Lord Ganesha

श्री गणेश नामाष्टकम्

(Sri Ganesha Namashtakam)

Also known as shri ganesha namashtakam · shree ganesha namashtakam · ganesha namashtakam

Vishnu tells it to the mother of the child, and it is an etymological hymn: eight names, each taken apart rather than merely said. Ganesha, Ekadanta, Heramba, Vighnanayaka, Lambodara, Shurpakarna, Gajavaktra and Guhagraja are given first as a list, and then unpacked one by one. Ga, it says, denotes knowledge, and na denotes nirvana; I bow to Ganesha, the supreme brahman who is lord of the two. The rest follow the same method, so that the hymn amounts to a short lexicon of the name. It comes from the Ganapati Khanda of the Brahmavaivarta Purana, and its closing promise is graded by what the reciter came for — a son to whoever wants a son, a wife to whoever wants a wife, and to the very dullest, that he becomes a chief among poets and learned men.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

Reading depth
Lyrics
॥ श्री गणेश नामाष्टकम् ॥
श्रीविष्णुरुवाच (भगवान विष्णु बोले):
गणेशमेकदन्तं च हेरम्बं विघ्ननायकम् ।
लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम् ॥ १ ॥
नामाष्टार्थं च पुत्रस्य शृणु मातर्हरप्रिये ।
स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम् ॥ २ ॥
ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः ।
तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ॥ ३ ॥
एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः ।
बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम् ॥ ४ ॥
दीनार्थवाचको हेश्च रम्बः पालकवाचकः ।
दीनानां परिपालकं हेरम्बं प्रणमाम्यहम् ॥ ५ ॥
विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः ।
विपत्खण्डनकारकं नमामि विघ्ननायकम् ॥ ६ ॥
विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बोदरं पुरा ।
पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरं च तम् ॥ ७ ॥
शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारणौ ।
सम्पदौ ज्ञानरूपौ च शूर्पकर्णं नमाम्यहम् ॥ ८ ॥
विष्णुप्रसादपुष्पं च यन्मूर्ध्नि मुनिदत्तकम् ।
तं गजेन्द्रवक्त्रयुक्तं गजवक्त्रं नमाम्यहम् ॥ ९ ॥
गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये ।
वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूजितम् ॥ १० ॥
॥ फलश्रुति ॥
एतन्नामाष्टकं स्तोत्रं नानार्थसम्युतं शुभम् ।
त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी ॥ ११ ॥
ततो विघ्नाः पलायन्ते वैनतेयाद्यथोरगाः ।
गणेश्वरप्रसादेन महाज्ञानी भवेद्ध्रुवम् ॥ १२ ॥
पुत्रार्थी लभते पुत्रं भार्यार्थी विपुलां स्त्रियम् ।
महाजडः कवीन्द्रश्च विद्यावांश्च भवेद्ध्रुवम् ॥ १३ ॥
॥ इति श्रीब्रह्मवैवर्ते गणपतिखण्डे विष्णूपदिष्टं श्रीगणेशनामाष्टकम् ॥

Explore More