कुरु करुणां करुणार्द्रे, त्वच्छरणे दासे॥ध्रु॥
तव वै दिव्यशरीरं यैस्त्वं सद्गर्वा॥१॥
जैमिनिमुख्यैर्मुनिभिरिष्टा बहुसद्भिः॥२॥
भवभूतिर्भवभूतिः, भासश्रीहर्षो॥३॥
वाल्मीकिश्च सुबन्धुः, क्वान्यस्यामास्ते॥४॥
अतुलरसायनशास्त्रं कस्तुलयेल्लोके॥५॥
नास्ति जगद्धितकारिणि,
जनसुखमनुकूलम्॥६॥
त्वच्चरणौ हित्त्वा नो गतिरिह जनवासे॥७॥
तव चरणौ किल शरणं स्यातामाशासे॥८॥
त्वां शरणं प्राप्ताः, कुरु करुणां करुणार्द्रैः॥९॥
विश्वे विश्वजना इह सादरमर्थ्यन्ते॥१०॥
मातः आरार्त्तिक्यं कुर्वन् त्वच्चरणौ श्रयते॥११॥
