Lord Ganesha

गजाननस्तुतिः (लोभासुर कृत)

(Gajananastutih Lobhasura Krta)

From Mudgala Purana

Also known as shri gajanana stuti lobhasura krita · lobhasura gajanana stuti · mudgala purana lobhasura stotra

Lobhasura — greed personified as a demon — praises Gajanana after his defeat, in the Mudgala Purana's account of that battle, and the hymn he is given is a hymn about weapons. Salutation to you the king of weapons, to brahman in the form of weapons; lord of weapons, the many weapons rest upon you as their ground. Your form bears the likeness of the fire of dissolution; you are joined with endless valour, of measureless light like the sun. The fruit the text attaches to it is exactly matched to the speaker, which is the point of the whole design: greed will never trouble one who reads or hears it; joined with sons and grandsons, having enjoyed the pleasures his mind wished for, at the end he goes to the world of Svananda.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

Reading depth
Lyrics
नमस्ते शस्त्रराजाय शस्त्राणां ब्रह्मरूपिणे ।
नानाशस्त्राणि शस्त्रेश! त्वदाधाराणि ते नमः ॥ ४॥
प्रलयानलसङ्काशं स्वरूपं धरते नमः ।
अनन्तवीर्ययुक्ताय भास्करामिततेजसे ॥ ५॥
दृश्यादृश्यमयायैव सर्वदर्पहराय ते ।
धर्मसंस्थापनार्थाय नानारूपधराय च ॥ ६॥
साक्षाद्गजाननस्यैव यद्वीर्यं नियतात्मकम् ।
तदेव त्वं महाशस्त्रं किं ते स्तौमि नमो नमः ॥ ७॥
शरणागतपालाय सदा स्वानन्दसंस्थितः ।
रक्ष मां भयभीतं भोः परशो! ते नमो नमः ॥ ८॥
नमस्ते गजवक्राय नानासिद्धिप्रदायिने ।
बुद्धिचालकवेषाय ब्रह्मणे वै नमो नमः ॥ १४॥
हेरम्बाय सदा स्वानन्दवासिने महात्मने ।
परात्परतरायैव विघ्नेशाय नमो नमः ॥ १५॥
सुरासुरप्रियकर सुरासुरमयाय ते ।
लोभयुक्तान् विधर्मस्थान्नाशनाय नमो नमः ॥ १६॥
देवानां पालकायैव दैत्यानां रक्षकाय ते ।
सर्वेषां दर्पहन्त्रे वै गणेशाय नमो नमः ॥ १७॥
लम्बोदराय देवेश! दैत्येश! मूषकध्वज ! ।
अनादये च सर्वेषां आदिरूपाय ते नमः ॥ १८॥
आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ।
ब्रह्मेशाय महेशानां पालकाय नमो नमः ॥ १९॥
ब्रह्मभ्यो ब्रह्मदात्रे च सदा शान्तिधराय ते ।
शान्तीनां शान्तिरूपाय नमो योगाय वै नमः ॥ २०॥
एकदन्ताय सर्वेश! वक्रतुण्डाय ते नमः ।
महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ २१॥
सर्वेषां मूलबीजाय मात्रे पित्रे नमो नमः ।
ज्येष्ठराजाय ज्येष्ठानां पालकाय नमो नमः ॥ २२॥
बीजरूपं गणाधीश ! जगतां ब्रह्मणां गजम् ।
चिह्नेन लभ्यसे तेन गजानन ! नमोऽस्तु ते ॥ २३॥
बोधहीनाय रूपाय सदा साङ्ख्यमयाय च ।
विदेहाय नमस्तुभ्यं प्रत्यक्षं रूपधारिणे ॥ २४॥
यं स्तोतुं न समर्थाश्च वेदा योगिशिवादयः ।
तं किं स्तौमि गणाधीश ! नमस्ते वरदो भव ॥ २५॥
त्वद्दर्शनजमाहात्म्यात् संस्तुतोऽसि महाप्रभो ! ।
तेन मेऽभयदो भूत्वा रक्ष दासं विशेषतः ॥ २६॥
एवं स्तुत्वा महालोभः प्रणनाम गजाननम् ।
तमुवाच दयासिन्धुर्भक्तं भक्तप्रपालकः ॥ २७॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
पठतः शृण्वतश्चैव लोभस्तं नैव पीडयेत् ॥ २९॥
पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् मनेप्सितान् ।
अन्ते स्वानन्दलोके स ब्रह्मभूतो भविष्यति ॥ ३०॥
यः स्तौति मामनेनैव स मे मान्यो न संशयः ।
सदा सुरस्वभावेन हीनः सोऽपि भविष्यति ॥ ३१॥
त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः ।
शरणागतमेवं तु दानवोत्तम हन्मि न ॥ ३२॥
॥ इति लोभासुरेण प्रोक्ता गजाननस्तुतिः समाप्ता ॥

Explore More