Lord Ganesha

श्री गणपति स्तवं

(Shri Ganapati Stavam)

From Padma Purana

This profound hymn originates from the Padma Purana, featuring a beautiful prayer offered by the Trinity of Brahma, Vishnu, and Shiva. It celebrates Lord Ganesha not merely as a remover of obstacles, but as the supreme Parabrahman, the formless, attributeless, and eternal consciousness. Through its majestic verses, the stotra guides devotees toward spiritual liberation by contemplating the primordial nature of the deity. Chanting this hymn helps in dissolving the ego, attaining divine wisdom, and experiencing the bliss of non-dual existence, ultimately leading the seeker to merge their consciousness with the universal spirit represented by Ganesha.

ब्रह्मविष्णुमहेशा ऊचुः ।
अजं निर्विकल्पं निराकारमेकं
निरानन्दमद्वैतमानन्दपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं
परब्रह्मरूपं गणेशं भजेम ॥ 1 ॥
गुणातीतमाद्यं चिदानन्दरूपं
चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं
परब्रह्मरूपं गणेशं भजेम ॥ 2 ॥
जगत्कारणं कारणज्ञानरूपं
सुरादिं सुखादिं युगादिं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं
परब्रह्मरूपं गणेशं भजेम ॥ 3 ॥
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं
सदा कार्यसक्तं हृदाचिन्त्यरूपम् ।
जगत्कारकं सर्वविद्यानिधानं
परब्रह्मरूपं गणेशं नतास्मः ॥ 4 ॥
सदा सत्त्वयोगं मुदा क्रीडमानं
सुरारीन्हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजज्ञानहारं
सदा विष्णुरूपं गणेशं नमामः ॥ 5 ॥
तमोयोगिनं रुद्ररूपं त्रिनेत्रं
जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयन्तं
सदा शर्वरूपं गणेशं नमामः ॥ 6 ॥
तमस्तोमहारं जनाज्ञानहारं
त्रयीवेदसारं परब्रह्मपारम् ।
मुनिज्ञानकारं विदूरेविकारं
सदा ब्रह्मरूपं गणेशं नमामः ॥ 7 ॥
निजैरोषधीस्तर्पयन्तं करोद्यैः
सरौघान्कलाभिः सुधास्राविणीभिः ।
दिनेशांशु सन्तापहारं द्विजेशं
शशाङ्कस्वरूपं गणेशं नमामः ॥ 8 ॥
प्रकाशस्वरूपं नभोवायुरूपं
विकारादिहेतुं कलाकालभूतम् ।
अनेकक्रियानेकशक्तिस्वरूपं
सदा शक्तिरूपं गणेशं नमामः ॥ 9 ॥
प्रधानस्वरूपं महत्तत्त्वरूपं
धरावारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुभूतं
सदा विश्वरूपं गणेशं नतास्मः ॥ 10 ॥
त्वदीये मनः स्थापयेदङ्घ्रियुग्मे
जनो विघ्नसङ्घान्न पीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितोऽयं
जनोध्वान्त पीडां कथं वा लभेत ॥ 11 ॥
वयं भ्रामिताः सर्वथाऽज्ञानयोगा-
-दलब्धा तवाङ्घ्रिं बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादा-
-त्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥ 12 ॥
गणेश उवाच
इदं यः पठेत्प्रातरुत्थाय धीमान्
त्रिसन्ध्यं सदा भक्तियुक्तो विशुद्धः ।
सपुत्रान् श्रियं सर्वकामान् लभेत
परब्रह्मरूपो भवेदन्तकाले ॥ 13 ॥
इति गणेशपुराणे उपासनाखण्डे त्रयोदशोऽध्याये श्रीगणपतिस्तवः ।

Explore More