्धोऽपराधान्मे क्षमस्व च ।
क्षणे क्षणे त्वहं दासी रक्षितव्या विशेषतः ॥ १० ॥
स्तुवत्यामेव पार्वत्यां शङ्करो बोधसम्युतः ।
बभूव गणपानां वै श्रुत्वा हाहारवं विधेः ॥ ११ ॥
गणेशं मनसा स्मृत्वा वृषारूढः समाययौ ।
क्षणेन दैत्यराजं तं दृष्ट्वा डमरुणा हनत् ॥ १२ ॥
ततः सोऽपि शिवं वीक्ष्यालिङ्गितुं धावितोऽभवत् ।
शिवस्य शूलिकादीनि शस्त्राणि कुण्ठितानि वै ॥ १३ ॥
तं दृष्ट्वा परमाश्चर्यं भयभीतो महेश्वरः ।
सस्मार गणपं सोऽपि निर्विघ्नार्थं प्रजापते ॥ १४ ॥
इति मुद्गलपुराणे हेरम्ब स्तोत्रम् ।

Explore More